115 अथ माधुर्यम्—

अनुल्बणत्वं माधूर्यं

यथा शाकुन्तले—

सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥628

  1. १।१७