117 अथ स्वाभाविका दश । तत्र—

प्रियानुकरणं लीला मधुराङ्गविचेष्टितैः ॥ ३७ ॥

प्रियकृतानां 637वाग्वेषचेष्टानामनङ्गशृङ्गारिणीनामङ्गनाभिरनुकरणं = लीला । यथा ममैव—

तह दिट्ठं तह भणिअं ताए णिउदं638 तहा तहा सीणं ।
अवलोहअं सइण्हं सविब्भमं जह सवत्तीहिं ॥
यथा वा—तेनोहितं वदति याति तथा यथासौ इत्यादि ।

अङ्गविचेष्टितस्य माधुर्यमिदमित्याह 639अनङ्गशृङ्गारिणीनामिति । तह दिट्ठमिति ।

तथा दृष्टं तथा भणितं तथा निवृत्तं तथा तथासीनम ।640
अवलोकितं सतृष्णं सविभ्रमं यथा सपत्नीभिः ॥

अथ विलासः—

तात्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु ।

दयितावलोकनादिकालेऽङ्गे क्रियायां वचने च सातिशयविशेषोत्पत्तिः=विलासः । यथा मालतीमाधवे—

अत्रान्तरे किमपि वाग्विभवातिवृत्तवैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।
तद्भूरिसात्विकविकारविशेषरम्यमाचार्यकं विजयि मान्मथमाविरासीत ॥641

अथ विच्छित्तिः—

आकल्परचनाल्पापि विच्छित्तिः कान्तिपोषकृत् ॥ ३८ ॥

  1. N.S.P. vāgveṣaceṣṭānāṃ śṛṅgāriṇīnām.

  2. N.S.P. ṇiadaṃ (niyatam), sīṇam (śirṇam).

  3. In N.S.P. the reading is śṛṅgāriṇīnām.

  4. See Note 188 to Daśarūpāvaloka.

  5. १।२९