अथ बिब्बोकः—

गर्वाभिमानादिष्टेऽपि बिब्बोकोऽनादरक्रिया ।

यथा ममैव—

सव्याजं तिलकालकान् विरलयँल्लोलाङ्गुलिः संस्पृशन्645 वारंवारमुदञ्चयन् कुचयुगप्रोदञ्चिनीलाञ्चलम् ।
यद्भ्रूभङ्गतरङ्गिताञ्चितदृशा सावज्ञमालोकित- स्तद्गर्वादवधीरितोऽस्मि न पुनः कान्ते कृतार्थीकृतः ॥

  1. A.T.A. reads … -tilakān akālavirataṃ lolāṇgulībhiḥ spṛśan, … prodañcicīnāṃśukam.