125 माननर्म यथा—

तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।
मदधिवसतिमागाः कामिनां मण्डनश्री- र्व्रजति हि सफलत्वं वल्लभालोकनेन ॥658

भयनर्म शुद्धं659 यथा रत्नावल्यामालेख्यदर्शनावसरे—

सुसंगता

660जाणिदो मए एसो सव्वो वुत्तंतो समं चित्तफलएण । ता देवीए णिवेदइस्सं ।

इत्यादि ।

शृङ्गाराङ्गं भयनर्म । यथा ममैव—

अभिव्यक्तालीकः सकलविफलोपायविभव- श्चिरं ध्यात्वा सद्यः कृतकृतकसंरम्भनिपुणम् ।
इतः पृष्ठे पृष्ठे किमिदमिति संत्रास्य सहसा कृताश्लेषं धूर्तः स्मितमधुरमालिङ्गति वधूम् ॥

  1. शिशु॰ ११।३३
  2. N.S.P. omits śuddham.

  3. ‘ज्ञातो मयैष सर्वो वृत्तान्तः सह चित्रफलकेन । तद्देव्यै निवेदयिष्यामि ।’ इति च्छाया.