तत्र—

नीचे घृणाधिके स्पर्धा शोभायां शौर्यदक्षते ।

88 नीचे घृणा यथा वीरचरिते—

उत्तालताडकोत्पातदर्शनेऽप्यप्रकम्पितः ।
नियुक्तस्तत्प्रमाथाय स्त्रैणेन विचिकित्सति ॥542

गुणाधिके स्पर्धा यथा—

एतां पश्य पुरःस्थलीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः ।
इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापते- र्मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डलम् ॥

शौर्यशोभा यथा, ममैव—

अन्त्रैः स्वैरपि संयताग्रचरणो मूर्च्छाविरामक्षणे स्वाधीनव्रणिताङ्गशस्त्रनिचितो रोमोद्गमं वर्मयन् ।
543भुग्नानुद्बलयन् निजान् परभटान् संतर्जयन् निष्ठुरं धन्यो धाम जयश्रियः पृथुरणस्तम्भे पताकायते ॥

दक्षशोभा यथा वीरचरिते—

स्फूर्जद्वज्रसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतो रामस्य त्रिपुरान्तकृद्दिविषदां तेजोभिरिद्धं धनुः ।
शुण्डारः कलभेन यद्वदचले वत्सेन दोर्दण्डक- स्तस्मिन्नाहित एव गर्जितगुणं कृष्टं च भग्नं च तत् ॥544

शोभा तूपाधिभेदेन नीचे घृणाकारिणी अधिके स्पर्धाकारिणी शौर्यवती दाक्ष्यवतीति चतुर्धा विभक्ता सूत्रकारेण545 नीचे इत्यादिना । तथैव सोदाहरणं दर्शयति नीचे घृणा यथेत्यादिना ।

  1. १।३७
  2. N.S.P. reads bhagnān, etc. and A.T.A. -bhaṭān ādharṣayan helayā at the end of the line.

  3. १।५३
  4. Bh.Nṛ. uses the word sūtrakāra with reference to Dhanaṃjaya, the author of the Daśarūpaka.