अथाधिबलम्—

अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिबलं भवेत् ।

यथा वेणीसंहारे—

अर्जुनः
सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः ।
रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डुपुत्रः ॥735
इत्युपक्रमे
राजा

अरे, नाहं भवानिव विकत्थनाप्रगल्भः । किंतु—

द्रक्ष्यन्ति न चिरात् सुप्तं बान्धवास्त्वां रणाङ्गणे ।
मद्गदाभिन्नवक्षोऽस्थिवेणिकाभङ्गभीषणम् ॥736
इत्यन्तेन भीमदुर्योधनयोरन्योन्यवाक्यस्याधिक्योक्तिरधिबलम् ।

  1. ५।२७
  2. वे॰ सं॰ ५ । ३४