अथ गण्डम्—

गण्डं प्रस्तुतसंबन्धिभिन्नार्थं सहसोदितम् ॥ १८ ॥

यथोत्तरचरिते—

रामः
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो- रसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः ।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥
प्रतीहारी
प्रविश्य

737देव, उअत्थिदो ।

रामः

अयि, कः ?

प्रतीहारी

738देवस्स आसण्णपरिचारओ दुम्मुहो ।739

इति ।

  1. ‘देव, उपस्थितः ।’ इति च्छाया.
  2. ‘देवस्यासन्नपरिचारको दुर्मुखः ।’ इति च्छाया.
  3. १ । ३८