तत्रैवं विभक्ते—

आदौ विष्कम्भकं कुर्यादङ्कं वा कार्ययुक्तितः ।

इयमत्र कार्ययुक्तिः—

अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् ॥ २८ ॥
यदा संदर्शयेच्छेषं कुर्याद् विष्कम्भकं तदा ।
यदा तु सरसं वस्तु मूलादेव प्रवर्तते ॥ २९ ॥
आदावेव तदाङ्कः स्यादामुखाक्षेपसंश्रयः ।

एवं विभक्तावयवस्य नाटकस्य रचनाप्रकारमाह तत्रेति । अपेक्षितं परित्यज्येति । नीरसं वस्तुविस्तरं परित्यज्य, अपेक्षितं शेषं यदा संदर्शयेत् तदा151 प्रथमत एव विष्कम्भः स्यात् । यदा तु प्रथमत एवापेक्षितं सर्वं प्रवर्तते तदा प्रथमतः प्रस्तावनां विधाय तदाक्षिप्तमङ्कं प्रथमत एव न्यसेदित्याह अपेक्षितमिति764 ।

  1. This is not found in the Avaloka.