8b तत्प्रसूतेस्तत्फलत्वाच्च । न हि
प्रत्यक्षोपकारनिरपेक्षः प्रमाणान्तरोदयः । नापि प्रमाणान्तरोदयमात्रेण कृतार्थः
प्रमाणानुसारी यावन्न तदुपनीतसाधनार्थक्रियानुभवः । तस्मात् तदनपेक्षायामसामर्थ्य
वैयर्थ्यग्रस्तं प्रमाणान्तरं स्वयमेव न किञ्चिदिति न तेन साधिते बाधिते वावकाश
मासादयति । तत्कथमपोहः शब्दादिगोचर उच्यते ?

अथ यद्यपि निवृत्तिमहं प्रत्येमीति न विकल्पः, तथापि निवृत्तपदार्थोल्लेख एव
निवृत्त्युल्लेखः । न ह्यनन्तर्भावितविशेषणप्रतीतिर्विशिष्टप्रतीतिः । ततो यथा सामान्य
महं प्रत्येमीति विकल्पाभावेऽपि साधारणाकारपरिस्फुरणाद् विकल्पबुद्धिः सामान्य
बुद्धिः परेषाम्, तथा निवृत्तप्रत्ययाक्षिप्ता निवृत्तिबुद्धिरपोहप्रतीतिव्यवहारमातनोतीति
चेत् ? ननु साधारणाकारपरिस्फुरणे विधिरूपतया यदि सामान्यबोधव्यवस्था, तत्
किमायातमस्फुरदभावाकारे चेतसि निवृत्तिप्रतीतिव्यवस्थायाः ? ततो निवृत्तिमहं
प्रत्येमीत्येवमाकाराभावेऽपि निवृत्त्याकारणस्फुरणं यदि स्यात्, को नाम निवृत्तिप्रतीति
स्थितिमपलपेत् ? अन्यथा वा तत्प्रतिभासे तत्प्रतीतिव्यवहृतिरिति गवाकारेऽपि चेतसि