319
ततो नान्त्ययोरादिमस्योपयोगः, आद्ये वान्तिमयोरिति सिद्धम् । न सिद्धम् ।
आदिमेन हि प्रागस्य व्यापारादेतन्नासीदिति प्रतियन्नपि एतद्व्यापाराभावप्रयुक्तोऽस्या
भाव इति नावधारितम्, चरमेण त्ववधार्यत इत्ययुक्तम्, आदिमस्य पुनरनुपयोगस्य
तादवस्थ्यात्2499

अपि च,

तन्मात्राभावतोऽभावात् पश्चिमेन विनिश्चयः ॥
तन्न्यायस्य समानत्वात् प्राच्येनापि न किं मतः ॥ ७ ॥

एतद्व्यापारात् प्राग् नासीदित्यपि हि तन्मात्राभावादेवाभावं ख्यापयति, यथोक्त
सत्तात्रैविध्यविधूतेराक्षेपात् । ततस्तेनानिश्चये पश्चिमेनापि मा भूत् । तत्र पूर्वेण द्वयोः
अभावस्य सन्निधिमात्रम्, नैकस्यानेन प्रयुक्तिरिति पश्यतः पश्चिमेऽपि क आश्वासः ?
तदनायत्तौ2500 तदभावेऽपि उत्पत्तिप्रसङ्गे द्वितीयाभावस्यैवायोगः समानः । अथ वह्नि
रासभयोरागमनानन्तरजन्मनोऽपि धूमस्य गर्दभाभावेऽप्यभावः प्राच्येनानुभूयत
इत्युच्यते । उभयापगमेऽपगच्छतः पश्चात्तनेनापि, इत्यपरापरोपायपरम्परानुसणेन
पञ्चकव्यवस्थाहानिः2501 । तथा सति त्रयं, न द्वयमिति चेत् ? पश्चिमेनापि न शक्यते
इत्येतावदुच्यते । स तु2502 द्वयोस्त्रयोर्वेति

  1. दङ् पोहि आदिमस्य यङ् पुनः दोगस् प मेद अनुपयोग दे ञिद् ल गनस्
    पहि पियर् रो तादवस्थ्यात् । मातृकात्र संदिग्धपाठा ।

  2. रग् म लस् प अनायत्ति ?
    मातृका संदिग्धपाठा ।

  3. हानिरिति मातृकायां दुष्पठम्, भोटपाठान्निश्चितम् ञम्स्प

  4. स त्विति
    पश्चिमानुपलम्भस्त्वित्यर्थः ।