56a इत्येवं गर्दभस्यापि ? अथ प्रत्यक्षानुपलम्भयोस्तत्रापि
वृत्तेः 2510उभयस्याप्ययोगात् । न चान्यस्य तथा निषेधाय त्रयाश्रयणम्, अपि तु
वह्नेर्विधये । स च सिद्ध इत्यन्यस्यानिषेधोऽबाधक एव । अननुमानं तु कारणत्वा
निश्चयादेव । न कदाचिदग्निमपेक्ष्य गर्दभः करोतीति शङ्कैव निश्चयो विरोधात्,
तस्याः संशयरूपत्वात् । तन्निषेधोऽपि तस्यैव परीक्षया नान्यस्येत्यस्थानमेवंविध
प्रलापस्य । ननु तथापि वह्निः कारणमित्यवधारणानुपपत्तेर्दुस्थैव स्थितिः । न हि वह्नि
रेव कारणम्, अन्यस्याप्यनिराकरणात्, इन्धनस्यापि परमार्थतः कारणत्वाच्च । न च
कारणमेव, अनारब्धधूमस्यापि संभवादिति न चोद्यम्, त्रिविधस्यापि व्यवच्छेदस्य
सिद्धेः ।

तथा हि,

सामग्र्यपेक्षयान्यस्य च्छेदे द्रव्यव्यपेक्षया ।
योग्यतायामयोगस्य सिद्धोऽत्यन्तं च कर्मणि ॥ १० ॥

यदा हि दहनशब्देन तदुपलक्षिता सामग्री समासेनाभिधीयते, तदा स एवेत्यन्य
योगव्यवच्छेदः । यदा तु दहनद्रव्यमेव तदापि कारणत्वं नाम यदि योग्यता, तदा
कारणमेवेत्ययोगव्यवच्छेदः । अथ क्रियैव, तदापि भवत्येवेत्यत्यन्तायोगव्यवच्छेदश्च
सिद्धः । स चायमियान् व्यापारस्त्रिविधस्यैव प्रत्यक्षानुपलम्भस्य शक्य इति युक्तमत्र भागे
भट्टार्चटपादव्याख्यानमेव ।

भगवतो वार्तिककारस्यापि स्वयमेव,

कुम्भस्य कुम्भकारेण करणं भस्मनोऽग्निना ।
शस्त्रादिना व्रणादेश्च ब्रुवतो मतमेव तत् ॥ १ ॥

कथं पुनः कार्यत्वाविशेषाद्धूमादिव भस्मनोऽपि नाग्नेरनुमानम् ? न, देशकालाद्य
पेक्षया अभिमतत्वात् । तथा हि,—

किमप्युदयमात्राय कार्यं हेतुमपेक्षते ।
प्रबन्धस्थितयेऽप्यन्यत् कालवित्तदपेक्षया ॥ १२ ॥
  1. गञिस् ग लउभयोः यङ् च मि रिग्स् पहि पियर् अयुक्तत्वात् ।