324
तत्र प्रमाणं संवादि यत्प्राग्निर्णीतवस्तुवत् ।
तद् भावनाजं प्रत्यक्षमिष्टं शेषा उपप्लवाः ॥
2514

यत् पुनरस्तं गतेऽपि वस्तुन्याकारान्तरभाजि वा स्थिराकारतया भावना,
यस्य निरालम्बनत्वमापादितं सर्वस्य, तदपि वस्तुभावनापक्षे शोभते, न वस्तुधर्म
भावनापक्षे । वस्तुधर्माश्च क्षणिकत्वादयः संसारवैराग्यात् स्फुटीभावभाजो भावयितु
मुपक्रान्ताः । अथैकत्र प्रमाणपरिशुद्धेऽपि भावनाजनितवैशद्यस्य वस्तुनि विसंवाद
संदर्शनादन्यत्रापि क आश्वासः, प्रमाणपरिशुद्धिमन्तरेणाश्वासहेतोरप्यस्याभावात्,
तस्याश्च संवादनियतावसामर्थ्यात् ? तन्न, स्थिरास्थिरविषयत्वेन विशेषात् । अस्थिरं
हि वस्तु प्रध्वंसविकाराभ्यां ग्रस्यत इति न संवादः,

  1. प्र. वा. २. २८६