56b शद्यस्यापि संवादनियमानुपपत्तेः कुतः प्रामाण्यमिति
कथं प्रत्यक्षता योगिज्ञानस्येति ?

अथानुमानव्यवस्थापितवस्तुभावनायास्तद्व्यभिचारशङ्काविरहात् तज्जस्यापि
ज्ञानस्य कुतः शङ्कावकाश इति चेत् ? आस्तां तावदनुमानपौरुषप्रत्याशा, प्रत्यक्षेणापि
विद्युद्दहनादिकं गृहीत्वा भावनाप्रकर्षपर्यन्तजातं स्थिरतरतदाकारं च ज्ञानं भवेद् यावन्न
विपरीतभावनाभियोगपर्यन्तः । अस्तं गतश्च तद्विषय इति कथं प्रमाणोपनीतवस्तु
गोचरत्वेऽपि संवादाश्वासः ? अनस्तङ्गमेऽपि वा तावत्कालमनलस्य नावस्थानियमः ।
समुद्रादेरप्येवम् । महीरुहादीनां चाल्पाल्पकालेन वैसदृश्यं दृश्यते । महीधरादीनां च
दहनाशनिप्रभृतिभिः । भावना तु यामवस्थामभिनिविश्य भवति तदेकावस्थानियतः
स्फुटाभाव इति तद्विषयापेक्षया भ्रान्तिराकारभेदादिति न प्रामाण्यं न च प्रत्यक्षता ।
यदा च हालिक एव हव्याशनमनुमाय भावनया स्फुट्येत्, तदा न तद् योगिज्ञानं परमार्थ
विषयत्वाभावादिति प्रत्यक्षान्तरप्रसङ्गः ।

अत्रोच्यते । न हि तावदियमनन्तराशंका संभविनी । भावना हि रागशोकाद्यावे
शाद् वा स्वयमुपनमेत्, प्रयोजनानुरोधाद् वा प्रेक्षवता संचिन्त्यारभ्येत ? तत्र परमप्रयो
जनवार्ताविरहाद्दाहपाकादिमात्रमनुमितेनैव हुतभुजा तद्देशोपसर्पणात् सिद्धम्, अनुपमृष्ट
देशेऽपि भावनावैफल्यम् । पुरस्तात्तु भाविते परिस्फुरति तदर्थापेक्षया भ्रान्तिः । एवं
शोकाद्युपनतायामपि भावनायाम् । तत् कथं प्रत्यक्षान्तरप्रसङ्गसङ्गतिः ?

अस्तु वा यथा कथञ्चित् तादृगर्थभावना, शिरसि शृङ्गभावनावत् । अथाप्य
भ्रमपक्षे योगिज्ञान एवान्तर्भावः । योगो हि समाधिर्मनस एकाग्रतालक्षण इति न
दोषः । शृङ्गाकारस्फुटोभावे तु पृथ्वी कृत्स्नेत्यादिवदप्रत्यक्षतैव निरालम्बनत्वात् । यद्
वार्तिकम्,