388

मरीचावजले जलग्रहो भ्रम इति लोके, शास्त्रे च स्वप्रतिभासेऽनर्थेऽर्थाध्य
वसायेन प्रवृत्तेर्भ्रान्तमनुमानमित्यादि बहुधाभिधानात् । अतस्मिंस्तद्ग्रहो नाम
भ्रान्तिर्विदिता । तस्या यदि साकारनयेऽनुपपत्तिरलीकाकार एव कथमुपपत्तिरिति
चिन्त्यताम् । ज्ञानं हि केनचिदाकारेण सत्येन वालीकेन वोपजातं नाम, बाह्यारोपस्तु
तदाकारे तत्कृतोऽन्यकृतो वा स्यात्, तत्कृतत्वेन तावत्तत्काल एव व्यापारान्तरमनु
भूयत इति कुतस्तदारोपः ? कालान्तरे च स्वयमेवासन् कस्य व्यापारः स्यात् ?

द्वितीयपक्षे ज्ञानान्तरमपि नाकारोपरागसङ्गिनीमुत्पत्तिमन्तरेण व्यापारान्तरेण
क्वचित् किञ्चित्करं नाम । तदेतदर्वाचीनं प्राचीनज्ञानाकारगोचरीकरणेऽपि न बाह्या
रोपव्यापारमपरं स्पृशति तदाकारलेशानुकारमपहाय, शब्दाकारस्यापि स्वरूपेऽन्तर्गत
त्वात् । यदि च व्यापारान्तरमपि संभवेद् बाह्यारोपाय, नाकारम्, अनुमानेऽपि
साधनमभिदध्यात् । अधिगतये तत्साधनं नारोपायेति चेत्—न, स्वरूपनिर्भासस्य
अनुमाने