79b ष्यमाणं
निर्वाणमिति न क्षतिः । अन्यथा तु,

साकारबुद्धेर्बाधायां व्यवदानमसंगतम् ।
अबाधायां तु संक्लेशव्यवस्थादौस्थ्यमागतम् ॥

2546तथा हि सत्त्वैरेव प्रकाशैरविपरीतस्वरूपसंवेदनात् भ्रान्तेरत्यन्तमभावः
स्यात् । ततश्च सर्वसत्त्वाः सदैव मुक्ताः सदैव सम्यक्संबुद्धा भवेयुः । विकल्पिका
बुद्धिर्भ्रान्तिः, स्वप्रतिभासेऽनर्थे अर्थाध्यवसायादिति चेत् ? कथमवसीयमानस्तया
सोऽर्थो न प्रकाशते ? प्रकाश्यमाने वा कथमसौ तस्यां न प्रकाशते ? अथ प्रकाशत
एव, तदा अर्थस्य तादात्म्यप्रसङ्गः । असति चार्थे सा न स्यात् । अभून्मान्धाता,
भविष्यति शङ्खोऽस्त्यात्मा, नित्यः शब्दः इति सर्वात्मना च निश्चयः स्यात् । गौरिति
स्पष्टेन च स्वेन लक्षणेन प्रकाशेत । स्वलक्षणे च संकेतायोगाद् विकल्पिकैव सा बुद्धिर्न
स्यात् ।

तस्मादशेषगोव्यक्तिसाधारणेन गोत्वेन गोबुद्धिरलीकेन साभिलापेन विप्लवात्
प्रख्यातीति तथा प्रकाशनमस्या गवार्थावसाय इत्येष्टव्यम् । एवं ह्येते दोषा न स्युः,
अप्रतिभासमानस्यापि स्वलक्षणस्य भ्रान्त्यावसायात् । यथा चालीकस्य गोत्वस्य
गोबुद्धौ प्रकाशस्तादात्म्यं च, तद्व्यतिरेकाद् वस्तुत्वमनारोपितत्वं वा, तथा नीलादि
प्रकाशे नीलादीनामलीकानां प्रकाशसिद्ध्यैव तादात्म्यसिद्धिः, नानारूपनिष्ठयोरलीकत्वा
नलीकत्वयोरेकत्रापि वस्तुन्यविरोधात् । यदि च वस्तुत्वेऽनारोपितत्वे सा साध्ये
तादात्म्यमात्रं हेतुस्तदा गोत्वादिभिरनेकान्तः । अथानारोपितं तादात्म्यं हेतुस्तदसिद्ध
मिति । अत्राभिधीयते,

अतस्मिंस्तद्ग्रहो नाम भ्रमश्चेत् सर्वसंमतः ।
अलीकेऽपि तदाकारे सत्यवन्न समञ्जसः ॥
  1. तुल० रत्न० निब० पृः २९