412

तृतीयः परिच्छेदः

कथं पुनः स्वसंवेदनमात्रस्थितौ हेतुफलभावसिद्धिः, यतः प्रकृतफलहेतुपद्धतिरव
धानभाजनीभवतु ? तथा हि, न पूर्वा न परा नापि तदुभयवासनाप्रसूतानुसन्धानरूपा
बुद्धिरस्मादिदमिति भेदग्रहणनान्तरीयकं हेतुफलभावानुभवव्यवहारमवतरीतुं शक्नोति,
सर्वासां स्वविन्मात्रमयतयान्यदीयवार्तापरिचयानुपपत्तेः । यद्यपि चाद्य धियावधि
मात्रमधिगतं तथापि नावधिमत्, परया चावधिमदेव नावधिः । अनुसन्धानधिया
तु नैकयापीति कोऽपरः प्रतिपत्ता ? अवधिरवधिमदित्यपि तद्वलादेव यस्मान्नैकमपि
विषयः ततश्च तयोरपि शुद्धस्वरूपमेव विषयः ।

एतेन पूर्वापरभावः प्रत्याख्यातः, पूर्वापरतयापि कयाचिदग्रहात्, येन तदात्मक
एव हेतुफलभाव इति मनोरथसिद्धिः । न हि प्रत्यक्षस्यात्र व्यापारः, भिन्नप्रतीत्यभावे
पूर्वापरत्वादेर्दूरीकृतत्वात् । अथापि स्यात्, क्रमेणोदयात् पूर्वापरीभावस्तावदस्ति, ततः
पूर्वापरा बुद्धिरात्मानं पूर्वापररूपमेवानुभूतिगोचरीकरोति । विमर्शाकारविरहात्तु शब्द
एव परमप्रवर्तितः । न च तावता वस्त्वनुभवहानिः, न हि नाम रूपं वस्तूनाम्, तदपि
पश्चादनुसन्धानबुद्ध्या प्रवर्तते । न च