चतुर्थः परिच्छेदः

अथवा केयमलीकताप्यनुभवस्वभावस्य, बाधकादिति चेत् ? कस्य केन बाधा ?
चित्राकारराशेर्व्यापकानुपलम्भेन । तदेतद् विक्रीतगवीरक्षणम्,

बाध्यबाधकभावस्य सांवृतस्योपपादनात् ।
भाष्ये तद्व्याप्यसत्ख्यातेर्विरोधस्य प्रसाधनात् ॥

अपि च, न तावज्ज्ञानमात्मानमेव बाधते, स्वरूपसंवेदनस्यैव बलवत्त्वात् ।
परेणापि तद्विषयेण भिन्नविषयेण वा बाधा स्यात्, समकालेनासमकालेन वा ? तत्र तद्विषयं
तच्च बाधत इति असंबद्धम् । भिन्नविषयेणापि तस्य कीदृशो बाधा ? स्वविषयोपस्थापन
मात्राच्चेत् ? तेनैवास्य किं न बाधा ? न च समसमयेन । एककालमनेकस्य सजातीयस्य
विजातीयस्य वा प्रतिभासे कस्य केन बाधा ? कालभेदे तु सुतरामनवकाशो महासंमत
श्रोहर्षयोरपि प्रसङ्गात् ।

अथैकस्य ज्ञानस्य ज्ञानान्तरेण निर्विषयत्वप्रतिपादनं बाधार्थः, स च भिन्नकाल
योर्न विरुध्यते । सोऽर्थस्तत्र ज्ञाने यदि प्रतिभासते, तदा सन्नेवेति कुतो बाधा ?
अप्रतिभासे तु स्वयमेवासन् किं निषेधान्तरेण ? न वा तद्विषयं बाधनमुक्तं भवति ।
आरोपितस्य निषेध इति चेत् ? आरोपोऽपि व्यवहारमात्रसिद्ध इति प्रतिपादनात्,
तदाश्रया बाधापि न सांवृतमतिक्रामति । अथ यथैव प्रतीत्यसमुत्पादभे95b दसमा
श्रयेण ज्ञानान्तरप्रसवमात्रलक्षणो भ्रमः, तथैवैवमेतन्नान्यथेत्यपि ज्ञानाकारोदय एव
बाधा भविष्यति ।

यद्येवं तत्त्वतो न बाधेति सिद्धमेतत् । केनचिदाकारपरिग्रहेण ज्ञानमिदं जातं
नाम, न तु किञ्चिदनेन बाधितं साधितं वा, नीलज्ञानानन्तरं मधुरज्ञानवत् । अन्यत्र
बाधाध्यवसायेन विशेष इति चेत् ? अध्यवसायमात्रसिद्ध इत्येव सांवृत उच्यते ।
तस्मान्नालम्बनशून्यताप्रतिपादनं बाधार्थः । किं च, सालम्बनेतरभेदेन द्वैते गतिरियं
स्यादपि । अद्वैते तु स्वरूपमात्रपर्यवसितवेदनस्थितीनां मतीनामन्योऽन्यं बाध इति
महत्साहसम् । उक्तं च,
438

सिद्धिर्धियः परधियो न यथा तथा न बाधापि
2563

इति । ननु विज्ञप्तिमात्रतासिद्धिरपि परत एव, तथा बाधापि भविष्यतीति चेत् ?
असारमेतत् । संवृतिव्यवस्थितो हि नानुमानमनास्थाय स्थातुं शक्तः, अन्यथा न
क्वचित् प्रवृत्तिनिवृत्त्यादिकमाचरेत् । अनुमानाश्रये च बलाद्विज्ञप्तिमात्रतासिद्धि
रापतति । न तु तत्त्वपरिनिष्ठायामनुमानावकाशः । तथा यदि संवृतावेव बाधस्वीकारः,
तदा पुनः प्रतिभासमानमेतत् बहिरवसितमिति बाधस्तत्रैव स्यात् । यत्किञ्चिदेतत्
बुद्धिर्जडं वा तत्रैव बाधसिद्धिः, तदापि न बाह्यरूपातिक्रमेण साधनवृत्तिः । अथ किमत्र
विकल्पेन बुद्धिरूपमेव चित्रमालम्ब्य धर्मीकरणमिति न बाह्ये साधनव्यापारः ।
तदेतदश्वारूढाश्वविस्मरणवृत्तान्तमनुहरति ॥
वेदनं किञ्चिदुद्दिश्य यद् बाह्यं बाह्यमेव तत् ।
तच्च ज्ञानं जडं वा स्यादिति चिन्ता निरर्थिका ॥

सर्वथा बाह्यग्राह्यव्यवस्थानान्तरीयको बाधक इति सिद्धम् ।
नन्वेतदेव नीलादिबाधाया विषयो मतः ।
तच्च ज्ञानं जडं वा स्यादिति चिन्ता निरर्थिका ॥
न च तत्र धियो रूपमिति भीतिः प्रबाधितुः ।
नापि पश्चात् तथा ज्ञाने शक्तेरुत्कीलनं भवेत् ॥
बाह्यग्राह्यव्यवस्थाया व्यपेक्षानियमो न च ।
इदं हि बाधितं नीलं बहिरस्तु मनोऽस्तु वा ॥
अस्तु वा तद्व्यवस्थापि तथाप्येतस्य बाधनम् ।
वैरबुद्ध्या न किं बन्धोः प्रहारो मरणप्रदः ॥

इति चेत् ? पुनरपि ब्रुमः न विज्ञप्तिमात्रतासिद्धौ बाधकावकाश इति प्रकृतम् । तत्र
ग्राह्यग्राहकव्यवस्था नान्तरीयके बाधके सिध्यति नानिष्टमापादितं भवति, यथा हि
तस्या विप्लवस्तथा बाधकस्येति साध्यसिद्धेः । न च तन्नान्तरीयकतापरिहारः शक्यः ।
न चाविषयीकृतस्य बाधः, इदमनेन बाध्यत इति बाधाध्यवसायात् । विषयीकरणं
च बाध्यस्य बाधकादन्येन, बाधकेनेतरेणस्वयं स्वपरेण वेति विकल्पाः । बाधकाद्
439
अन्येन विषयीकरणे तावदबाध्यमेव । बाधकेनापि विषयीकरणे क्व बाधकावकाशः,
विषयीकरणस्य स्वरूपनिर्भास 96a त्वात् ? बाध्यमानत्वेनैव स्वरूपस्य निर्भास इति
चेत् ? व्याहतमेतत् । स्वरूपनिर्भास इति स्वरूपसत्त्वं, बाध्यमानता चासत्त्वम् ।
क्रमेण द्वयमपीति चेत् ? न तावत् प्रथमं बाधा, संबन्धिनोऽप्रतीतेः । अथ स्वरूप
निर्भासस्तदा तावतैव सत्त्वाकृष्टेः क्व बाधा ? न खलु कालान्तरे भवन्त्यपि तस्याः
स्यात्, तदा तस्य स्वयमेवाभावात् । भावे वा बाधकशतेनापि न किञ्चित् । उभयेन
तु विषयीकरणे संवादसिद्धिरेव क्व बाधागन्धः ? न च तेन वान्येन वान्यस्य
विषयीकरणं नामोपपत्तिमत्, विज्ञानसिद्धौ चिन्तायाः प्रारब्धत्वात् । नापि स्वयमेव
विषयीकरणे बाधावकाशिनी,

स्वयं निर्भासमानस्य परेण विषयीकृतौ ।
बाधकेनात्मनो मूर्द्धा बाधितव्यो बलीयसा ॥

ततश्च नीलमिदं बाधितं मयानया युक्त्येति स्वाकारमात्रपर्यवसायिव्यापारो
विकल्पस्तस्य वार्तामपि न स्पृशति भेदे, अभेदेऽपि तेमात्मानमेव बाधत इति साहसम् ।
स्वपरवेदने च पूर्ववत् संवाद एव । अविषयीकृतस्य तु बाधनेऽतिप्रसङ्गः बाह्यग्रहाधि
मुक्तौ तु तदस्पर्शिन्यपि ज्ञानोदये तत्सिद्धबाधव्यवहार इति स्यात् प्रत्याशा । स
चाधिमोक्षे विप्लव इति तत्कृता बाधापि विप्लव एव । बाह्यग्रहव्यवस्थापरिभवे हि
स्वसंवेदनमग्नमशेषमिति कस्य केन किं क्रिया स्यात् ? न हि तदापीदमेवमिति शक्यं
कर्तुम् । तथा सति पुनर्द्वैतप्राप्तेः । यदाहुः,

विज्ञानमात्रमेवेदमित्यपि ह्युपलम्भतः ।
स्थापयन्नग्रतः किञ्चित्तन्मात्रे नावतिष्ठते ॥
2564

इति । अथ तत्त्वनिश्चयेऽप्यसाक्षात्करणावस्थस्य प्रवृत्त्यादिवद् बाधकमप्यवकाशेतेति
चेत् ? तथापि न दोषः । यथा हीदमतो वेद्यं प्राप्यं वेति सहजाविद्यया बहिरधिकारे
णैव प्रवृत्त्यादिः, तथा बाधोऽपि तन्मूर्धन्येव निपतेत् । विन्मात्रचिन्तायां पुनः सर्व
व्यापारोपरमः । तदयं बाध्यबाधकभावः सांवृत एव, न तत्त्वरूपामुखीकरणकाले
अवकाशमासादयति । तदा च कामं साधनस्यापि नावतारः, केवलमनवतारोऽप्यस्य
न बाधते, साध्यस्य सिद्धत्वात् ।

440

तदसिद्धावितरस्यानवतारः परपरितोषादन्यत्र कमर्थं पुष्णाति ? यदि तर्हि
तत्साधकप्रमाणवृत्तिमपेक्ष्य बाधकप्रयोगः, तदैष दोषः । कः पुनरेवं विलम्बिष्यते ?
प्रथमत एव बाधकप्रयोगोऽस्तु । भौताचमनमात्रमेतत् । यदा हि विज्ञप्तिमात्रता
प्रतीतौ नास्यावतार इति सिद्धम्, तदा तदात्मताविरहमपेक्ष्यैव तत्प्रयोग इति
तन्निरूपणापेक्षायां प्रकाशतयैव विज्ञानतासिद्धौ विधूतो बाधकावतारः, भवन् वा यदि
नेदं विज्ञानमित्थनेनाकारेण भवेत् । तस्माद् यावद् बाधस्तावद् बहिरात्मन्येव न
विज्ञानरूप इति सिद्धम् । कः पुनरेवं साधनदोष इति चेत्—न, विज्ञप्तिमात्रतासिद्धौ
अनुमानस्यैवो96b त्थानाभावात् क्व साधनदूषणावकाशः ? तथा हि,

बहिर्बोधेऽनुमानादि मानं न स्वैकसंविदि ।
स्वैकसंवित्प्रसिद्धौ तु तद्ग्रहादेव तद्भवः ॥

तथापि यदि दोषोक्त्या सन्तोषः,

असिद्धेः पररूपस्य धर्मिहेतुस्वरूपयोः ।
न सिद्धिर्नापि च व्याप्तिरिति किं वा न दूषणम् ॥

किं च, अयं व्यापकानुपलम्भोऽन्यो वा बाधको विचारादिनामा नानुमानात्
अन्यः संभावनाविषयः । सर्व हि विवादरूढस्य वचनमाविर्भावितसाध्यसाधनदृष्टान्तादितया
नानुमानमनाक्षिप्य प्रकृतोपयोगि भवितुमर्हति । अतएव संवृताववश्यं प्रमाणस्वीकार
इत्यद्वैतबिन्दौ दर्शितमस्मामिः ।

अन्यथा यथा तथानुवादमात्रेण कस्य कीदृगर्थसिद्धिः ? न चानुमान
मध्यक्षमधिक्षिप्य यथार्थं भवितुमर्हति, संबन्धग्रहणादौ परम्परयापि नियतोपयोगितया
तेनैव जन्यत्वात् । तदप्यतदप्रमाणने प्रमाणमिति जनयितुरकुलीनतायां कुलीनता
शंसनमेतत् । स्वरूपे चैतदाकारवेदनं दूरीकृतभ्रान्तिकल्पनतया प्रत्यक्षमिति कुतो
बाधावसरः ?

स्ववित्तिरेवापरमानयोनि
र्न चेत् प्रमाणं किमिह प्रमाणम् ।
अतस्तया साधितबाधितेषु
न बाधसिद्ध्योरपरस्य शक्तिः ॥
441

अथ विज्ञप्तिसाधनकाले कथं स्वयोनिप्रत्थक्षपरिभव इति चेत्—न, साध्य
सिद्धौ स्वस्यापि परिभवात् ।

दहति द्रुममाश्रयाशनो
निजशाखापुगघृष्टिजो यथा ।
परवित्तिरपीत्थमात्मनो
यदि हन्त्री क इहापराध्यतु ॥

न खलु विज्ञप्तिसाधनं परवेदनमपरं बाधमानमात्मनः प्रामाण्यमाशंसति । परवेदन
सामान्येन तु तथोत्थापितो विचारः, वह्निर्यथा सर्वस्यैव दाहक इति नैकस्य कस्यचित्
अपराधः । व्यापकानुपलम्भस्तु प्रायक्षपरिभवेनैव प्रामाण्यमाकांक्षतीति न न्यायः ।
विज्ञप्तिसाधनस्य तु परवेदनान्तरप्रामाण्यावधिकमेव प्रामाण्यम् । यदा पुनरर्थक्रिया
शक्तिप्रतीतिव्यवहृतसत्ताकस्तस्याविमर्शेनादर्शनान्न तथा व्यवहरति, न तदा व्यापका
नुपलब्धेरपराधः, स्वयमबाधनात्, परतस्तु समानत्वात् दण्डस्य । न हि स्वसंवेदने
शक्तिप्रतिभासः । यदा तु व्यापकानुपलम्भ एव नायकस्तदा प्रत्यक्षान्तरस्यापि न
प्रामाण्यमुपहन्तुं शक्तः, प्रागेव स्वसंवेदनस्य जात्यैव दूरीकृतभ्रान्तिविकल्पशङ्का
कलङ्कस्य । तस्मान्न संवेदनरक्षितस्य क्षतिः कुतश्चित् ।

ननु,

अप्रामाण्ये यथाक्षस्य नानुमायाः प्रमाणता ।
तथानुमानाप्रामाण्ये नाक्षस्येत्यपि शक्यते ॥
तद्गृहीताङ्गतो लिङ्गाज्जातानुमितिदूषणे ।
तस्यैव दोषोऽदोषे हि किं कृतं तज्जदूषणम् ॥

ततो यद्युभयस्यापि प्रामाण्यम्, तथापि

संवित्तिः स्थितिमात्मनः प्रथयतु स्वस्मिन् भ्रमासंभवाद्
एकानेकतयात्ययः पुनरयं 97a क्रूरः कथं वार्यताम् ।
तत्साध्यस्थितिनान्तरीयकतया तुल्यप्रभावश्रियो
रध्यक्षानुमयोरयं व्यतिकरः को वेत्ति कस्योर्जितम् ॥
442
तदपि नौपयिकम् । व्यापकानुपलम्भस्य हि परवेदनैकनियतस्य व्याप्त्यादिग्राहिणा
परवेदनेनैव प्रत्यक्षेण समकक्षता भवतु, यत एकप्रामाण्यस्वीकारनान्तरीयकमपर
प्रामाण्यम् । स्वसंवेदनं तु द्वयोरप्याश्रयः तद्द्वयानाश्रयं चेति कस्तेन सह तुलारोहः ?
विषयभेदाच्च परोक्षविषयत्वादनुमानस्य, प्रत्यक्षे तदनवतारात् क्व बलाबलचिन्तावकाशः ?
अतएव प्रत्यक्षादिभिरनिराकृतः पक्ष आख्यातः2565

ननु प्रत्यक्षेऽपि स्वभावान्तरमव्यवहृतं व्यवहारयितुमनुमानमनुमतमेव ।
न च प्रतिभासिन एव क्वचिद् विधिर्निषेधो वा । प्रतिभासमाने हि शृङ्गलाङ्गुलादि
सन्निवेशविशेषे गवादिशब्दप्रवर्तनम्, क्वचित् केवलभूतलोपलम्भे कुम्भादिनिषेध
व्यवहारः । ज्ञानगतचन्द्रद्वयाकारे चाबहिरिन्दुयुगलस्य । न तु प्रतिभासिनामेव विधि
निषेधौ । तथेहापि निषेधप्रस्तावे प्रतिभासिनो नीलाद्याकारस्य यावन्तः कल्पिता धर्मा
निषिध्यन्ते, तावन्तो निषिध्यन्ताम् । यथात्मपरग्राह्यग्राहकज्ञाप्यज्ञापकनित्यक्षणिकै
कानेकत्वादयो द्रव्यगुणत्रिगुणीमयत्वादयो वा स्पर्शादिलक्षणरूपान्तरसहचारपरमाणु
रूपतार्थक्रियाशक्तिपर्यन्ताः प्रपञ्चशब्दवाच्याः, सर्वेषां कल्पितमात्रत्वात् । तस्मात्
प्रकाशमाने धर्मिणि धर्मान्तरस्याप्रतिभासिन एव निषेधो विधिर्वा व्यवहारमाश्रित्य,
शब्दादिव्यवहारविरहेऽपि तद्योग्येऽपि तद्योग्यतायाः परोक्षरूपत्वात् । न तु प्रतिभासिनः
क्वचिन्निषेधः । यदाह न्यायप्रसूतिः,

तस्मिन् भावानुपादाने साध्येऽस्यानुपलम्भनम् ।
तथा हेतुर्न तस्यैवाभावः शब्दप्रयोगतः ॥
प्र. वा. ३. २०५-६

इति ।
व्यस्तो हेतोरनाश्रयः ।
प्र. वा. ४. ९१

इति च । यदि तर्हि प्रतिभासिनो विधिनिषेधौ व्यर्थासमर्थौ, अप्रतिभासिनोऽपि स
एव निषेध इत्यसमर्थव्यर्थौ, क्व तर्हि शब्दव्यापारः ? न क्वचित् तत्त्वतः, प्रतीत्य
समुत्पादाश्रयव्यवहारमात्रमेतत् शब्देन किञ्चिद् विधीयते निषिध्यते वेति । यथा
हि वृक्षोऽस्तीति संकेतवशात् तदनुरूपप्रवृत्त्याक्षेपपरिकल्पोत्पादनमेव शब्देन वृक्षसत्ता

443
विधिः, तथा वृक्षो नास्तीति तदर्थिव्यावृत्त्याक्षेपकविकल्पोत्पादनमेव तन्निषेधः, नञस्त्योर
प्रयोगे तु केवलं वृक्षशब्दस्य प्रवृत्तिनिवृत्त्यसमर्थशाखादिमदाकारविकल्पोत्पादनमेव
विधिनिषेधाकरणं नाम । तस्य चास्तिपदसन्निधौ स एव शाखो सत्तयोपचीयमान इव
प्रतिभातीति पूर्वापेक्षया आकारविशेषोल्लेखमात्रम् । नञ्योगेप्यपचोयमान इवेति विध्यनु
भवापेक्षया क्षीणाकारो97b ल्लेख एव । ततस्तदनुरूपप्रवृत्त्यादिः ।

एवं लिङ्गेऽपि विकल्पविवर्तिनो वह्नेर्धूमजलदर्शनादौ, संवादनियमेतराभ्यां तु
विशेषः । तथा च न स्फुरतो बुद्ध्याकारस्य क्वचिद् विधिनिषेधौ । नापि बाह्यस्यास्फुरतः
सतोऽसतो वा तत्त्वतः । तथापि विकल्पोदयद्वारेण तु बाह्यस्यैव विधिनिषेधव्यवहारः केवलं
कल्पितस्य, पुरःपरिस्फुरतो नञ्शतैरपि निषेधाभावात् । कल्पनं च बहिर्मुखपरामर्शादन्यत्,
तरुमात्रविकल्पे सदसत्तानिर्णयावधानावस्थाक्षेपात् । अतएवाकारो बहीरूपतयारोपितः
शब्दवाच्योऽपोह इति चोच्यते, शाब्दे ज्ञाने तस्यैव प्रतिभासात् । अध्यवसायात्तु विजाति
व्यावृत्तं बहिरिति निवेदितं प्राक् । तस्मात्,

नाकारस्य न बाह्यस्य तत्त्वतः प्रतिषेधनम् ।
बहिरेव हि संवृत्त्या संवृत्त्यापि तु नाकृतेः ॥

तया अनर्थित्वात्, प्रकृत्या च बहिर्मुखत्वाल्लोकस्य । यदा च बाह्येऽपि परिस्फुरति
नावकाशो निषेधस्य, कुतः स्वात्मनि ? तस्मात्,
न प्रमाणप्रतिक्षिप्ते हेतुभिस्त्राणसंभवः ।
स्वसंवित्त्या च यत् सिद्धं तत्त्वतः सिद्धमेव तत् ॥

यद्यपि सांवृत एव साध्यसाधनभावः तथापि सत्संवृतिसमाश्रय एव कर्तव्यः । प्रति
पुरुषं हि भिन्नभिन्नसाधनादिव्यवस्थितौ सर्व सर्वस्य सिध्येत् । न च समयान्तर
स्थायिनोऽपि बाधिते हेतुभिस्त्राणवार्ता । स्वसंवेदने यदि परं परेषां विमतिः,
तत्र च,

न स्ववित्तिं विनाकृत्य प्रमाणैर्जीवितुं क्षमम् ।
विश्वेनेव प्रमापाये शास्त्रे निर्णीतमेव तत् ॥

तस्मात् स्वसंवेदनाध्यक्षसिद्धे व्यापकानुपलम्भाद्यनुमानमनवकाशयन्ती प्रति
ज्ञायाः प्रत्थक्षबाधा । अथवा कीदृशी पुनः सत्ता साधनैरेभिरपाकर्तुमिष्यते ? तत्र
444
यदि तावद्दर्शनान्तरप्रसिद्धा सत्ता, सत्तायोगस्वरूपसत्त्वत्रिलक्षणादिलक्षणा, स्वकल्पिता
वा काचित्, तदा न विवादः । अथ लोकप्रसिद्धा, सापि शक्तिलक्षणा प्रकाशलक्षणा
च । तथा हि युक्तोपलम्भमनुपलभमाना नास्तीत्याहुः ।

तत्र शक्तिलक्षणाया बाधने सिद्धसाधनम् । प्रतिभासलक्षणाया अप्यगृहीतशक्ते
र्बाधने स एव न्यायः । न वा तदा प्रतिभासो लक्षणं किं तु शक्तिरेवेति न क्षतिः ।
कल्पितशक्त्याद्युपाधिविधुरप्रकाशमात्रस्वरूपात्तु रूपादिषु सत्ता कथमपह्नोतुं शक्यते,
स्वसंवेदनप्रत्यक्षसिद्धत्वादिति प्रत्यक्षबाधे च प्रतिज्ञायाः ? एवं निःस्वभावा अमी भावा
इति रीतिभेदेऽपि स्वभावशब्दवाच्योऽर्थः प्रकाशादन्यो यथोक्तश्चेत् सिद्धसाधनम् । प्रतिभासे
चाशक्तिरेवेति वेदितव्यम् । एकानेकविरहस्त्वभिमत एव, सर्वप्रपञ्चप्रशमस्य विवक्षितत्वात् ।
स्वभावहानिभयाद्धि 98a तदनिष्टः स्यात् । सत्त्वं च प्रतिभासात् सिद्धमिति किमनेन
व्याहतम् ? कथं तर्हि चित्राद्वैतमिति चेत् ?

ग्राह्यग्राहकहानितोऽद्वयमिदं यद् वा जडस्यात्ययाद्
एकानेकहतेश्च साकृतितया चित्रं तथाश्चर्यतः ।
चित्राद्वैतमिति स्मृतं तृपतिवच्चैकध्वनिः सांवृतो
ऽनेकत्वं च न तत्त्वतो न च फलं तेनास्ति सत्संवृता ॥

एकानेकविरहेऽपि सत्त्वमित्याश्चर्यार्थश्च चित्रशब्दः । एको भगवानिति संवृतौ
वा, यथोक्तं प्राक् । न चैवमनेकव्यवहारेणोपयोगः । यथा हि स भगवानाश्रयणीयो मया,
मयापि च तथैव भाव्यमित्येकत्वाध्यवसायिनी प्रवृत्तिरुपयोगवती, तथा नानेकत्वेन किञ्चित्
फलमाकलयामः । पृथग्धर्मिणि क्वचिद् व्यापृतेरसिद्धेः । ततः तत्त्वतो द्वयोरप्यनुपपन्नत्त्वे
एकत्वं फलापेक्षया व्यवह्रियते नान्यत्, यथा अनित्यत्वं प्रशमानुकूलत्वेन । नन्वेतदपि
नीलान्तरालवलयपर्यन्तं सजातीयेतरज्ञानचक्रं चित्रमेकमेव व्यवह्रियते भवतां, तत्
कथमुच्यते—

यावदेव बहिरध्यवसाय
स्तावदेव पृथगेतदिदं च ।
तन्मतिस्तु सकलेति स एव
ज्ञानपाणिचरणादिरसौ हि ॥
445

न खलु मनोविवर्तान् विहाय करादिमात्रं चैत्रः । ततो विवर्तान्तरवच्चैत्रवाच्य
तायामन्तर्भावादेकव्यवहारः केवलं विज्ञप्तिमात्रतापरामर्शे । तत्रापि भगवतीव गोचरभाग
व्यवस्थान्तरमुक्तं स्मर्तव्यम् । तत्त्वतो वानेकव्यावृत्तिमात्रपर एकशब्दोऽद्वैतशब्दवत् ।
तस्मात् प्रकाशतया सन्नेव नीलादिरेकानेकविधुरश्चेति संग्रहः ।

नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् ।
अशक्यदर्शनस्तं हि पतत्यर्थे विवेचयन् ॥
2566

अत्र चित्र इत्येकतानिषेधः । विज्ञान इत्येकप्रतिपत्तुः । प्रतिभासमानतया एक
संविदन्तर्गमादनेकतानिषेधः । ज्ञानोपाधिरिति जडाद् व्यावृत्त्या ज्ञानात्मतया बाधका
भावः । आकारान्तरं पीतादिमभजन् न शक्यते द्रष्टुमित्यनेन भेदव्यवहारे प्रयोजना
भावमाह । यदि हि ततः पृथगप्येको लभ्यः स्यात्, तस्माच्च तत्साध्यसिद्धिश्चैत्रमैत्रादि
वदुचितोऽनेकव्यवहारः । न चैवं, तत एक एवोचितः । तं हीत्यादिना च यावदेव
बहिरित्यादिकमर्थमाह । बुद्धिरूपतापरामर्शे हि बुद्ध्यादिकलापे विहितचैत्राद्येकशब्दं
तत्रापि तथैव प्रवर्तयेत् । विवेचयन् भिन्दन् पुनरर्थ एव पतेत्, अर्थस्यैव जन्मग्रहणं वा
पृथक्, न ज्ञानस्य । यतः,

यद् यथा भासते ज्ञानं तत्तथैवानुभूयते2567
इति नामैकभावः स्याच्चित्राकारेऽपि चेतसि2568
2569

नाम संज्ञावाचकः शब्द इत्यर्थः । स एवैकभावो न तात्त्विकः । भासत इति
जायत इत्यर्थः, प्रकाशमानस्यैव जन्मेत्यभिप्रायात् । तदेवमेकानेक98b स्वभावविधुरमेव
ज्ञानं चित्राद्वैतमपेतबाधनम् । संवृतौ चैकव्यवहारगोचर एव क्षणिकत्वादिवदिति दर्शितम् ।
ननु तथापि तच्च नास्ति तद्व्याप्तं चास्तीति कथं संप्रत्ययविषयः ? न चैवं क्वचिद्धेतावा
श्वासः । एकनिषेधेन चान्यविधाने राश्यन्तराभावाद् भावेषु उभयपक्षवदनुभयस्यापि कुतः
संभवः ? अतो लक्षणकरणकाल एव प्रकाराभ्यां सिद्धा व्याप्तिः । परस्य तु वस्तुस्वभावादु
भयाभावो न बाधक इत्यसंबद्धमेतत् ।

446

सत्यमसंबद्धमेतत्, तद्द्वयीमन्तरेणापि सत्त्वसिद्धेर्व्याप्तेरेवायोगात् । क्व
चैवम् ? नन्विहैव बुद्धिवपुषि । तत् किमिदानीं पक्षीभूतेनैव व्यभिचारः ? को वा
दोषो यदि व्यभिचारे प्रमाणवृत्तिः ? धर्म्यन्तरेऽपि हि तयैव साधारणानैकान्तिकः
क्रियते । यदि चात्र पक्षीकरणमात्रेण त्राणम्, तत्रापि कः प्रतिरोधः ? यदा च
विपक्षे साक्षादीक्षणेऽपि न साध्यक्षतिः, तदा सन्देहमात्रमकिञ्चित्करमिति नानैकान्तिकत्वं
तावद् दोषः ।

नाप्यसिद्ध्यादिः, यतः कुतश्चित् हेतोः सिद्धेः, अध्यक्षबाधनादरात् । एवं च
प्रमाणव्यस्तसाध्याद्धेतोरनाश्वासेऽपि न क्षतिः । अन्यत्र तु कः शङ्कावकाशः ? तत
एव लक्षणकालेऽपि न व्याप्तिसिद्धिः । एकनिषेधेनान्यविधाने राश्यन्तरनिषेधो बाह्य
एव । न हि तत्रापि प्रत्यक्षबाधोपदर्शनं शक्यम्, इदं तदेतदपेक्षया न भिन्नं नाभिन्न
मिति वक्तुमशक्तेः । स्वसंवेदनं च निसर्गदुर्गमेव, बाह्यस्य भेदाभेदाभावे च संव्यवहार
विलोपप्रसङ्गात् । यदाह,

न ह्यनलं पश्यन्
2570

इत्यादि । तस्माद् बाह्य एवायं न्यायो नियतश्च, तदनुरोधात्तु यदि बुद्धिरपि व्यवस्थाप्येत
व्यवस्थामात्रमस्तु । यथोक्तम्,
यथा बाह्यं ग्राह्यम्

इत्यादि । न तु तदाप्याञ्जसः । यत्तु,
अन्यथैकस्य भावस्य
प्र. वा. २. ३५८

इत्यादि बुद्ध्यधिकारेऽप्युक्तम्, तन्माध्यमिकविशेषाभिप्रायात्
यथा यथार्थाश्चिन्त्यन्ते
प्र. वा. २. २०९

इत्यस्य स्फुटीकरणार्थम् । यथा तर्हि नैकं नानेकं, तथा न प्रकाशं नाप्रकाशमित्यपि
स्यात्—न, प्रकाशनिषेधस्य प्रकाशेनैव बाधितत्वात् । नैवमेकानेकत्वयोः शक्यम् । परस्य
त्वित्यादिना च नोपन्यस्तेनोपयोगः ।

447
एकानेकत्वयोर्हानिरवस्तुत्वेन रक्षिता ।
अवस्तुत्वं स्ववित्त्या तु को रक्षेद्भक्ष्यमाणकम् ॥

तस्मान्नैकानेकविवेचकस्य बुद्धावधिकारोऽसत्त्वसाधनाय, विषयविशेषापेक्षत्वाद्
व्याप्तिसिद्धेरित्यनैकान्तिकत्वम् । यदि च सामान्येनैव व्याप्तिसिद्ध्यध्यवसायस्तत्र
भवताम्, व्याप्यस्य सत्त्वस्य सिद्धत्वादेकानेकत्वयोरेवैकेनेव भवितव्यम्, न चानेकत्वं
क्षममित्येकमेवास्तु । अनेकत्वे ह्यापरमाणुदलनात्परमा99a णुप्रतिभासेन भवितव्यम् ।
न चैवम्, तस्माद्,

यद् यथा भासते ज्ञानम्

अनणुरूपतयानेकव्यावृत्त्येत्यर्थः ।
तत् तथैवानुभूयते ।

प्राप्त्यर्थत्त्वादनुगम्यते उपगम्यत इति यावत् ।

इति नामैकभावः स्याच्चित्राकारेऽपि चेतसि ॥
2571

नामेति अव्ययमुपगमे । एतच्च न जडस्य संवित्तेरेवाभावादिति ज्ञानमित्यनेन
दर्शितम् । यदा तु ज्ञानपरमाणोरपि दिग्भागभेदादनुपपत्तिरेव, न चानंशैः सांश
राशेरारम्भ इत्यनाभास एव स्यात् नानात्वपक्षे, अतोऽयमाभास एकत्व एव विश्राम्य
तीति । यद् यथा यतः प्रकारादभेदलक्षणात् भासते ज्ञानं तत्तथैवानुभूयते अभेदेनैवास्ति,
अनुभवः सत्तेति न्यायात् । इति नामेत्यादि सुगमम् । नाम संभावनायाम् । एतेन
तदभ्युपगमायातमसिद्धत्वम् ॥

ननु चित्रमेकमित्यनुभवविरुद्धमेतत्, नीलपीतादीनां भेदेनैव भासनात् । किं च,
चित्रं नानेकमित्यनर्थान्तरम्, तच्चैकपर्युदासेन स्थितमिति तत्कथं चित्रमेकम् ? अन्यथा
प्रकाशो जडः स्यादिति चेत्—न, नीलादित्वे हि संवेदनव्यापारो, न भेदे । भेदाभेदाव्यवस्था
तु निबन्धनानुसारमर्हति । नन्विदं नीलमिदं पीतमिति परस्परात्मतयैव प्रतीतिर्भेदप्रतीति
रिति चेत् ? बाह्यार्थवादे एवमेतत् । अभ्यासवासनावशात् तु बुद्धावप्यारोप्यते । बुद्धौ
त्वेतानि रूपाणि भिन्नान्यभिन्नानि वेति चिन्तामर्हति । बुद्धावपि तदनुसारेणैव व्यवस्थेति
चेत् ? न खलु सर्वा । तथा हि,

448
स्थिरेतरत्वे नियतं परेण
प्रकाश्यमर्थक्रियया बहिःसत् ।
आकारभेदान्नितरां विजाति
र्नाभ्यासवश्यं विपरीतमन्तः ॥

अन्तरिति चित्तं तद्विपरीतम् । कथं पुनः स्थिरेतरत्वे नियतं न बुद्धिरूपम्, तत्त्वतः
पूर्वापराप्रतीतेः ?

पूर्वापरत्ववित्तौ हि नित्यत्वं चलताथवा ।
एकानेकाधिमोक्षेण तदभावादसद् द्वयम् ॥

तत्र भेदे व्यतिवित्तेः स्थूलाभासस्य चाभावप्रसङ्गोऽनाभासप्रसङ्गश्च दुर्निवारः ।
अथैकत्वेऽपि नीलं पीतमेव स्यात् । तदुक्तम्,

अभेदेऽप्येकता चित्रत्वविरोधिनी स्यादिति ।
2572

न चैवं भासते । तथापि,
यद् यथा भासते ज्ञानं तत्तथैवोपगम्यते ।
इति नामैकभावः स्याच्चित्राकारस्य चेतसः ॥
प्र. वा. २. २२१

नामेत्यङ्गीकारे । अयमर्थः, सत्यमनेकवदेकभावो न स्यात्, प्रकाशमानस्य तु सत्तापह्नवो
मा भूदिति नानिष्टं किञ्चित् । अयमभिप्रायः,

सत्यं चेत् संविदः सिद्धमनेकत्वं च बाधितम् ।
एकत्वे च तवैवेच्छाक्षतिर्नोभयथापि नः ॥

सत्तासिद्धौ चानेकत्वेनापि नापराद्धमस्माकं किञ्चित् । केवलं न्यायानुसारिण
एकत्वमनुशिष्मः । 99b तथा हि,

समानयोगक्षेमत्त्वात् सत्तायां नैकताक्षतिः ।
तद्विरोधि त्वनेकत्वमतस्तस्यां तदत्ययः ॥
449

यत् तूच्यते, एकत्वे नीलं पीतमेव स्यादिति । स बाह्य एव दोषः, तदर्थ
क्रियार्थिनां तत्रापि प्रवृत्तेः क्रियायाश्च प्रसङ्गात् । क्रियार्थिताव्यतिरेकेऽपि यन्नीलं तत्
किं पीतं भवितुमर्हतीति चेत् ? तत् किं स्वरूपसत्तया वियुज्यताम् ? वरमेवमिति
चेत् ? यदि परोक्षता स्यात् स्यादप्येवम् । तस्माद् बाह्यत्वे नानात्वमेव नीलपीतयोर्मा
भूत् प्रवृत्तिसंकरादिरिति । ज्ञानत्वे त्वेकत्वमेव । बहिर्व्यवहाराभ्यासात् तु महतः
संमुखमध्यन्दिनादित्य इव दुःसहपक्ष एव इति किमत्र कुर्मः ? तदिह प्रत्यक्षविरोधा
दयोऽपि प्लवन्त एव । पीतादन्यत् नीलमिति विकल्पस्य स्वबेदनव्यापारमनादृत्य
वृत्तेः, इन्द्रियज्ञानव्यापारानुसारस्येकस्य स्वरसवाहित्वात् । अतएव च चित्रमेकमिति
न विरोधः । नीलपीतादितया हि चित्रं, न तु नानात्वेन । केवलं नानात्वेन व्याप्त्य
भिमानात् तथोच्यते । व्याप्तिश्च बाह्य एव । अथवानुवादमात्रं चित्रमिति, यन्नानेति
भवतां संमतम्, तद् बुद्धिरूपं सदेकमेवेति नाश्वारूढवद्दोषः ।

ननु विरुद्धधर्माध्यासो भेद उच्यते, स च बाह्यस्य बुद्धेर्वेति नात्र नियम इति
चेत् ? नियम एव । बाह्याभेदे हि नार्थक्रियाप्रतिनियम एव, तदनादरे च प्रतिभास
मात्रात् न विशेष इति तदभाव एव स्यात् । बुद्धेस्तु भेदे एव स्वरूपहानिः, अर्थक्रिया
नपेक्षायास्तस्याः प्रकाशादेव सत्त्वात् । भेदे च प्रकाशाभावप्रसक्तिस्तदवस्थायाः । यद्यपि
च भेदेन निर्बन्धे द्वयोरपि स्वभावहानिः, तथापि तावद्दूरमनीत्वा यथाणुसंघात
संख्यातं बाह्यं भेदेऽपि सत्त्वं सहते, अण्वाकारोल्लेखाभावेऽपि चैकघनस्थूलाकारेण
ज्ञानेन संवादलेशाद् ग्रहणस्थितिं च, न तथा ज्ञानमित्युच्यते । न वा बाह्यस्य हानिरपि
पीडयति, अभिमानमात्रव्यवस्थापितत्वात् । अभिमानादेव वा निर्वहेद् बहिः ।
अध्यक्षसिद्धायास्तु बुद्धेः कुत एव तद् द्वयमपि बहीरूपपरामर्शप्राप्तेश्च भेदे नियतः
स्वभावभ्रंशः । यदाह,

तं हि पतत्यर्थे विवेचयन्निति ।
2573
यथार्थशक्तिविरहे भासः केशादिसन्निभः ।
तथान्योऽस्मादयमिति बाह्य एव विवेचनम् ॥

नैष स्वसंवेदनानुसारः, किं तु बाह्याभ्यासवासनाविलास एव । तस्माद्
यथा अपराधीनवेदनत्वादिभिर्धर्मैर्बहिरसाधारणं धियः स्वरूपम्, तथा विरुद्धधर्मा

450
ध्यासकृतभेदव्यवस्थापरिभवेनापि न्यायसामर्थ्यादिति युक्तम् । यदि तर्हि बहिरेव
विरुद्धधर्मेतरकृतो भेदाऽभेदो वानुभवाकारे का गतिः ? इष्टश्च तत्राप्येको 100a
भगवानिति व्यवस्था, नियमनिबन्धनाभावे हि सन्तानान्तरेणाप्यभेदप्रसङ्गः इत्याह,

नीलादिश्चित्रविज्ञाने
प्र. वा. २. २२०

इत्यादि ।

बुद्धेरेकभावो नाम स्यादशक्यविवेचनात्मा नानेकत्वम् । यद् वा बुद्धेर्नाम
स्यान्न जडस्य । प्रतियोग्यक्षमायां नामशब्दोऽवधारणपरः । यच्च यथा भासते चित्र
मप्येकसंविदन्तर्गतम्, तत्तथैवानुभूयते इत्येकत्वमेकसन्तानप्रज्ञप्तिगोचरस्य नाम
चेतसः स्यात्, नत्वेतादृशमशक्यविवेचनत्वं पराभिमतस्येति न दोषः । तदेवं स्वतन्त्रे
च व्यापकानुपलब्धेरसिद्धिः, बुद्ध्याकाराणामेकताया एवोपपत्तेरिति । अपि च,
किमिदमेकत्वमनेकत्वं वा क्व वा, वस्तुत्वव्याप्तिरनयोः ?

अत्रोत्तरम्, निरंशमेकमनेकं च समुच्चितं तदेव । लोके चैकानेकतयैव वस्तु
स्थितिरास्थीयते । अथ परार्थानुमाने स्वदृष्टमुपयोगीति उच्यते, विचाराश्रये संवृतौ
स्वयमेव तथोपलब्धमिति न दोषः ? अत्रोच्यते, संवृतावपि तदेव दृष्टमभिधीयते
यत्सिद्धमध्यक्षानुमानाभ्यां, न चाभ्यां क्वचिदुपलम्भगोचरो निरंशः । ततस्तत्समुच्चय
रूपमनेकमपि नोपलब्धम्, तत्कथमाभ्यां वस्तुव्याप्तिसिद्धिः ? नापि किञ्चिदस्ति
वस्तु, परोपगमस्तु न स्वतन्त्रहेतावधिक्रियते । प्रसङ्गसाधनत्वे च विपर्ययपर्यवसानात्
साध्यविरोधः । यस्य चैकानेकत्वाभ्यां वस्तुव्याप्तिरभिमता तस्यायमस्तु दण्डः । यस्य
तु प्रकाशमात्रेण वस्तुता तस्य कस्तदनुरोधः ?

तस्मात् स्वयमुपपादयितव्या व्याप्तिः । यदि च क्वचित् संबन्धबोध एकानेक
त्वाभ्यां वस्तुनः, तदेव न शून्यमिति व्याप्तिशून्यता साधनोद्धूतिः । ननु वस्तुस्थितिः
एकानेकव्यवहारः प्रमाणसिद्ध्यवसायश्च लोके तावदस्ति । विचारे तु नास्तीत्येतदेव
साध्यमस्माकं कथं बाधकं भवितुमर्हतीति चेत्—न, स्वभावाभावो हि भवतां साध्यः,
नैकानेकत्वाभाव एव साधनत्वेनोपन्यासात् । न चेदमसिद्धतोद्भावनम् । किं तु
व्याप्त्यसिद्धिरभिधीयते । विपर्ययव्याप्तिश्च व्यापकानुपलम्भादौ शरणम्, सा च
क्वचिद् व्याप्यव्यापकयोरसिद्धेरसिद्धैव, सांवृतेनापि प्रमाणेनाविषयीकरणात् । न च
451
व्यवहारमात्रं प्रमाणम्, न च लक्षणान्तरम् । अप्रमाणेऽपि प्रमाणस्य न व्यवस्था
नियमः ।

संवृतौ मानमिष्टं चेद् विचारोऽप्येष संवृतिः ।
संवृतावपि नेष्टं चेद् ब्रुवन् जेता यथा तथा ॥

इत्यन्तरश्लोकः ।

ततो यदि प्रमाणनिरस्तेनैव रूपेण व्याप्तिमवकल्प्य सर्वत्र तदभावादभावो
भावानामभिमतः, अबन्ध्यस्तर्हि बन्ध्यासुतवियोगोऽपि तत्साधने स्यादिति साध्वी
साध्यप्रत्याशा । तस्मात् क्वचिद् व्याप्य100b व्यापकयोरुपलम्भे व्याप्तिग्रहण
निबन्धनेऽध्यक्षरूपे विपर्ययबाधकसमाख्यातानुमानरूपे वा प्रवृत्ते क्वचित् तदभावात्
अन्याभावनिश्चय इति युक्तम् । क्षणिकत्वेनापि सत्त्वस्य व्याप्तिसाधनं क्षणिकसत्ता
निश्चयनान्तरीयकमेवेति सैवोपलब्धिरस्य । प्रकृते तु तद्वत् तयोः सामान्येनापि
सत्ताक्षेपे तन्नान्तरीयको हेतुरिष्टविघातकृद् विरुद्धः । अनाक्षेपेऽपि न व्याप्तिरिति
अनेकान्तः ।

ततः कुतश्चित्राकारबोधनिषेधः ? बाह्यस्यापि कुतस्तर्हीति चेत् ? तत्त्वतोऽ
प्रकाशादेव । न ह्यनुपलब्धेरन्योऽभाव इति सुप्रसिद्धम् । न वा निरंशतैकलक्षणमिति
कः शक्तिप्रतिबन्धो बहिरर्थे व्यापकानुपलम्भस्य ? किं पुनस्तदेकतालक्षणम्, यतो
नोक्तोपालम्भसंभवः ? विवेच्याशक्यदर्शनत्वं, तत्तु न बाह्यस्य । तदभावात् तत्संहति
रूपमनेकमपि नास्ति । अथ शक्यविवेचनमनेकं भविष्यतीति चेत् ? यद्यशक्य
विवेचनं किञ्चिदन्तिमं स्यात्, तदा तदपेक्षया शक्यविवेचनता परस्परं स्यात्, न
चैवम्, परमाणोरप्यनवस्थानात् । बुद्धौ तु स्वसन्तानभाविन्यां चित्रायामशक्य
विवेचनत्वमस्ति, न तु सन्तानान्तरेण सहेति दर्शयति । एतेन बुद्धौ व्याप्यव्यापक
भावसिद्धिरन्यत्र व्यापकानुपलम्भव्यापार इति व्यक्तमुक्तम् ।

अत एवाचार्यवसुबन्धुपादैरपि बाह्याधिकारेणैव व्यापकानुपलम्भ उद्भावितो,
न ज्ञानाधिकारेण । समानन्यायतया तत्राप्यवकाशमानो दुर्वार इति चेत्— न,
विज्ञानमात्रमेवेदमित्यादिना समानन्यायतया निषिद्धत्वात् । अतएव ग्राह्यग्राहक
द्वयासत्तया त्रैधातुकचित्तचैत्तलक्षणाभूतपरिकल्पसत्तया च समारोपापवादप्रतिषेध
निर्वृतिः कृता, नेतरसत्त्वासत्त्वमुक्तम् । तद्वदूहितुं शक्यत्वादनुक्तिरिति चेत् ? ग्राह्यस्य
452
तर्हि साक्षादेव बाधकमुक्तमिति तदभाव एव नाभिधेयः । तस्मात् तस्यैव बाधकमुक्तम्
इतीष्टं चेत्यलं विस्तरेण । तथा विवेच्याशक्यदर्शनेतरत्वमेवैकानेकत्वमन्योन्य
परिहारस्थितलक्षणतया व्यापकं स्वभावे दृष्टत्वात्, न निरंशराशित्वं, अंशचिन्ता तु
परानुरोधेन । अथवा तद्द्वारेणाशक्यविवेचनत्वाभाव एव व्यज्यत इति वेदितव्यम्,
सन्तानान्तरवदिति । ननु स्वविदेकतत्त्ववादिनोऽनेकव्यवस्थाश्रयः,

सन्तानान्तरभावोऽयं न सिद्धश्चेत् फलाङ्गवत् ।
सन्तानान्तरसिद्धिः किं संवृत्त्या तु यथा तथा ॥

वा अस्तु किमत्र निर्बन्धेन ? एवमपि हि बुद्धेरनेकत्वमेव मा भूत्, एकत्वेनाप्येकेन
व्यापकानुपलब्धेरसिद्धिसिद्धेः । कल्पितानेकविवेकेन चैकशब्दो भविष्यति यावद्
व्यवहारः । तस्मान्न बहिरिव बुद्धेर्विरुद्धधर्माध्यासकृतो भेदः ।

अस्तु चैवं, 101a किं पुनस्तत्र प्रमाणम् ? एकत्वेऽपि किं प्रमाणम् ?
प्रत्यक्षमेव । विकल्पेनाननुगमान्नेति चेत् ? विकल्पस्यैवायमपराधः । अध्यक्षस्यैव
किं नेति चेत्—न, अन्योन्यसंविदन्तर्गतप्रतिभासादेव । किं च मया दृष्टा नीलपीतादय
इत्येककर्तुरुल्लेखः । ममायं चित्रः प्रतिभास इत्येकसंबन्धिनश्च । एकप्रत्यक्षविकल्प
एवायमभेदेन पटवत्यनुभवाकारवान् । एवमेकतैव बुद्धिरेकस्तस्य विकल्पस्त्रिभुवन
विकल्पो वा ? एकस्यां बुद्धौ चित्रः प्रतिभास इत्यपि शिलापुत्रशरीरवत्, शरीरे
पाणिपादादिवद् वा । एकावसाय एवायं, बहिरभिमानात् तु समुच्चयमात्रमुच्यते ।
तदभावे त्वेकत्वमेवेदमुल्लिख्यते । एवं वृक्षक्ष्माधरादावपि धीमात्रत्वे तूभयत्र एक
व्यवहारः ।

तस्मान्न प्रत्याक्षापराधः । नापि विकल्पस्य भाव एवेति सिद्धमध्यक्षमभेदग्राहि ।
भेदेऽपि तर्हि प्रत्यक्षमेव शरणम् । न चैका पर्वतबुद्धिरित्यादौ विपरीतोदयाद्विकल्पेन
अननुगमो, भूयोदृष्टत्वात् । तत् किमिदानीमुभयमस्तु ? अतो व्यापकानुपलब्धेर्विप्लवः ।
सोऽयमुभयनिषेधेन शून्यतासाधनारम्भे उभयसाधनेन स्याद्वादमुद्दीपयितुं प्रवृत्तः इति
प्रहारपातः । अथैकैकसाधनमन्यान्यबाधनपरं, न तु स्थितिरेव तस्य विवक्षिता,
पर्यायेण तस्यापि बाधनात् । यद्येवं यदैक्यं सिद्धमध्यक्षेण तदा द्वितीयबाधैव जाता,
कथं तदाश्रयः परस्य बाधः ? न हि पूर्वबाधितस्य कुतश्चित् प्रत्युज्जीवनम् । तथाभावे
अनेनापि बाध्यमानस्य पुनः प्रत्युज्जीवनाशंसायां कीदृशी मनोरथसिद्धिः ? पुनरितरेण
453
बाधनजीवनपरम्पराया अनुपरमादेकैकसनाथतया धर्मिणो न कदाचिद् व्यापकानुप
लम्भसंभवः ।

तदयमर्थः, यदुच्यते न तावदेकं बुद्धिरूपं, नीलपीतादीनामव्यतिकरप्रतिभासनात् ।
नाप्यनेकं, परम्परासंवेदनप्रसङ्गादिति । तत्र यदेकत्वनिषेधाय प्रतिभासभेदो दूषणीयते,
तदा यद्यसौ स्वसंवेदनसिद्धः, तस्य केन पुनरपोहः ? तस्यादृढत्वे एकत्वस्यापि कुतो
बाधा ? एवं नाप्यनेकमित्यत्रापि वाच्यम् । यदि पुनः प्रतियोगिसंभवानपेक्षः परपरिभवः
साधनान्तरकृतः स्यात्, तदा न दोषः । स्वयमेव तु प्रमाणसिद्धसंमतस्य पुनः
प्रतिवहनमित्यसंबद्धम् । न च प्रमाणान्तरमेकानेकत्वविपर्यासनमस्ति । तत्संभवाभिमानेऽपि
नैकस्यापि स्वसंवेदनसिद्धस्योद्धूतिः । अवस्तुत्वान्नैकमपीति परस्परापेक्षम् । विरुद्धयोरेकत्रा
संभव इति न द्वयोर्निषेधः । तदत्र यस्यैव न संवेदनमित्युपपादयितुं शक्यं तदेवासदस्तु ।
द्वयोरपि न संवेदनमिति तु सर्वथा संवेदनाभावे स्यात् । तच्चासिद्धमिति । 101b
अथापि स्यात् स्वसंवेदनवादिनोऽनिष्टापादनमात्रमेतत्, ततस्तस्यैवायं दोषो नास्माकं
तदनिष्टे चेति चेत् ?

अनिष्टिर्नाम महतां परिहारो महानयम् ।
सर्वानर्थानुषङ्गेषु यद्येवं स्यात् कृतार्थता ॥

व्यापकाभ्युपगमवादिनो हि प्रसह्यायातः स्वसंवेदनाभ्युपगम इत्युक्तम् । ततो
यद्यभेदवदध्यक्षसिद्धिर्भेदेऽपि न शक्यः स्याद्वादपरिहारः । प्रमाणानुपगमे च सर्वस्य
यथेष्टसिद्धावपि कस्तत्परिहारः ? एवं तर्हि,

भेदाभेदद्वयीसिद्धौ स्याद्वादः समुपागतः ।
वेदान्तवादस्त्वेकत्वे दुस्त्यजस्तत्त्वविप्लवः ॥

अत्रोच्यते,

मच्चित्तचक्रं यदपीदमेक
मात्मा नभस्वन्न विभुस्तथापि ।
तथागतस्य प्रथते तथा चेन्
मनःसमाध्यातिशयो न तत्त्वम् ॥

न खलु ज्ञानस्य तादृग्व्यापकत्वं नाम तत्त्वमेव, अन्यदा अन्यस्य चाभावात् ।
भगवतस्तु सिद्धिविशेषोऽसौ । पूर्वापररूपसंस्पर्शस्तु संवेदनेनास्तीति कुतो नित्यता ?
454
एतेन ह्रस्वतान्तपरिहारः । न च स्वसंवेदनमेव कदाचिदात्मानं विरमन्तमनुभवतीति
उच्छेदान्तस्य प्रबन्धद्वारेण तु शाश्वतोच्छेदपरिहारोऽवान्तरव्यवस्थापेक्ष इष्ट एव ।
अतीतादिनाप्यभेदो भाष्यकारस्येति स्थवीयसी भ्रान्तिर्लोकस्य, प्रकाशमानस्यैवातीतादि
भावनानिषेधात् । तस्मान्न तावन्मात्रमेकत्वं गगनवद् वैभवदोषाकर्षि । नापि नित्यता
प्रतीतिरिति कथं वेदान्तसिद्धान्तशङ्का ?

अथ तावद्देशव्यापीदमिदं चान्यथेत्यपि प्रत्ययः कथम् ? यद्येवं कालवद्
देशस्यापि न दैर्ध्यप्रतीतिरिति नतरां नित्यविभुत्वे । उभयसिद्धिवादस्त्वह्रीकस्यैव ।
ननु दिगम्बरस्य बाह्यमप्यस्ति । तत्रापि कथञ्चिद् भेदाभेदौ, भावानां च नैकान्तेन
बाह्यत्वमान्तरत्वं वेत्याद्यवकरपरिहारेऽपि प्रत्यक्षसिद्धबुद्धिरूपैकानेकत्वमात्रेण कः
तन्मतोपनिपातः ? न खलु सर्वथा साम्यपरिहारः शक्यः, परस्परविरोधस्तु ध्वस्तो
बुद्ध्यधिकारेण प्रतिभासादेव । तस्मात्,

यद् यथा भासते ज्ञानं तत्तथैवानुभूयते ।
भासते द्व्यात्मकत्वेन तथैवास्य सदा स्थितिः ॥

ज्ञानग्रहणेनैतदाह । न बहिर्द्व्यात्मकैकत्वेन क्वचित् प्रतिभासो भ्रमस्यापि
संभवात्, प्रमाणान्तरावतारदर्शनाच्चन्द्रद्वयादिवत् । तत् कथमेकत्वं चित्राकारस्य ?
उच्यते,

नाह्रीकवादमुक्तिर्वः प्रकृतार्थविमर्शने ।
अस्माभिर्यदनुष्ठेयं भवद्भिस्तदनुष्ठितम् ॥
एकानेकत्वयोरेकस्यापि सिद्धौ यदेप्सितम् ।
का कथा द्वयसंसिद्धावेकं स्यादपि दुर्बलम् ॥

चित्रैकताचोद्येऽप्युत्तरम्,

एकानेकत्वयोः सिद्धावेकत्वं सिद्धमेव तत् ।
इति नामैकभावः स्याच्चित्राकारेऽपि चेतसि ॥

चित्राकारे एकानेकाकारे 102a रूपे इत्ययमप्यर्थः । चेतसि नाम स्यान्नजाते
जडे एकभावोऽपि, न त्वेकभाव एव । न हि नीलं चतुरस्रं न नीलमिति युक्तम् ।
अथवा,

455
नैकं चित्रं विरोधेन विरोधश्च न दर्शनात् ।
इति नामैकभावः स्याच्चित्राकारस्य चेतसः ॥

अनेकव्यवहारोऽपि तर्हि स्यात् । यदि प्रयोजनमस्ति को निवारयति ? यथा
ह्येको भगवानुच्यते, तथा चत्वारि वैशारद्यानि, द्वात्रिंल्लक्षणानीत्यादि दृश्यते एवेति
का क्षतिरस्माकम् ? भवतस्तु स्ववधाय कृत्योत्थापनमेतत् । नन्वेवं परहेतुदूषणमस्तु,
स्वाभिमतचित्राद्वैतसिद्धिस्तु कथम्, प्रत्यक्षप्रतिक्षिप्तत्वादेकतायाः, नीलपीतयोः प्रति
भासङ्करात् ? यदप्यशक्यविवेचनत्वमुक्तं तदपि समानसामग्रीजन्यत्वेनाव्यभिचार
निमित्तं भेदहेतुः, बुद्धिरूपत्वात्तु समुदाय एकदेशो वा न गोचरः परस्येति किमेकत्व
मस्तु ?

औपचारिकमेकत्वं विवेकाशक्तितो यदि ।
व्यापकानुपलम्भस्यासिद्धिः सत्यं कथं भवेत् ॥

यच्चेदमुच्यते, एकत्वनान्तरीयकः प्रतिभास इति, तदप्ययुक्तम्,

देशव्याप्त्या हि निर्भासो न चैकस्य भवेदयम् ।
तद्भेदनान्तरीयत्वमप्याभासस्य किं न वः ॥
अभेदनान्तरीयत्वं यथाभासस्य दृश्यते ।
नीलपीतादितन्त्रत्वमेवं भेदः स एव च ॥

तस्मात्,

व्याडिब्रीडाकरं क्षारदध्नोरेकत्वशासनम् ।
तदेव किं न भवतो गुडगोरसकारिणः ॥

अत्रोच्यते,

इयता यदि भेदोऽपि कथ्यतेऽस्तीति का क्षतिः ।
अयोगस्य व्यवच्छेदेनैतदुक्तमनन्तरम् ॥
तथैव चित्राद्वैतं च मुख्यमित्यपि दर्शितम् ।
अन्यथा ह्येकमेव स्याच्चित्रत्वं नोपपत्तिमत् ॥
456
परस्परविरोधेन रूपसंकरभीरवे ।
अवश्यं कथ्यमेकत्वं निर्भासात्त्यज्यतां भिदा ॥
निर्भासे सति भिन्नत्वमभेदो वा तदाकृतेः ।
नानेकत्वे च निर्भासस्तस्मादेकत्वमेव सत् ॥
देशव्याप्तिरनेकस्य जडस्यैवोपपद्यते ।
स्वसंवेद्यस्य तु कथमेकैकप्रतिभासने ॥
नीलपीतादितन्त्रत्वं तथास्तु न तदेव भित् ।
एकस्य स्वीकृतस्यैव तथोत्पत्तेः स्वहेतुतः ॥
एकतास्वीकृतं यद्वन्न भेदस्वीकृतं तथा ।
द्वितीयस्याप्रतीभासादभिदैव वशीकृतम् ॥
मिथो विरोधपक्षे च न द्वितीयावलम्बनम् ।
विरोधानभ्युपायेऽपि चित्राद्वैतं प्रसाधितम् ॥
तन्नाशक्यविवेकत्वं धियामद्वैतसाधनम् ।
एकसंवित्तिसिद्धेऽस्मिंस्तदेवैकत्वमुच्यते ॥

तत्रेति नामैकभावः स्यादिति कोऽर्थः ? एतदशक्यविवेचनत्वमेकत्वमित्यर्थः ।

तदेवमेकभावो ह्यस्यान्यथैवान्यथा धियः ।
इदं वस्तुबलायतमरुचिः क्वोपयोगिनी ॥
बाह्ये सति धियो ग्राह्यमिव भिन्नं शितेः 102b सितम् ।
तदैक्यवादी निग्राह्यो बाह्यैषी बाह्यविप्लवात् ॥

एतेनाभेदेन प्रत्यक्षप्रतिक्षेपः प्रयुक्तः ॥

किं च,

अध्यक्षमेव हि भिनत्ति शितेः सितं चेत्
तद्भिद्यमानमथवाभिदमेव भिन्द्यात् ।
भेदेऽन्यलेशमपि नेति कुतो भिनत्तु
भिन्द्यादभेदि मन इत्यपि कस्य शक्यम् ॥
457

बहिरपि हि भिद्यमानैव बुद्धिरर्थान् भिनत्ति । न चात्र बुद्धिस्वरूपे प्र
माणान्तराणामवकाशः स्वसंवेदनादन्यत्र । तच्चैकं भिनत्ति चेति व्याहतम् । बहिस्तु
निराकारपक्षेऽभिद्यमानापि बुद्धिरर्थक्रियादिभेदेन दृढीकृताद् भिन्नस्वरूपग्रहणाभि
मानात् अर्थान् भिन्द्यात् । संवेदनं तु स्वधर्म एव स्वभावात्मा नीलपीतयोर्न भिद्यते ।
भिनत्ति चैताविति महत् साहसम् । प्रत्यात्मं भिद्यमानं तु भिन्द्यात् । केवलमन्यान्य
वार्ताविरहात् चित्रप्रतिभास एवासंभवी तदेति कुतो भेदस्थितिः ? अथवा कुतः स
काशाद् भिनत्त्ववधेरप्रतीयमानत्वात् ? न च किमत्रावधिप्रतीत्या कर्तव्यम् यत एव
तस्य न प्रतीतिस्तत एव तस्य ततो भेदस्थितिः । न चान्योपलम्भेऽपि पररूपेण भावो
भिद्यते, किं तु तादात्म्येन प्रतीतिरेवान्यतो भेदप्रतीतिः सा चाप्रतीतेऽपि परस्मिन्न
विकलेति न भेदप्रतीतिक्षतिः ।

अत्रोत्तरम्, यदि तावदप्रतीयमानस्यापि सत्त्वपक्षापेक्षयेदमभिधीयते तदा
बाह्यवाद एव युक्तमेतत्; न विज्ञप्तिमात्रतानये । तथा हि,

सत्ता च नामात्यक्षाणां स्वविन्मात्रे च संस्थितिः ।
यत्परैरुच्यते रुच्यमत्र विस्मीयते मया ॥

तस्मात् नाप्रकाशादसत्त्वादेव तदपेक्षाभेदसंस्थितिः । न चासदपेक्षैव भवितु
मर्हति, न हि शशविषाणापेक्षया कस्यचिदभेदस्थितिः, ऐक्यनिषेधमात्रं तु स्यात्,
तच्चेष्यत एव । यदि न ततो व्यावृत्तं तदेव किं भवतु घट इति चेत् ? अत एवैक्य
निषेधमात्रं ब्रूमः । नन्वसतो व्यावृत्तं सदभिधीयते, यच्चासतो व्यावृत्तं तद् बन्ध्या
सुतादपि, न हि वृक्षाद् व्यावृत्तं न प्लक्षादिति युक्तम् । तत् कथं खरशृङ्गान्न व्यावृत्तो
घटः ? यद्येवं खपुष्पस्यापि कुम्भादिभ्यो भेदः सुतरां दुर्निवारः । न हि यद् यतो न
व्यावर्तते ततस्तद् व्यावृत्तिमत् । ततश्च विन्ध्याद् बन्ध्यासुतस्य न भेदो नाभेद इति
न वक्तव्यम् । उभयनिषेधस्याभावनियतत्वेन सामान्यपुद्गलाद्यभावसाधनायानुप
न्यासः । ततो व्यावर्तत इति हि प्रथमार्थः पञ्चम्यर्थो वा साधारण एव, वस्तुधर्मतया
कल्पितधर्मतया वा । तदिदमत्रार्थसतत्त्वम् । अस्मादिदं भिद्यत इति यदि वक्तुरेक
स्वभावतानिषेधमात्रमभिमतम्, तदा घटतुरङ्गशृङ्गयोः परस्परतो व्यावृत्तिरस्तु, का
क्षतिः ?

अथात्मात्मीयवस्तुरूपस्थितिरभिमता, 103a तदा घटपटादीनामेव, न
नरखरशृङ्गयोर्न वा नरस्य खरशृङ्गस्य च, एकस्यैव वस्तुत्वात् । तथा च सति पुद्गलः
458
स्कन्धान्न भिन्न इति नात्मात्मीयरूपेणानयोः स्थितिरित्येव विवक्षितम् । नाप्येक इति
बन्ध्यासूनुसमानतामनुभवतीति न दोषः । भावाभावयोस्त्वभावस्य कल्पितं रूप
माश्रित्य परस्परपरिहारेण व्यवस्थितलक्षणत्वमुच्यते, न वस्तुरूपत्वमुभयोः । अत
एवात्मात्मीयवस्तुरूपस्थितिरित्युक्तम् । तस्माद् यावदप्रतिभासमानमपि न वस्तुतामति
क्रामति तावत् परस्परासंकीर्णत्वेऽनुपलभ्यमानादपि भेदग्रहणमिति स्यादिति मति
सत्तासाधने । अन्यथा तु तदापि संशय एव । प्रकाशैकस्वभावे तु सत्त्वेन प्रतीयमानं नैकं
न नाना । प्रतिभासी तु भावोऽभावो न भवतीति भेदार्थोऽभिमत एव । तच्चोद्भावना
संवृत्त्याभिधोयते, न तु तत्राभावांशस्य निषेधस्योल्लेखः, उल्लेखे तादात्म्यापरिहारात्
कुतोऽभावता ? अतएव भावाभावतयापि न द्वैतप्राप्तिः । तस्मादन्याभिमतस्य लेश
स्यापि न प्रतीतिरित्यभावादेव कुतो भिनत्त्विति युक्तमुक्तम् । अतएव पूर्वापरयोः
सहानुपलम्भेऽपि भेदः प्रसिध्यत्येवेति व्यक्तमात्मप्रतारणमात्रमेतत् । पूर्वापरत्वस्या
प्रकाशात् प्रकाशस्य च पूर्वापरत्वायोगात् । तस्मादसत्त्वादेव नातीतादिवेदनं नाम,
प्रकाशस्यैव सत्त्वात् । तथा च,

भ्रमात्र संकल्पनकल्पनानि
शातासितादिन्यखिलाक्षजानि ।
ज्ञानान्यभिन्नानि सहोपलब्धेः
पूर्वापरत्वं तु न वेद्यमेव ॥

इति संग्रहः ॥

अथवा कुतो भिनत्त्विति भेदावधेरप्रतिभासादेव, किमत्र भावाभावचिन्तया
इत्यर्थः । तथा हि,

अस्माद् भिन्नमितीदं चेत् स्वरूपं ग्राह्यवस्तुनः ।
2574सावधेरस्य भासः स्यान्न वा ग्राह्यं तदात्मना ॥

ननु संबन्ध्यन्तराप्रतिभासेऽपि संबन्धिनः पित्रादेः प्रतीतिरस्तीति चेत् ?
तत्रापि काल्पनिकमेव संबन्धित्वं विद्मः, वस्तुरूपत्वे सर्वस्य संबन्धिनो बोधाक्षेपात् ।
अवधिरपि हि संबन्धिविशेष एव । अतएव हेतुफलयोरेकप्रतीतिरन्यप्रतीतिविनाकृता
भवन्ती शुद्धस्वभावविषया परस्परापेक्षालक्षणसंबन्धविप्लवसंकल्पशिल्पिनिर्मितमेवोप

459
पादयति । तस्मादवधेरबोधेऽवधिमतो मतिरिति विमतिरेवेति कुतश्चिद् भेदग्राहि
प्रत्यक्षमप्रतिभासिनः । ननु नीलमनीलाद् भिन्नमवश्यमेषितव्यम्, तद्ग्राहिणा च
प्रत्यक्षेण तथा न गृह्यत इति न गृहीतमेव नीलम् । वयमप्येवं ब्रूमः । अनीलाग्रहणे
ततो भिद्यमानं न गृह्यत इति नीलमेव कथं गृहीतम् ? यत एव तस्याग्रहणं तत एव
ततो भेदग्रहः, अन्यथा ह्यपलम्भानुपलम्भावेव न सिध्येयाता 103b मिति चेत् ? यथा
तर्हि तस्य नोपलम्भः तथा तदवधेर्भेदस्यापि कथमुपलम्भः ? ततश्च तद्ग्रहो नाम
यथैकतामस्य विरुणद्धि, तथा तदवधिकभेदग्रहमपि । अथास्यैतद्रूपप्रतीतिरेव भेद
प्रतीतिरित्युच्यते ? भेदप्रतीतिनिषेधेऽपि समानमेतत् ।

विनावधिं प्रतीतो हि भेदो भेदः कथं नु सः ।
शब्द एव तथा माभूदिति चेद् भासतां तथा ॥

उभयावभासने हि तदपेक्षः स्वभाव एवास्य न स्फुरतीत्युच्यते, न विकल्प
मात्रप्रतिक्षेपः । तस्माद् यथान्यसंकीर्णरूपभासनमेव भेदप्रतिभास उच्यते, तथावधि
निरपेक्षमीक्षणमेवास्य भेदप्रतिभासभ्रंश इत्युच्यते, स्वरूपमात्रप्रतिभासात् । यद्येवम्,

न भेद्यभासादवधेर्ज्ञातं नाभेद्यसंकरात् ।
नान्यच्च भेदाभेदाभ्यां वस्तु वस्तुग्रहः कथम् ॥

यदि समीचीनमालोच्यत एवमेतत्,

अर्थस्याव्यतिभेदे हि ज्ञानादपि भिदा कुतः ।
भेदे चावधिबोधेऽपि सर्वः सर्वस्य गोचरः ॥

केवलं बहिरभिनिवेशपारवश्ये चिन्तेयम्, तत्र च समानमेव दूषणमिदम् ।
यथा हि भेदग्रहानङ्गीकारे एकस्य, तथा भेदग्रहनिबन्धनस्यावधिग्रहस्याभावे द्वितीयस्य ।
तत्र यदि चक्षुषी निमील्य बाह्यग्रहवदवधेरबोधेऽपि भेदग्रहव्यवस्थैकस्य, तदा चक्षुषी
निमील्यैव भेदग्रहाभावेऽपि वस्तुग्रहव्यवस्था किं नापरस्य, यथा परमाणुरूपानु
ल्लेखेऽपि ? न हि परमाणुभ्योऽन्यदस्ति वस्तु, ततस्तत्रापि निमीलिताक्षस्यैव तदनु
ल्लेखेऽपि वस्तुग्रहव्यवस्था । एवं भेदाप्रतीतावपि न दोषः ।

कथं तर्हि भेदग्रहः ? न कथञ्चित् । भेदग्रहव्यवस्थामात्रं तु पश्चिमनिश्चया
पेक्षया स्यात् । स हि नीलमनीलराशिं च स्वानुरूपप्रतिभासविषयीकृतमन्योऽन्य

460
प्रत्यनीकतया विभजन् स्वव्यापारमपि नीलमिदं दृष्टं नानीलमिति प्रत्यक्ष एव क्षिपतीति
तदपेक्षयाध्यक्षमेव परस्य व्यावृत्तिं गृह्णातीति व्यवस्थाप्यते, सोऽपि वा स्मृतिरिति,
यथा धारावाहिज्ञानान्तरस्य गृहीतग्रहणमगृहीतेऽप्येकत्वनिश्चयापेक्षया । एतेन तत्
परिच्छिनत्तीत्यादेरविरोधो व्याख्यातः । तदनेनावान्तरव्यवस्थामात्रेण न प्रत्यक्षस्या
भेदग्रहनिसर्गविसर्गयोगः । तत् किमिदानीमुपलब्धानुपलब्धयोरैक्यमस्तु ? न, भेद
ग्रहनिषेधमात्रस्य विवक्षितत्वात् । विकल्पस्तु सह क्रमेण वा प्रतियोगिनः प्रतिपत्तौ
संकल्पे वा भेदमभेदं वा व्यवहारयेत्, प्रत्यक्षापेक्षया त्वप्रतिभासमानं नैकं न नाना ।
प्रतिभासमाने का गतिरिति चेत् ? तत्रापि यदि ग्राहकयोर्भेदः, तदान्यविषयानुल्लेखात्
पूर्ववद्विकल्प एव भेदग्राही । अभेदे सिद्धश्चित्राद्वैतवादः, बुद्धिरूप 104a मेवाभेद
ग्राहकमेव प्रत्यक्षमित्यपि । संग्रहः,

बाह्यस्य सत्त्वेऽसत्त्वे वा नाध्यक्षं भेदवेदनम् ।
अभेदवेदनं बुद्धौ भासमानात्मनैव तु ॥

तस्माद् व्यवहारपरायणमेव भेदः ॥

ननु पुरः स्पष्टाकारं नीलपीतादिविरुद्धधर्माध्यासि भासमानं कथमपह्नोतुं
शक्यते ? नेदमपह्नयते, अतएव चित्रमुच्यते । तस्य चित्रशब्दाभिधेयस्य नीलपीतादेः
प्रतिस्वं भेदं तत्त्वतो न क्षमते, स्वसंवित्तिरित्युच्यते । तत्र च विरुद्धधर्माध्यास इति
विरुद्धौ वा धर्मौ विरुद्धयोर्वा ? प्रथमपक्षे अप्याश्रयद्वारेण वा, स्वरूपेण वा ?
आश्रयपक्षे, संवेदनादेवाधिकरणतासिद्धेरसिद्धिर्विरुद्धधर्माध्यासस्य, स्वसंवेदनस्वीकृते
प्रमाणान्तरावतारविरहात् । अथ स्वरूपेण, तन्मात्रं न व्यथतेऽभेदिन्याश्रये प्रति
भासमानौ मैत्रीमेवावहतो हतो विरोधः कृतकनित्यत्ववत् ।

तयोः कल्पनाकृत एव भेदोऽत्र तु प्रतिभासकृत इति चेत् ? अभिन्नाश्रयत्व
मात्रेण निदर्शनमेतत् । आश्रयाभेदस्तर्हि तत्र प्रतिभासाभेदादेवेति चेत् ? अत्रापि
स्वसंवेदनाभेदात् । प्रतिभासभेदात् तर्हि भेद एव किं न वेति चेत्—न, बाह्ये हि
प्रतिभासः प्रमाणमाकारापरनामा, तदभावे त्वाभास एव विषयः । प्रमाणं तु स्व
संवेदनम्, स तेनैकीक्रियमाणः केन भेत्तुं शक्यः ? विरुद्धयोर्धर्माविति तु दूरोत्सारि
तम्, भेदस्यैवाभावात् क्व विरोधः इति । तस्मान्न भेदसाधनं किञ्चित् । अभेदसाधनं
461
तु स्वसंवेदनमेव भेदबाधनं च स्वरसवाही बहिर्व्यवहारस्तूपस्थापयतीति स्थितम् ।
एतदप्याह,

नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् ।
अशक्यदर्शनस्तं हि पतत्यर्थे विवेचयन् ॥
प्र. वा. २. २२०

इति । अनन्यभागित्यनन्यस्वभावभाक् । पीतादिस्वभावमभजन्नीलादिरशक्यप्रतिभासश्चित्र
विज्ञानस्थ एकाकी शक्यदर्शनः स्यादपि पीताद्येकैकनियतत्वात् तद्धर्मतापन्नस्य प्रतिभासस्य ।
परस्परस्वभावस्त्यजन्नेव शक्यप्रतिभास इत्यर्थः । तं हि विवेचयन् भिन्दन् नियतं
तद्धर्मतामनापन्नतां प्रतिभासस्य स्वीकुर्यादिति बहिरर्थवाद एव निपतेत् । ज्ञानोपाधिश्चायं
नीलादिः, तस्माद्,
यद् यथा भासते ज्ञानम्
प्र. वा. २. १२१

नीलपीतादिभासित्वेन तत्तत्रैवानुभूते पीतादित्वेन स्वसंवेदनात् परस्परात्मत्वेनेति
इत्यर्थः । शेषं सुगमम् । अतो युक्तमाह भाष्यकारः,

न वा तच्चित्रम्, अचित्राद् भेदेन व्यवस्थापनासंभवादिति ।
2575

अत्र ह्यचित्रादनानारूपात् स्वसंवेदनाद् भेदेनाव्यवस्थापनमिति, अभेदेन
व्यवस्थापनं पर्युदासपर्यवसायि विवक्षितम् । तच्च प्रसाधितं स्वयमेव । पूर्वमशक्य
विवेचनत्वमव्यभिचारलक्षणमेकत्वमुक्तम्, अधुना त्वेकसंविदन्तर्गतत्वमेवेति वा
शब्दः । तेन चित्राकारतापि संवृत्त्योच्यते । परमार्थतः पुनरद्वैतमेवेत्यर्थं परिकल्प्य
भेदप्रतीतिनिषेधमात्राभिप्रायेण यदुक्तम्, 104b यद्येवं न वा तदद्वैतं द्वैताद् भेदेना
प्रतिभासनात्, एवं न वा ज्ञानम्, न वा स्वसंवेदनमिति, तन्निरस्तम् । द्वैतं हि
भेदः, तस्य च क्व प्रतिभासः ? तेन ततो भेदप्रतिभासाभावेऽपि कुत एकत्वम्, एक
स्यैकसंविदन्तर्गमेण प्रतिपादितत्वात् ? एवं शेषमपि, प्रतिभासे हि सर्वस्य विपर्ययस्य
स्वभावभङ्गप्रसङ्गः ?

462

उद्भावनासंवृत्त्या चात्र चित्रवद् भेदोऽपि व्यवस्थार्ह इत्यपि न युक्तम्, अनु
भवस्य भेदविरोधेनोदयप्रतिपादनात् । नीलपीतादिमात्रेण चित्रस्याद्वैतवचनमेवोद्भावना
संवृतिः, न भेदवचनम् । अभ्यासभावितं तु भेदवचनमनभ्यूहिततत्त्वस्य न तत्त्वो
परोधीति । वस्तुतस्तु, प्रसज्यप्रतिषेध एवायं वाचकाक्षरः, एकत्वसाधनायेति तु भ्रान्ति
र्लोकस्य । तदयमर्थः, अथवा तद्ग्राह्यग्राहकाभिमतं नीलपीतादि वा चित्रशब्दाभिधेयं
न चित्रं, न नाना, अचित्रात् स्वसंवेदनाद्धेतोर्भेदेन व्यवस्थापनाभावादिति नानात्व
निषेधमात्रमिष्टम्, परेण चैकत्वनिषेधोऽध्यक्षादेव कुत इत्युभयविनिर्मुक्त एव प्रकाशः ।
क्षणिकं क्षणित्वमुक्त इव सन्नित्युक्तं भवति, यथा प्रथमं प्रथितमस्माभिः । अत
एवान्यस्य जडस्य ग्राह्यग्राहकस्य वा अभावात् केवलार्थोऽयमद्वैतशब्दो न द्वैतपर्युदासे
नैकार्थ इति दर्शयन्नाह,

तस्मात् स्वसंवेदनमेव केवलमद्वैतमपरस्याभावादिति ।
प्र. वा. भाष्ये पृः २९०

तेन यदेव चोद्यमुखेन पूर्वमाह, अथ प्रतिभासमानं कथमेकानेकत्वविकल्पनादेव न भवति,
विकल्प्यमानमपि तत्प्रतिभासत एव, अभावे कथं प्रतिभासः ? प्रतिभासश्चेत्, कथमभाव
इति ? टीका चात्र एकानेकरूपपरिहृतस्याप्युपलम्भात्मतयोपलम्भः सत्तेति न्यायात्
सदेवेति । तदेव सिद्धान्तान्तरत्वेन व्यक्तीकृतम् । तदेवमेकत्वोपाधिश्चित्राद्वैतवादो वार्तिक
कारस्य मुख्य उपलक्ष्यते । भाष्यकारस्य तूभयव्यावृत्तिविशेषणः । तत्त्वतस्तु उभयोरप्येक
एवाभिप्रायः । अभिव्यक्तिरीतिभेदात् तु मुख्येतरव्यवस्था ॥

अनालोच्य ततश्चित्रां चित्राद्वैतव्यवस्थितिम् ।
भाष्यापदेशादाचार्यदूषणं कस्य भूषणम् ॥

यदि चाचार्यस्यान्योऽभिप्रायो भाष्यकारस्याप्यक्षरव्याख्येयमभिप्रायस्त्वन्य इति
नाशक्यमिति धिक् प्रकाश एव स्खलनम् ! तदेवमेकताया एव बुद्धिरूपे चित्रेऽप्युप
पत्तेर्व्यापकानुपलब्धेरसिद्धिः । नोपयोगश्चित्राद्वैतेन व्यवहारिणामिति तु न बाधकं
बुद्धगोचरत्वात्, शून्यतावत् ।

तत्त्वावबोधेतरयोरभेदाद् दोष एव चेत् ।
अनीक्षमाणः स्वमुखं सुखं जीवति पेचकः ॥
463
तथा हि,
न सा कृतौ चेतसि विप्रतीतिः
प्रकाशमानस्य मनस्त्वसिद्धेः ।
प्रकल्पितेनैव तु नात्मनासत्
प्रकाशिनापीति विशेष एषः ॥
तया च किं धर्मतया कदाचिद्
विमुच्यते चक्र105a मिदं मतीनाम् ।
न चात्मरूपानुभवो न पूर्वं
चित्तस्वभावत्वहतिप्रसक्तेः ॥
ततश्च तन्निश्चय एव नासीद्
आकारभेदोत्कलितश्च सोऽपि ।
न तत्त्वसंवृत्यनुगम्य चास्य
परव्यपेक्षाविरहेऽस्ति भेदः ॥
न च क्वचिन्नाम परस्य बोधः
स्वभावशून्यत्वमपि द्वयोः समम् ।
तदेकदा संवृतिरन्यदा ने
त्ययं विभागो भवतोऽपि किंकृतः ॥

अथवा,
न शून्यताया विरहः कदाचित्
साक्षात्क्रिया वापि परा न काचित् ।
न दोषनाशो न गुणोदयो वा
न संवृतिः कार्यविचार्यमाणा ॥
तदत्र यावन्न विचारसंभवो
भवोऽयमन्यः शम इत्ययं नयः ।
विचारलीलालुलिते तु मानसे
भवः शमो वा क इहेति कथ्यताम् ॥
464
तथा च सूत्रालङ्कारे,
न चान्तरं किञ्चन विद्यतेऽनयोः
सदर्थवृत्त्या शमजन्मनोरिह ।
तथापि जन्मक्षयतो विधीयते
शमस्य लाभः शुभकर्मकारिणाम् ॥

सदर्थवृत्त्या परमार्थवृत्त्या, शेषं संवृत्त्या । अभिसमयालंकारेऽपि,
स्वप्नोपमत्वाद् धर्माणां भवशान्त्योरकल्पना ।
अभिसमयालंकारालोके पृः ४४०

इत्यादिकम् । ततश्च जातिसिद्धम् ।
निर्वाणं च भवश्चैव द्वयमेतन्न विद्यते ।
परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते ॥
नागार्जुनस्य

इति । अस्य दूषणं निरपराधमातृवध एव तदयं प्रकरणार्थः,

भेदोऽभेदो द्विधाऽद्वेधा धीरूपेऽस्तु यथा तथा ।
नालीकत्वं प्रकाशस्य बाधगन्धविरोधिनः ॥

विजानातीति विज्ञानमित्यादिकल्पितप्रपञ्चशून्यता तु सर्वत्र । तथा च न हि ते
स्वभूते धर्मास्तथा संविद्यन्ते यथा बालपृथग्जना अश्रुतवन्तोऽभिनिविष्ट इत्यादि विस्तरः ।
बुद्धिधर्मा अपि हि बुद्ध्यन्तरपरिकल्पितेन रूपेण सन्त एव न स्वसंवेद्यतया एव सत्त्वात् ।
एतेन स्वप्नमायोपमत्वं भगवतो व्याख्यातम् । दृष्टान्तेष्वपि हि निषेधोऽध्यवसितस्यैव न
प्रतिभासमानस्य । तस्मात् साकारस्यैव भगवतः सिद्धिर्बाधाविनाकृतेति स्थितम् । तथा च
नमस्कारश्लोकस्यार्थसिद्धिः—

सान्नव्यञ्जनलक्षणैरधिगतौदार्य निजेनात्मना
यद्गम्भीरमनन्यगोचरतया शून्यं प्रपञ्चोर्मिभिः ।
निर्माणैश्च यतः स्फुरन्ति जगतीं ज्ञानत्विषस्तन्नचा
लीकत्वेन कलङ्कितं वपुरतो भद्रं समन्तान्मुनेः ॥
465
किं भूयः,
यथा सुवर्णं गुणरूपसंपदः
प्रकर्षपर्यन्तमुपेतमक्षयम् ।
विमुक्तमालीक्यकलङ्कशङ्कया
तथैव बौद्धं वपुरस्तु देहिनाम् ॥

॥ इति महापण्डितज्ञानश्रीमित्रविरचितायां साकारसिद्धौ
चित्राद्वैतपरिच्छेदश्चतुर्थः ॥
  1. तुल० न्यायबिन्दुः ३. ३८

  2. प्र. वा. २. २२०
  3. प्रज्ञाकरधृतोऽयं पाठः, तत्तथैव प्रकाशत इति मनोरथः ।

  4. चेतस इति प्रज्ञाकरः, ०कारस्येत्युभौ ।

  5. प्र. वा. २. २२१
  6. प्र. वा. २. २२१
  7. प्र. वा. २. २२०
  8. सावधेरस्यावभास इति मातृकायाम् ।

  9. प्र. वा. भाष्ये पृः २९०