95b दसमा
श्रयेण ज्ञानान्तरप्रसवमात्रलक्षणो भ्रमः, तथैवैवमेतन्नान्यथेत्यपि ज्ञानाकारोदय एव
बाधा भविष्यति ।

यद्येवं तत्त्वतो न बाधेति सिद्धमेतत् । केनचिदाकारपरिग्रहेण ज्ञानमिदं जातं
नाम, न तु किञ्चिदनेन बाधितं साधितं वा, नीलज्ञानानन्तरं मधुरज्ञानवत् । अन्यत्र
बाधाध्यवसायेन विशेष इति चेत् ? अध्यवसायमात्रसिद्ध इत्येव सांवृत उच्यते ।
तस्मान्नालम्बनशून्यताप्रतिपादनं बाधार्थः । किं च, सालम्बनेतरभेदेन द्वैते गतिरियं
स्यादपि । अद्वैते तु स्वरूपमात्रपर्यवसितवेदनस्थितीनां मतीनामन्योऽन्यं बाध इति
महत्साहसम् । उक्तं च,