438

सिद्धिर्धियः परधियो न यथा तथा न बाधापि
2563

इति । ननु विज्ञप्तिमात्रतासिद्धिरपि परत एव, तथा बाधापि भविष्यतीति चेत् ?
असारमेतत् । संवृतिव्यवस्थितो हि नानुमानमनास्थाय स्थातुं शक्तः, अन्यथा न
क्वचित् प्रवृत्तिनिवृत्त्यादिकमाचरेत् । अनुमानाश्रये च बलाद्विज्ञप्तिमात्रतासिद्धि
रापतति । न तु तत्त्वपरिनिष्ठायामनुमानावकाशः । तथा यदि संवृतावेव बाधस्वीकारः,
तदा पुनः प्रतिभासमानमेतत् बहिरवसितमिति बाधस्तत्रैव स्यात् । यत्किञ्चिदेतत्
बुद्धिर्जडं वा तत्रैव बाधसिद्धिः, तदापि न बाह्यरूपातिक्रमेण साधनवृत्तिः । अथ किमत्र
विकल्पेन बुद्धिरूपमेव चित्रमालम्ब्य धर्मीकरणमिति न बाह्ये साधनव्यापारः ।
तदेतदश्वारूढाश्वविस्मरणवृत्तान्तमनुहरति ॥
वेदनं किञ्चिदुद्दिश्य यद् बाह्यं बाह्यमेव तत् ।
तच्च ज्ञानं जडं वा स्यादिति चिन्ता निरर्थिका ॥

सर्वथा बाह्यग्राह्यव्यवस्थानान्तरीयको बाधक इति सिद्धम् ।
नन्वेतदेव नीलादिबाधाया विषयो मतः ।
तच्च ज्ञानं जडं वा स्यादिति चिन्ता निरर्थिका ॥
न च तत्र धियो रूपमिति भीतिः प्रबाधितुः ।
नापि पश्चात् तथा ज्ञाने शक्तेरुत्कीलनं भवेत् ॥
बाह्यग्राह्यव्यवस्थाया व्यपेक्षानियमो न च ।
इदं हि बाधितं नीलं बहिरस्तु मनोऽस्तु वा ॥
अस्तु वा तद्व्यवस्थापि तथाप्येतस्य बाधनम् ।
वैरबुद्ध्या न किं बन्धोः प्रहारो मरणप्रदः ॥

इति चेत् ? पुनरपि ब्रुमः न विज्ञप्तिमात्रतासिद्धौ बाधकावकाश इति प्रकृतम् । तत्र
ग्राह्यग्राहकव्यवस्था नान्तरीयके बाधके सिध्यति नानिष्टमापादितं भवति, यथा हि
तस्या विप्लवस्तथा बाधकस्येति साध्यसिद्धेः । न च तन्नान्तरीयकतापरिहारः शक्यः ।
न चाविषयीकृतस्य बाधः, इदमनेन बाध्यत इति बाधाध्यवसायात् । विषयीकरणं
च बाध्यस्य बाधकादन्येन, बाधकेनेतरेणस्वयं स्वपरेण वेति विकल्पाः । बाधकाद्