513
तत्तीरान्तमियाद् विनाशमविशन् यद्येष मुख्यः सुधा
सिन्धोरस्य गुणः स वेपितवियद्वेलावलीमालिनः ॥
साक्षात्ख्यातकुमारमूर्तिमहिते मञ्जुश्रियां शास्तरि
प्राप्योद्भेदमिदं पदं प्रति शिशुक्रीडानुकारेऽपि यत् ।
श्रेयस्तेन जनोऽयमस्तु परितो निर्यन्त्रमैत्रीमय
ज्ञानश्रीवशितोपनीतपरमानन्दैककन्दाङ्कुरः ॥

॥ उभयद्वैतपरिच्छेदः षष्ठः ॥
॥ समाप्तं चेदं बलाबलपरीक्षामुखेनारब्धं साकारसिद्धिशास्त्रं
कृतिर्महापण्डितज्ञानश्रीमित्रपादानामिति ॥