द्वितीयः परिच्छेदः

नाप्यागमाद् गमयितुं शक्यं चित्तमनाकृति ।
न प्रत्यक्षप्रतिक्षिप्ते प्रमाणान्तरसंगतिः ॥ १ ॥
न च प्रवचनेऽप्यस्य बोधकं मुख्यमक्षरम् ।
लोकः स्वाभिनिवेशं तु तत्रैव प्रतिबिम्बयेत् ॥ २ ॥
वासनालुठितं चित्तमर्थाभासमिति श्रुतौ ।
लुठतिः श्लेषणार्थोऽयं नोपघातार्थलोठितः ॥ ३ ॥
विनार्थमर्थाभासा धीः कथमित्यत्र कथ्यते ।
वासनायोगत इति समनन्तरशक्तितः ॥ ४ ॥
व्यतिरेकीव निर्देशो न च भेदस्य126a वेदकः ।
सुवर्ण कुण्डलाकारं करोतीति न किं वचः ॥ ५ ॥
वासनोपहतत्वं चानिष्टरूपोदयान्मतम् ।
प्रवृत्त्याक्षेपि संकल्पसूतिसामर्थ्यगर्भतः ॥ ६ ॥
अद्वैतशिखरारोहे न प्रवृत्तिनिवृत्तयः ।
ता एव संसार इति तद्धेतुः कथमिष्यताम् ॥ ७ ॥
विनेयचित्तामुखतावस्थापेक्षमिदं वचः ।
तेनार्थाभासमित्येतत् सामान्यं भेदधिष्ठितम् ॥ ८ ॥
दर्पणे दृश्यते रूपमिति बालाभिमानतः ।
अनूद्य वेदनाकारे तदारोपनिवारणम् ॥ ९ ॥
तथा भावेषु भावत्वं ज्ञानकारेषु बाह्यता ।
यथा तिमिरिणा दृष्टश्चन्द्रयोश्चन्द्रतासती ॥ १० ॥
निम्नोच्चविरहाद् बाह्येनैकत्वं नास्ति दर्पणे ।
नान्तःप्रविष्टनिर्भासात् पृथक्त्वं प्रतिपातिना ॥ ११ ॥
530
भावैराकारसंज्ञैर्वा लक्ष्यते बोधरूपता ।
सामान्यं ज्ञानसंख्यातमत एवापृथग्वचः ॥ १२ ॥
लोके रूढं पृथगिव ज्ञानमादर्शसन्निभम् ।
आकाराः प्रतिबिम्बाभा उभयोः कल्पितं न सत् ॥ १३ ॥
बोधस्य नैकता बाह्यैः स्वरूपविरहाप्तितः ।
नान्यत्वमग्रहप्राप्तेर्न सत्ता चाप्रकाशिनः ॥ १४ ॥
शृजुक्रमेण चादर्शे एकानेकत्ववर्जितम् ।
इति युक्तं न भावाश्च युज्यन्ते दर्पणोपमाः ॥ १५ ॥
सर्वधर्माः स्वधीरेव स्थिताश्चित्ते समाहिते ।
अबाध्यां कल्पितैर्धर्मैः शून्यतामाश्रिता यतः ॥ १६ ॥
तत्प्रकाशतया चित्तं स्वमेवैते सितादयः ।
कल्पितास्त्वप्रकाशत्वान्न धर्मा न च धर्मता ॥ १७ ॥
शून्यताख्या यथा भाति विकल्पे भेदिनीव सा ।
भिन्नया हि तया शून्या धर्मैर्धर्मा न तैरमी ॥ १८ ॥
बाह्यग्राहस्य हानेऽपि ग्राहकस्थितिवारणम् ।
तथतारम्बणे स्थित्वा चित्तमात्रव्यतिक्रमः ॥ १९ ॥
आरोप्यहानादारोपविषयस्यापि मा स्म भूत् ।
चित्रस्योच्छेददृक्पात इत्यनाभासवारणम् ॥ २० ॥
निराभासे स्थितो योगीत्याभासः कल्पना मता ।
एकापोहेन यत्तस्यामीषदाभासते बहिः ॥ २१ ॥
समन्तभासादाभासः प्रपञ्चो वा कदम्बवत् ।
विचित्रकल्पनारूढो हेयश्चित्रेऽपि चेतसि ॥ २२ ॥
तदागन्तुमलध्वंसात् तदाकाशतलोपमम् ।
ज्ञेयेनाभितुला ज्ञेयनिर्विशिष्टतया स्फुटा ॥ २३ ॥
531
प्रकाशमात्रं तदिदं दीपसन्तानसन्निभम् ।
अप्रकाशाङ्गविरहान्न स्वाकारप्रकाशनात् ॥ २४ ॥
अप्रकाशकणस्यापि न पूर्वमपि संभवः ।
भ्रमव्यवस्थापेक्षा तु समलामलतास्थितिः ॥ २५ ॥
बाधे नाम निमित्तानामाकारस्य च न क्षतिः ।
नाममात्रं मुनेर्धर्माः सन्तु वा कल्पितात्मना ॥ २६ ॥
दृष्टा विकल्पाकारेऽपि दृष्टताख्यातिभातयः ।
कथं पश्यसि संख्यां भो भाविते प्रतिभासते2597 ॥ २७ ॥
निराभासे स्थितिवतोऽप्यविकल्पस्थितिर्मता ।
सतोख्यानमसत्ख्यानं व्याखात इयता भ्रमः ॥ २८ ॥
अवश्यादेयमेतच्च सतोऽख्यानं किमन्यथा ।
परास्फूर्तौ न हि भ्रान्तिः स्वास्फूर्तौ च न चित्तता ॥ २९ ॥
अग्राह्यग्राहकस्यातः स्वस्य नावसितिः सतः ।
अवसायोऽसतो ग्राह्यग्राहकस्याप्यतो भ्रमः ॥ ३० ॥
तथा126b चाभूतकल्पोऽस्ति द्वयं तत्र न विद्यते ।
न ग्राह्यग्राहकादन्यद् द्वयशब्देन चोच्यते ॥ ३१ ॥
अभूतपरिकल्पास्तु चित्तचैत्तास्त्रिधातुकाः2598
विहाय चित्राकारं च का त्रिधातुव्यवस्थितिः ॥ ३२ ॥
न चाकारातिरिक्तोऽंशश्चित्तमापादितं क्वचित् ।
वैभाषिकमतिक्रम्य स्थितिरेषा हि दूरतः ॥ ३३ ॥
अभूतं कल्प्यते यत्र येन वा पृष्ठ्यकल्पतः ।
अभूतपरिकल्पोऽसौ बुद्धिश्चित्रैव युज्यते ॥ ३४ ॥
अभूतद्वितयारोपापेक्षयान्वयसंगतेः ।
अदृश्ये त्वतिरिक्तांशे नारोपो नाम कस्यचित् ॥ ३५ ॥
532
कल्पितं च द्वयं तावन्नीलमेव न भासनात् ।
अतः स्वभावस्तु योऽपि वक्तव्यः कल्पितादिषु ॥ ३६ ॥
कल्पितं स्फुरदेवेति साहसं किमतः परम् ।
मरीचिनिश्चयेऽप्यम्भः कल्पितं स्फुरदस्तु किम् ॥ ३७ ॥
तथाभ्युपगमे पाथःकार्यं तेनाभिधीयताम् ।
असत्त्वान्नैवमिति चेत्, यदसत् तत् कथं पयः ॥ ३८ ॥
आरोपादिति चेत् तर्हि भवत्वारोपमात्रकम् ।
न तु स्वभावस्फुरणं स्फुरणे तत्क्रियाप्तितः ॥ ३९ ॥
सत्यतैव प्रसज्येत तथा बाधापि किंकरी ।
बाधया तत्क्रियाहानौ, न पयस्तत्क्रियं हि तत् ॥ ४० ॥
तत्पाथः कथमारोपे स्फुरतीति निगद्यते ।
ग्राह्यग्राहकयोरेवमारोपः स्फुरणं न तु ॥ ४१ ॥
स्वप्रकाशस्वभावत्वाद् भागयोरुभयोरपि ।
किं ग्राह्यं ग्राहि वा किं स्यात् स्वस्वलक्षणहानितः ॥ ४२ ॥
स्फुरदेव ततो रूपं स्वभावोऽस्तु तुरीयकः ।
अदृश्यात्मनि दृश्यस्य कल्पनेत्यपि कापि धीः ॥ ४३ ॥
चित्रे च परतन्त्रोऽतो धीः कल्पितविकल्पिता ।
धर्मतारूपनिर्णीतौ व्यक्तमेतच्च लक्षय ॥ ४४ ॥
कल्पितस्य द्वयस्यैव परतन्त्रस्य भासिनः ।
रोपापवादौ मध्यान्तविभागे विहतावतः ॥ ४५ ॥
सूत्रालंकारमार्यीयं भाष्ययुक्तं च चिन्तय ।
यत्र रूपादिराख्यातः परतन्त्रपरिस्फुटः ॥ ४६ ॥
तदाकृतिश्च तत्रास्ति तद्भावश्च न विद्यते ।
तस्मादस्तित्वनास्तित्वं मायादिषु विधीयते ॥ ४७ ॥
533
न भावस्तत्र चाभावो नाभावो भाव एव च ।
भावाभावाविशेषश्च मायादिषु विधीयते ॥ ४८ ॥
तथाद्वयाभता चास्ति तद्भावश्च न विद्यते ।
तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयते ॥ ४९ ॥
न भावस्तत्र चाभावो नाभावो भाव एव च ।
भावाभावाविशेषश्च रूपादिषु विधीयते ॥ ५० ॥
समारोपापवादान्तप्रतिषेधार्थमिष्यते ।
हीनयानेन यानस्य प्रतिषेधार्थमेव च ॥ ५१ ॥
रूपादिष्विति चाभूतपरिकल्पात्मकेष्विति ।
भाष्यीयविवृतिं पश्य तस्य विस्तरमेव वा ॥ ५२ ॥
नापनेयमतः किञ्चिदुपनेयं न किञ्चन ।
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते2599 ॥ ५३ ॥
प्रत्यक्षवस्तुविषयो विमर्शोऽयं यदीष्यते ।
न चित्रादन्यदध्यक्षं यत्नः शास्त्रद्वयेऽप्ययम् ॥ ५४ ॥
धर्मधातुविमर्शोक्तौ धर्मी धर्मगिरोदितः ।
तथा चानन्तरगिरा व्यक्तमेतदितीरितम् ॥ ५५ ॥
अतएव च धर्मस्य पश्चाच्छेदो हि निर्वृतिः ।
दोषोऽयं स्वीकृतोऽलीकनाम्नाका127a रक्षयस्पृहैः ॥ ५६ ॥
शून्यता नाम धर्मोऽस्ति रूपादिव्यतिरेकतः ।
यो भाव्य इत्युपालम्भलाभोऽनाकारवादिनाम् ॥ ५७ ॥
अर्थान् स विज्ञाय च जल्पमात्रान्
सन्तिष्ठते तन्निभचित्तमात्रे ।
इत्याह निर्वेधपथेऽथ दृष्टौ
प्रत्यक्षताप्तिं खलु धर्मधातोः ॥ ५८ ॥
534
ग्राह्यग्राहकरूपेण यो द्वयेन विवर्जितः ।
इति तस्य विशेषं च न त्वाकारक्षयं क्वचित् ॥ ५९ ॥
द्वयलक्षणहानिस्तु सर्वत्रेति परिस्फुटम् ।
न ग्राह्यग्राहकत्वं चाकृतीनामत एव च ॥ ६० ॥
द्वयाभासाः प्रवर्तन्ते न विकल्पाः पुनश्च ते ।
व्यवदानार्थनेत्यत्राप्याभासोऽध्यवसायिता ॥ ६१ ॥
सर्वज्ञेयेष्वसंमूढं न च तेष्वामुखं सदा ।
इत्यत्र विवृतौ हेतुरनाकारतयेति यः ॥ ६२ ॥
2600ग्राह्यप्रकाराभावेनेत्यर्थो बिम्बोदयेऽपि हि ।
एतच्चानन्तरं मूलभाष्ययोरीक्षणे स्फुटम् ॥ ६३ ॥
एवं मध्यान्तभागस्य मूले भाष्येऽपि ईदृशे ।
अग्राहकत्वादित्यर्थो विभक्तः साधु टीकया ॥ ६४ ॥
तथा च तद्भाष्यकृताधर्मधर्मतयोन्नये ।
अविकल्पकविज्ञानलक्षणप्रक्रमे स्वयम् ॥ ६५ ॥
अरूपीति पदं ग्राह्यग्राहित्वेनानिरूपणात् ।
अनाभासमितीदं चागोचरत्वेन वर्णितम् ॥ ६६ ॥
न त्वाभासवियोगेन ग्राह्याभावेन चेत् तथा ।
किमनेन प्रयासेन मुख्यमेवोचितं वचः ॥ ६७ ॥
नास्मिन्नाभासते किञ्चिद् गोचरत्वेन संमतम् ।
इति व्युत्पत्तिरिष्टेह तस्मात् तन्त्रेऽपि चोत्तरे ॥ ६८ ॥
अकिञ्चने निराभासे निरालम्बे निराश्रये ।
चक्षुष्यथव्यतिक्रान्तेऽप्यरूपिण्यनिदर्शने ॥ ६९ ॥
यथा निम्नोन्नतं व्योम्नि दृश्यते न च तत्तथा ।
बुद्धेष्वपि तथा सर्वं दृश्यते न च तत्तथा2601 ॥ ७० ॥
535
अत्रापि यदि दृष्टान्तविशेषणगणो विभौ ।
अवश्ययोज्योऽनाभासरूपित्वे तद्वदेव हि ॥ ७१ ॥
आलम्बाश्रययोर्हानिरूर्ध्वाधोऽपेक्षया समा ।
अकिञ्चनत्वमागन्त्वशेषदोषवियोगतः ॥ ७२ ॥
स्वविशेषणमात्रात्तु कृतार्थ पद्यमादिमम् ।
बुद्धेष्विति तथा चेदं बहुत्वं भेदकं ततः ॥ ७३ ॥
खसाम्यान्न च नैरूप्यं नैःस्वरूप्यं यथैव न ।
रोपापवादस्थानोच्चावचहान्या तु तुल्यता ॥ ७४ ॥
वस्तुरूपेषु नीचोच्चभावसंभावना भवेत् ।
अवस्तुरूपे शङ्कापि नास्तीति खमुदाहृतम् ॥ ७५ ॥
यदि चानाकृतिज्ञानमभ्रान्तिर्भ्रान्तिराकृतिः ।
त्रिकायव्यवहारोऽन्तःसंभोगस्य पराभवात् ॥ ७६ ॥
भ्रान्तिराकृतिपुञ्जोऽसौ यावत् तावन्न बुद्धता ।
बोधे भ्रान्तिविरोधित्वाद्बुद्धात्मा संकथं भवेत् ॥ ७७ ॥
नापि संवृतिरेवासौ कल्पनैव हि संवृतिः ।
न चोपचारात् कायत्वं त्यागस्यैवोपपत्तितः ॥ ७८ ॥
बुद्धाधिपत्याद् धन्यानां तदाभासश्च नोचितः ।
निराकारतरास्ते हि बुद्धस्तु भामयाधिकः ॥ ७९ ॥
बुद्धाधिपत्यं स्थाने च स्थाने तेषां च धन्यता ।
अण्डभ्रमाणां यदयं तादृक्स्थूलभ्रमोदयः ॥ ८० ॥
यथा च व्याप्तिनित्यत्वे स्वाभिप्रायेण वर्णिते ।
न संभोगे तथा व्याख्या तत्स्वातन्त्र्यमिदं महत् ॥ ८१ ॥
सर्वैश्च लक्षणैश्चित्रैर्मण्डितात्मेति चित्र127b 2602वाक् ।
चक्रेशलक्षणगणाद्विशेषायेति भाष्यकृत् ॥ ८२ ॥
536
धर्मकायप्रधानत्वदर्शनायोत्तरेण 2603यत् ।
चक्रेशस्यापि भावीति नालीकत्वाद्यवर्णयत् ॥ ८३ ॥
अयं च सूत्रालंकारो विरुद्धो यद्यलीकता ।
द्वयोर्द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता ॥ ८४ ॥
संभोगः स्वार्थसंपत्तिः परार्थश्रीस्तु निर्मितिः ।
प्रतिष्ठिते ते स्वाभाव्ये संभोगे चेति भाष्यगीः ॥ ८५ ॥
एवं च धर्मकायस्य कायो निर्माणकारणम् ।
स्वार्थसंपदसन् ख्यातिसंभोग इति विप्लवः ॥ ८६ ॥
आकाशवादे देहत्वान्न बहुत्वं मुनेरिति ।
बहुत्वं नाकृतिव्याप्तं चित्तचैत्तात्मनामिव ॥ ८७ ॥
टीका त्वात्मग्रहाभावान्मुनेः स्वपरहानितः ।
न भूमेति वदन्त्याह देहमात्मग्रहं स्फुटम् ॥ ८८ ॥
स्वार्थः परार्थः परमार्थकायता
तदाश्रिता संवृतिकायता च ।
फलं विसंयोगविपाकभावा
दित्युत्तरेतन्त्रवरेऽथ कोऽर्थः2604 ॥ ८९ ॥
स्वार्थः स्वाभाविकोऽन्यार्थः संभोगो मत एव नः ।
प्रस्तावेऽत्र तयोः किं तु परमार्थत्वसंविधिः ॥ ९० ॥
पारम्पर्येण साक्षाद् वा सांवृतस्तौ समाश्रितः ।
निर्माणकायः ख्यातं च निर्माणं सांवृतं फलम् ॥ ९१ ॥
वदंस्तथागतगुणान्निर्माणं हि त्यजेत् कथम् ।
पारमार्थिकमित्येवं वृत्तौ कायावनूद्य तौ ॥ ९२ ॥
आत्मसंपत्त्यधिष्ठाने विधिश्च न विरुध्यते ।
आत्मसंपत् द्विधा रूपनिष्पत्त्याभ्युदयेन च ॥ ९३ ॥
537
आद्यायामादिमाधिष्ठा द्वितीयस्य द्वितीयके ।
अचिन्त्यलोकातीतादिख्यातानेकविशेषणे ॥ ९४ ॥
अथवात्मनि संभोगे संपत्तौ च तयोर्बलम् ।
रत्नविग्रहवज्ज्ञेयः कायः स्वाभाविकः शुभः ॥ ९५ ॥
अकृत्रिमत्त्वात्प्रकृतेर्गुणरत्नाश्रयत्वतः2605
महाधर्माधिराजत्वात् संभोगश्चक्रवर्तिवत् ॥ ९६ ॥
प्रतिबिम्बस्वभावत्वान्निर्माणं हेमबिम्बवत्2606
एवं वक्तरि नाथे तु स्वपक्षरसिकैः कृतः ॥ ९७ ॥
संभोगः सांवृतो हित्वा निर्माणं धिक् स्वतन्त्रताम् ।
महाकरुणया कृत्स्नं लोकमालोक्य लोकवित् ॥ ९८ ॥
धर्मकायादविचलन्निर्माणैश्चित्ररूपिभिः2607
इत्यादिना प्रबन्धेन यच्चात्रैव प्रदर्शनम् ॥ ९९ ॥
उक्तं निर्वाणपर्यन्तजातकादेः पुनश्च यः ।
सर्वत्र देवभवने ब्राह्म्यादविचलन् पदात् ॥ १०० ॥
प्रतिभासं यथा ब्रह्मा दर्शयेदप्रयत्नतः ।
तद्वन्मुनिरनाभोगान्निर्माणैर्लोकधातुषु ॥ १०१ ॥
धर्मकायादविचलन् भव्यानामेति दर्शनम्2608
इत्यादि विस्तरस्तत्र धर्मकायात् पृथग् गिरा ॥ १०२ ॥
संभोगात्मा न चेत् कोऽन्यः कार्यभारकरो मुनिः ॥ १०३ ॥
क्वचिद् धर्म्यं चक्रं बहुमुखशतैर्दर्शयति स
क्वचिज्जन्मान्तर्धि क्वचिदपि च चित्राञ्जनविधिम् ।
क्वचित् कृत्स्नां बोधि क्वचिदपि सनिर्माणमसकृ
न्न च स्थानात् तस्माद्विचलति स सर्व च कुरुते ॥ १०४ ॥
इत्याह सूत्रालङ्कारेऽप्यत्र स्थानमनाश्रवः ।
धातुर्भाष्योदितो धर्मकायाचलनमेव तत् ॥ १०५ ॥
538
तथाप्यलीक एवात्मा चाकारश्च भ्रमो मतः ।
कार्यभारस्तदन्यस्मादिति लज्जैव लज्जिता ॥ १०६ ॥
अस्तु चालीकभावेन भ्रमः 128a 2609स्थूले निरर्थकः ।
अवश्यहेयस्त्वाकारभारः स्यादिष्यते यदि ॥ १०७ ॥
निरब्भ्रगगनाकारज्ञानस्येवावशेषणात् ।
त्रिकायसिद्धिमुद्धूय परमेवेदमुद्गतम् ॥ १०८ ॥
संभोगभङ्गे तद्धर्मो धर्मकायो न विद्यते ।
तत्कार्यं न च निर्माणं साध्वी बौद्धकृतान्तता ॥ १०९ ॥
नन्वस्तमेतु संभोगो धर्मकायोऽस्त्वनाकृतिः ।
तत एव च निर्माणं संभोगोऽपि तदाश्रितः ॥ ११० ॥
भ्रमत्वादेव संभोगं हित्वानङ्गदशाश्रयः ।
विशुद्धेः स हि पर्यन्तस्तत्त्रयी सङ्गतिर्न किम् ॥ १११ ॥
युवराजनयेनैतद् विरोधीत्युपपादितम् ।
तथापि यदि चर्चायां कौतुकं किञ्चिदुच्यते ॥ ११२ ॥
अनाकारप्रकाशश्चेद् धर्मकायोऽभिधीयते ।
कस्तर्हि बुद्धसंभोगो न प्रहेयतयोचितः ॥ ११३ ॥
कार्यार्थं ध्रियमाणोऽपि भ्रमत्वात् सुगतः कथम् ।
यदि कार्योपयोगी च मृषालीकत्वपोषणम् ॥ ११४ ॥
तथा च सति न भ्रान्तिरभ्रान्तेस्त्यजनं न च ।
ततोऽनब्भ्रवतः साम्यसिद्धिसिद्धान्तनिर्धुतिः ॥ ११५ ॥
तदस्यावश्यहेयस्य हेतुर्नारम्भमर्हति ।
ततोऽपि नासौ सुगतो धर्म एव जिनो यदि ॥ ११६ ॥
धर्मकायो जिनस्येति व्यवहारो न सिध्यति ।
व्यावृत्तिभेदद्वारेणाप्येकस्यैवाभिधानतः ॥ ११७ ॥
539
जिनादिनामभेदेन कायाः स्युः शतमन्यथा ।
न च बुद्धो जिनस्येति व्यवहारोऽस्ति कुत्रचित् ॥ ११८ ॥
धर्मिणो धर्मवाची तु भिदेव व्यवहारभाक् ।
धात्र्यास्तरोर्वा तरुता न तु धात्री तरोरिति ॥ ११९ ॥
धर्ममात्रे मते बुद्धे बुद्धो धर्मस्य युज्यते ।
बुद्धस्य धर्मकायस्तु धर्मस्तस्य गुणो यदि ॥ १२० ॥
तथा सति निराकारः कायस्तुर्यसमश्च ते ।
गणनीया न वा हानात् संभोगेन तनुत्रयी ॥ १२१ ॥
समः सूक्ष्मश्च संबद्धः कायः स्वाभाविको मतः ।
इति चोद्यं विरुध्येत संबद्धपदवर्णने ॥ १२२ ॥
सांभोगिकेन कायेन संबद्ध इति भाष्यतः ।
संभोगे सति तद्धर्मस्तेन संबन्धमर्हति ॥ १२३ ॥
तदभावे न तादात्म्यं भावेऽप्यत्यन्तभेदतः ।
संभोगबुद्धताहेतुरिति तत्रैव कीर्तनात् ॥ १२४ ॥
कार्यकारणभावश्चेत् कार्य नावस्तु कस्यचित् ।
अवस्तुधर्मतामात्रं कथं हेतुरपीति चेत् ॥ १२५ ॥
न मध्यान्तनये भाष्ये तदालम्बनतोद्गता2610
तद्धेतुतोक्तो धर्माणां टीकैवं तत्र तत्र च ॥ १२६ ॥
तदंशो वा पृथक्कृत्य सन् पुरापि तथोच्यते ।
यथा विक्रम एवास्य राज्ञः सर्वार्थसाधकः ॥ १२७ ॥
निराकारात् क्वचिज्जन्म कस्यचिन्नोक्तमात्मनि ।
सूत्रालंकारगदितं दूषणं तुल्यमत्र तु ॥ १२८ ॥
प्रतीत्यभावप्रभवेऽप्ययं जनः
समक्षवृत्ति श्रयतेऽन्यकारितम् ।
540
तमःप्रकारः कतमोऽयमीदृशो
यतो विपश्यन् सदसन्निरीक्षते ॥ १२९ ॥
कर्ता भोक्ता च दृष्टेभ्यो भिन्नोऽहङ्कारगोचरः ।
निरञ्जनस्तदेकावशेषा मुक्तिश्च योगिनाम् ॥ १३० ॥
इत्यात्मवाद एवायं न च नित्योऽक्रियादृशः ।
स्वभावनित्यता प्राप्ता धर्मकायतयास्य च ॥ १३१ ॥
प्रकृत्याश्रंसनेनापि प्रबन्धे128b न च नित्यता ।
अत्र स्वाभाविके तस्यार्थस्य भाष्येण योजनात् ॥ १३२ ॥
कार्यभ्रमव्यवस्थायां यः स्वाभाविक एव सः ।
धर्मकाय इति प्रोक्तो व्यवदानव्यपेक्षया ॥ १३३ ॥
स्वभावः शून्यता धर्मः संभोगः सुगतः स्वयम् ।
तस्यान्तरेतरगुणौ भित्त्वा कायचतुष्टयी ॥ १३४ ॥
त्रिकाये धर्मकायोक्तिर्वक्ति स्वाभाविकं वपुः ।
संभोगांशचतुष्ट्वेऽन्तर्निर्माणं शेषमत्र च ॥ १३५ ॥
सर्वत्रानुगतं यद्वन्निर्विकल्पतया नभः ।
चित्तप्रकृतिवैमल्यधातुः सर्वत्रगस्तथा2611 ॥ १३६ ॥
इति चोत्तरतन्त्रेण मुख्यं व्यापित्वमीरितम् ।
संपूर्ण आत्मवादोऽयं व्यक्तो वेदान्तवादिनाम् ॥ १३७ ॥
धर्मतायास्तु नित्यत्वव्यापकत्वादि सांवृतम् ।
स्वाभाव्येऽपि यथाकल्पं प्रसिद्धं क्षणितादिवत् ॥ १३८ ॥
विना विशेषं न न्यायो वस्तुनस्त्वेष हीयते ।
अत एवाभिसमये तच्छंकावारणं विभौ ॥ १३९ ॥
इति कारित्रवैपुल्याद् बुद्धो व्यापी निरुच्यते ।
अनुच्छेदाच्च तस्यैव नित्य इत्यपि कथ्यते ॥ १४० ॥
541
योज्यं न च तदेवात्र प्रकृत्या नित्यतोदिता ।
स्वाभाविकाधिकारे हि वस्तुरूपस्ततो न सः ॥ १४१ ॥
विश्वकार्यं च संभोगे शुद्धिस्तद्विरहे यदा ।
प्राग्वद् विरोधः संशुद्धिसत्त्वार्थौ न च शाश्वतौ ॥ १४२ ॥
यदि नास्ति निराकार आत्मना चास्य तुल्यता ।
स एवायं धर्मकाय इत्युपक्रम्य भूभुजा ॥ १४३ ॥
संक्लेशोपचयध्वंसात्यन्तध्वंसैः क उत्तरे ।
तन्त्रे प्रकाशितः सत्त्वबोधिसत्त्वजिनात्मकः ॥ १४४ ॥
धर्मकायो द्विधा ज्ञेयो धर्मधातुः सुनिर्मलः ।
तन्निष्यन्दश्च गाम्भीर्यवैचित्र्यनयदेशना2612 ॥ १४५ ॥
इति व्याख्यापि तत्रैव किं तु धर्मेण धर्मिगीः ।
प्रस्तुतो धर्मकायस्तु धर्मधातुः सुनिर्मलः ॥ १४६ ॥
तथाता भूतकोटिश्चानिमित्तं परमार्थता ।
धर्मधातुश्च पर्यायाः शून्यतायाः समासतः2613 ॥ १४७ ॥
इति मध्यान्तवीभागे धर्मधातुश्च वर्णितः ।
ज्ञेयः सपरिनिष्पन्नस्तत्त्वं धातुरनाश्रवः ॥ १४८ ॥
शून्यता च द्वयेनोक्ता तत्र क्लेशदशावशात् ।
परतन्त्रगुणो ज्ञेयः संभोगस्य मलक्षये ॥ १४९ ॥
सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता अनाश्रवाः ।
स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः ॥ १५० ॥
अत्रापि चाभिसमयालङ्कारे न विरुध्यते ।
प्रकृतिः कारणं यस्मात् तत्त्वं च प्रतिपादितम् ॥ १५१ ॥
यद् वा स्वभावः प्रतिपद्धर्माणां शून्यतैव सा ।
सर्वेषां च मता बुद्धप्रस्तावात्तु विशुद्धवाक् ॥ १५२ ॥
542
न शुद्धिसंगृहीतोऽपि संभोगो गणितो गणे ।
पृथक्कायो हि वाच्योऽसौ धर्मस्तस्य कथं तदा ॥ १५३ ॥
मुख्यत्वान्न तु तस्यैव शेषः परिकरोऽस्य हि ।
एकज्ञानात्मकत्वेन तद्ग्रहेणैव गृह्यते ॥ १५४ ॥
भोगः प्रतिष्ठाकारौ च ततो भिन्नौ न यद्यपि ।
अन्यवद्व्यवहारस्तु सांवृतः पुरुषाद्भिदा ॥ १५५ ॥
इति धर्मकायस्वरूपचिन्तापर्यन्तप्रवचन
मार्यासङ्गयुवराजोक्तिनिर्णयो
द्वितीयः ॥
543
  1. तुल० सा० सि० शा० पृः ४३२

  2. म. वि. सू. १. ९

  3. मध्यान्तविभागसूत्रे पृः २१

  4. ग्रहप्रकार० इति मातृकायाम् ।

  5. उ. त. ४. ७३-४

  6. पृष्टमिदं दुष्पठम् ।

  7. ये इति मातृकायाम् ।

  8. उ. त. ३. १

  9. ०त्वात् सत्प्र० त्नाकरे त्व०

  10. उ. त. १. १५१. २

  11. तत्रैव २. ५३

  12. तत्रैव ४. ५३. ४

  13. पृष्ठमिदं मातृकायां दुष्पठम् ।

  14. ०तोद्भवतेति मातृकायाम् ।

  15. उ. त. १. ४९

  16. उ. त. १. १४५

  17. म. वि. १. १५