132a आकारो नोपकारापकारयोः ।
कादाचित्कः स्फुरन्नर्थसमर्थो वा मृषा कथम् ॥ १५२ ॥
एतत्स्वरूपबाधे हि बाधकोऽप्यस्य किंकरः ।
ततः स्वयं प्रकाशात्मा शुद्धो वा क्लिष्ट एव वा ॥ १५३ ॥
अलीकमात्रं सदपि न हि क्वापि विबन्धकृत् ।
विबन्धकत्वेऽलीकत्वमेवालीकं प्रसज्यते ॥ १५४ ॥
गोचरान्तरसञ्चारो नेष्ट एव क्व बन्धकृत् ।
स्वसंवित्तौ पुनस्तस्य शतेनापि न बन्धनम् ॥ १५५ ॥
स्ववित्तिबन्धे हि जडः प्रकाशश्च स्वहेतुतः ।
इत्ययुक्तमतोऽशक्यं स्वाभेदेनापि वेदनम् ॥ १५६ ॥
स्वहेतोश्च तथोत्पत्तिर्वेदनं च तदात्मना ।
भावैः स्वीकृतमेकत्वं वादिनां महती व्यथा ॥ १५७ ॥
तन्नालीकोऽयमाकारः स्पृशत्येनं स्फुरन्नपि ।
तावताप्यस्य संक्लेशे सन्तानान्तरतो न किम् ॥ १५८ ॥
वस्तुसन्नपि सन्तानभेदस्तस्य न बाधकः ।
असत्यः पुनराकारो बाधायेति किमप्यदः ॥ १५९ ॥
तत्प्रवृत्तिनिवृत्तिभ्यां संसारो नाम नापरः ।
2622तत्त्वावसायभेदेषु प्रतिबन्धे प्रसाधिते ॥ १६० ॥
विशेषश्चावसायानामाकारात्परतो न च ।
जलाकाराद् विसंकल्पाज्जल एव प्रवर्तते ॥ १६१ ॥
  1. ते, चाव० इति मातृकायाम् ।