559
भातमेव पुरा वस्तुविधावध्यवसीयते ।
निषेधोऽपि स्वभावार्थः पर्यन्ते पर्यवस्यति ॥ १२ ॥

अन्तरश्लोकौ ॥

परेण विषयाभावज्ञापनं सपदीष्यते ।
स्वार्थे प्रवृत्तिमज्ज्ञानमभावं गमयेत् कथम् ॥ १३ ॥
स्वगोचरोपस्थानेन विषयान्तरबाधने ।
स्वगोचरस्य तेनापि स्थानात् किं नास्य बाधनम् ॥ १४ ॥
तदर्थकर्महानेश्चेद् भिन्ना सार्थक्रिया यदि ।
अन्यहानेऽन्यहानिः किमभेदे तु स्फुरत्यसौ ॥ १५ ॥
रूपं समीक्ष्य दाहादिहानेः स्पर्शस्य बाधनम् ।
न च स्पर्शः स्फुरत्यत्र बाधा सैवास्य किं परैः ॥ १६ ॥
विषयीकृतमन्यद्वा बाध्येत प्रथमं यदि ।
स्फुरदेव कथं बाध्यमस्फूर्तौ बाधकेन किम् ॥ १७ ॥
न बाधा भिन्नकालत्वे स्वस्वकाले स्फरत्तया ।
तथैव कालाभेदेऽपि नीलपीतसितादिवत् ॥ १८ ॥
तस्मादारोपवद् बाधः प्रतीत्योत्पादभेदतः ।
कल्पितो न तु तत्त्वेन स्वविन्मात्रे तु का कथा ॥ १९ ॥
यावन्न सिद्धिः स्वविदो बाधकं तावदस्तु चेत् ।
निरूप्य स्वविदोऽसिद्धिं बाधस्तर्हि प्रवर्तताम् ॥ २० ॥
पूर्वं प्रवर्तनारम्भे प्रतिज्ञाबाधमक्षतः ।
यदि ब्रूयात् परज्ञाननिषेधे स्वविदागता ॥ २१ ॥
यथायथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ।
स्वयं तु वित्तिश्छायेव धावतोऽप्यनतिक्रमा ॥ २२ ॥
अतएव निषेधस्य प्रक्रमेऽपि जगौ गुरुः ।
यदीदं स्वयमर्थानां रोचते तत्र के वयम् ॥ २३ ॥