60

क्षणभङ्गाध्याये
तृतीयः पादः—व्यतिरेकाधिकारः

नाप्यनैकान्तिकशङ्का, सर्वोपसंहारवत्या व्याप्तेः प्रसाधनात् । ननु विपर्यय
बाधकप्रमाणवशाद्948 व्याप्तिसिद्धिः, तस्य949 च नोपन्यासवार्ता । तत् कथं व्याप्तिः
प्रसाधितेत्युच्यते ? 950तदेतदुपरिपरिप्लवमानतरलतरबुद्धिविलसितम् । तथा ह्यक्तमेतत्,
कर्तुः सा न क्रिया अन्यदापि, किं तु परक्रिया अक्रियैव वा । अतएव951 प्रकारद्वयेऽपि
क्षणभङ्गस्य सङ्गतिरवश्यम्भावस्तन्मात्रानुबन्ध इति यावत् । तच्च प्रसाधितमतः साध्येन
व्याप्तैव सा अर्थक्रियाशक्तिरिति ।

नन्वेवमन्वयमात्रमस्तु, विपक्षात्पुनरेकान्तेन व्यतिरेक इति कथं लभ्यमिति
चेत् ? व्याप्तिसिद्धेरेव । व्यतिरेके व्याप्तिसिद्धिरेव कथमिति चेत्—न, द्विविधा
हि व्याप्तिः, अन्वयरूपा च कर्तृधर्मः साधनवति धर्मिणि साध्यस्यावश्यम्भावो यः,
व्यतिरेकरूपा च कर्मधर्मः साध्याभावे साधनस्यावश्यमभावो यः, व्याप्तिर्व्यापकस्य
तत्र भाव एव व्याप्यस्य वा तत्रैव भाव इति न्यायात् । 952एनयोश्चैकसिद्धिर्नियमेन
द्वितीयप्रतीतिमाक्षिपति । अन्यथा एकस्याप्यसिद्धेः । केवलं साक्षादेकत्र प्रमाण
व्यापारोऽन्यत्र नान्तरीयकतया प्रतीतिरिति 953तावतैवैकव्यपदेशः । तथा च सत्येकत्र
प्रमाणप्रवृत्तेः पूर्वमन्यत्र संशयः प्रवर्तमानोऽपि पश्चात्तन्या954 तया निरस्यते । यथा
विपर्ययबाधकप्रमाणवादिनामन्वयः सन्दिह्यमानोऽपि विपक्षादेकान्तेन व्यावृत्तिबलात्
निरस्तसंशयः पर्यवस्यत्यक्षणिके सर्वथाऽनुपपद्यमानेयं सत्ता क्षणभङ्गनियतैवेति, एवं
सत्तावतः प्रतिक्षणं नियतस्वभावभेदोपस्थापनात् तदभावेऽपि सत्तासंशयक्षणः पूर्वप्रवृत्तोऽपि
स्वयमेव परिगलति955 । क्रियावता चेदवश्यं क्षणभङ्गुरेण भाव्यम्, क्षणिकत्वव्यतिरेके
956भवत्येव नियतं सत्तेति ।

  1. ०बाधप्र० र

  2. सिद्धस्तस्य र

  3. ०दुपरिप्लव० र

  4. अत्र च र

  5. एतयोश्च र

  6. ०तैकैक० र

  7. पाठोऽस्पष्टः अ

  8. परिगवति र

  9. संभवत्तेन निय० र