107

क्षणभङ्गाध्याये
चतुर्थः पादः—अहेतुकविनाशाधिकारः

अन्वीतिव्यतिरेकमाकलयताऽध्यक्षेण धूमाग्निवद्
1617दृश्यादृष्टिप्रभूतहेतुफलता1618 सिद्धा विनाशाङ्गयोः ।
तत्प्राक् कारणसन्निधेः फलमसन्नाशस्तनोति स्थितिं
तावन्तं किल1619 कालमित्यपि मृषा नाशः स्वरूपादृशः ॥

नहीदन्तया नाशस्य स्वरूपमुपलब्धिगोचरं1620 येनान्वयव्यतिरेकनिश्चयात्
कारणाभिमतमुद्गरादिसन्निधेः प्राक् नाशाख्यं कार्यमभवत् तावन्तं कालं भावस्य
स्थैर्यमापादयेत्, यावता नाशस्य स्वभावानुपलब्धेर्मृषैव कल्पनेयमिति कुतः
कारणानुपलब्ध्या स्थैर्यसिद्धिः ?

ननु घटमुद्गरादयो दृश्यन्ते तावत् तेष्वेव कश्चिन्नाशो नामेति नाशस्वरूपानुप
लब्धिरसिद्धेति चेत् ?

दृष्टस्यावदयं घटोऽत्र च पतन् दृष्टस्तथा मुद्गरो1621
दृष्टा कर्परसंहतिः1622 परमतोऽभावो न 1623दृष्टोऽपरः ।
तेनाभाव इति
  1. दृष्ट्या र

  2. प्रभून० ? अ

  3. किलेति नास्ति आ

  4. ०गोचरो अ

  5. मुरो आ

  6. दृष्टो अ

  7. दृष्टः परः अ