159
नो मार्गमाचार्यरवेरपेक्ष्य च
क्षणिग्रहेऽस्माकमथ क्रमो यतः ।
यथा च भाष्योक्तिसमन्वयस्तथा
न गीतमप्रस्तुतविस्तराद् भिया ॥

तदलमानुषङ्गिककथानिर्बन्धेन । स्थितमेतन्न विनाशो नाम परिघादिभ्यो भिन्नः
कश्चिन्मुद्गरादिसाध्यो यस्तदनुपनिपातदशायामभवन्2419 भावस्य स्थैर्यसिद्धिमनोरथं
परिपूरयेदिति ।

2420दुर्नीताश्रमवेदिकादृढतरस्तम्भानमून् शङ्कर
2421न्यायालङ्करणत्रिलोचनवचस्पत्याह्वयान्2422 हेलया ।
उन्मूल्य क्षणभङ्ग एष विहितो यत्पुण्यमाप्तं मया
तेन2423 स्यात् परपारगस्त्रिभुवने2424 ज्ञानश्रियोऽयं जनः ॥

॥ अहेतुकविनाशाधिकारो नाम चतुर्थः पादः समाप्तः2425

॥ समाप्तश्चायं क्षणभङ्गाध्यायः ॥
  1. ०स्तमुप० अ

  2. उन्नीता० अ

  3. ०लङ्कारण आ

  4. प्रत्याह्व० अ

  5. मल्यमाधत्तमेतेन

  6. ०भुने अ

  7. समाप्तः इति नास्ति आ