श्रुतिविरुद्धस्मृतीनामप्रामाण्याधिकरणम्

स्मृतिप्रामाण्यमुत्सृष्टं प्रसक्तं सर्वगोचरम् ।
सति वेदविरुद्धत्वे तदिदानीमपोद्यते ॥
विरोधे त्वनपेक्षं स्यादसति ह्यनुमीयते ।
विरोधे वेदवाक्येन तेन चार्थेऽनधिष्ठिते ॥

यावती स्मृतिः प्रत्यक्षवेदवाक्यविरुद्धा तां सर्वामुदाहृत्य संप्रधार्यते । किं पुनस्तादृश्यपि धर्मप्रमाणत्वेनावधार्यते । किं वा पर्युदस्यत इति । कुतः संशय इति चेदुच्यते ।

169
विरोधपरिहाराद्वा सति वा तुल्यमूलतः ।
अबाधो वा भवेदस्या बाधो वा तद्विपर्ययात् ॥

एकविषये विरुद्धार्थोपसंहारिणी विज्ञाने विरुध्येते बलवदबलवत्त्वनिर्णयाच्च बाध्यबाधकभावं प्रतिपद्येते । तद्यदि शङ्कितविरोधयोरपि श्रुतिस्मृत्योः केनचित्प्रकारेण भिन्नविषयत्वेन व्यवस्था सिध्येत् । विधेयप्रतिषेध्ययोर्वा विरोधाभावादेकस्मिन्नपि विषये समुच्चयसंभवादेकप्रयोगगतत्वासंभवाद्वोभयोः प्रामाण्याङ्गीकरणेन प्रयोगान्तरे चोभयानुग्रहः स्यादित्येवं विकल्पाश्रयणेऽप्यत्यन्तविरोधाभावात्प्रत्यक्षानुमितश्रुतिजनितज्ञानयोश्च वैदिकत्वाविशेषे तुल्यबलत्वकल्पनादुभयप्रामाण्यमुपपत्स्यते । ततो यथोपन्यस्तविषयेऽपि स्मृतिप्रामाण्यमपेक्षितव्यम् । अथ तु प्रयत्नेनान्विष्यमाणेऽपि न विषयान्तरकृता व्यवस्था नापि प्रमेयाविरोधात्समुच्चयो नापि विकल्पेनोभयानुग्रहः किं तर्ह्युभयपीडनादत्यन्तविरोध एव । प्रत्यक्षानुमेयश्रुत्योश्च लौकिकप्रत्यक्षानुमानवन्महान्बलविशेषस्तदा गत्यन्तराभावादभयानुग्रहासंभवे श्रुतिबलीयस्त्वेन स्मृतिप्राभाण्यमुपेक्षणीयं भविष्यतीति ।

किं तावत्प्राप्नुयादत्र विरोधेऽपि प्रमाणता ।
अप्रामाण्यप्रसङ्गे हि मर्यादातिक्रमो भवेत् ॥

अनाशङ्कितविप्रलम्भभ्रान्त्यादिमूला ह्यव्याहतवेदमूलत्वावधारणाः स्मृतयो निर्व्याजप्रामाण्याः शक्यन्ते धर्मव्यवहाराङ्गत्वेन स्थापयितुम् । यदा तु वेदविरुद्धत्वहेतुदर्शनपरस्परविगानादिना केनचिदपि च्छलेनाऽऽसामप्रामाण्यं कल्प्यते तदा बहुशाखाखिलप्रकरणादिभेदभिन्नेषु वेदेषु श्रुतिलिङ्गाद्यात्मकोपदेशनामादिद्वारातिदेशात्मकविचित्रप्रमाणभागेषु19 को जानाति का स्मृतिः कीदृशेन वेदभागेन विरुध्यमाना कदाऽनुमास्यत इति । अतश्चैवं जाताशङ्कैर्नैव क्वचिदपि विश्वस्येत । अविश्वासाच्चात्यन्तमेव प्रामाण्यं प्रतिहन्येत । तथा हि—

कदाचिच्छ्रुतिमूलत्वमुक्वा भ्रान्त्यादिमूलता ।
स्मृतिभिः प्रतिपन्ना चेत्कस्तामिन्द्रोऽपि वारयेत् ॥
170
एकमूलव्यवस्थायां मूलान्तरनिराक्रिया ।
अप्रमाण्यनिवृत्त्यर्थं शक्या न तदुपेक्षणे ॥

किं च—

परस्परविरुद्धत्वं श्रुतीनां न भवेद्यदि ।
स्मृतेः श्रुतिविरुद्धायास्ततो मूलान्तरं भवेत् ॥

यदा तूदितानुदिताग्निहोत्रहोमविधिवदतिरात्रगतषोङशिग्रहणवच्च सहस्रशः श्रुतयोऽप्यसंभवद्युगपदनुष्ठानार्थतया परस्परविरुद्धा दृश्यन्ते तदा यदि नाम कासां चित्स्मृतीनां स्ववेदशाखागतवचनविपरीतार्थशाखान्तरवचनमूलानामधीतवाक्यविरोधो दृश्यतेऽतस्तावतैव सर्वशाखाप्रत्ययकर्मव्यवहारिणां स्वयमश्रुतानधीतत्वमात्रेण दृढस्मरणोपस्थापितपुरुषान्तरस्थ श्रुतिनिराकरणं न शोभते न चैकं 20 प्रतिशिष्यत इति हि सर्वश्रुतीनां सर्वपुरुषान्प्रति प्रामाण्यादध्ययनवच्च स्मृतेरपि श्रुतिधारणसामर्थ्यात् ।

तस्माद्यथा विरोधेऽपि पठयमानप्रमाणता ।
पठितस्मर्यमाणानां तथैवेत्यवधार्यताम् ॥

किं च ।

अविरोधे श्रुतिर्मूलं न मूलान्तरसंभवः ।
विरोधे त्वन्यमूलत्वमिति स्यादर्धवैशसम्21 ।
मूलान्तरं निरस्तं च सामान्येनैव यत्पुरा ।
तदनुप्राण्यते पश्चाद्विरोधे नेत्यतिक्रिया22 ।
तेनाऽऽसां श्रुतिमूलत्वं सर्वदैव व्यवस्थितम् ।
मूलान्तरप्रवेशे वा किं तत्प्रामाण्यतृष्णया ॥
किं च भ्रान्त्यादिमूलानां संभवासंभवाश्रयः ।
स्मृतीः प्रतिविरुद्धोऽयं बाधपक्षो न युज्यते ॥
तेनाऽऽसां यदि वा नैव क्वचिदस्ति प्रमाणता ।
सर्वत्राव्याहता वा स्यान्न त्वर्धजरतीयता23 ॥
विरुद्धत्वं च जानन्ति स्मर्तारस्ताः स्मरन्ति यत् ।
वेदमूलबलं त्यक्त्वा किमन्यत्तत्र कारणम् ॥
171
गृह्यमाणनिमित्तत्वाद्यद्युच्येताप्रमाणता ।
उत्प्रेक्षणीयहेतुत्वात्सा सर्वत्र प्रसज्यते ॥
रागद्वेषमदोन्मादप्रमादालस्यलुब्धताः ।
क्व वा नोत्प्रेक्षितुं शक्याः स्मृत्यप्रामाण्यहेतवः ॥
अदुष्टेन हि चित्तेन सुलभा साधुमूलता ।
दुष्टमूलात्वलाभस्तु भवत्याशयदोषतः ॥
का वा धर्मक्रिया यस्यां दृष्टो हेतुर्न युज्यते ।
कथंचिद्वा विरुद्धत्वं प्रत्यक्षश्रुतिभिः सह ॥
लौकायतिकमूर्खाणां नैवान्यत्कर्म विद्यते ।
यावत्किंचिददृष्टार्थें तद्दृष्टार्थं हि कुर्वते ॥
वैदिकान्यपि कर्माणि दृष्टार्थान्येव ते विदुः ।
अल्पेनापि निमित्तेन विरोधं योजयन्ति च ॥
तेम्यश्चेत्प्रसरो नाम दत्तो मीमांसकैः क्वचित् ।
न च कंचन मुञ्चेयुर्धर्ममार्गं हि ते तदा ॥
प्रसरं न लभन्ते हि यावत्क्वचन मर्कटाः ।
नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥
क्वचिद्दत्तेऽवकाशे हि स्वोत्प्रेक्षालब्धधामभिः ।
जीवितुं लभते कस्तैस्तन्मार्गपतितः स्वयम् ॥
तस्माल्लोकायतस्थानां धर्मनाशनशालिनाम् ।
एवं मीमांसकैः कार्यं न मनोरथपूरणम् ॥
यच्चाऽऽदौ श्रद्धया सिद्धं पुनर्न्यायेन साधितम् ।
आज्ञासिद्धप्रमाणत्वं पुराणादिचतुष्टयम् ॥
तत्तथैवानुमन्तव्यं कर्तव्यं नान्तरा श्लथम् ।
सर्वं श्लथयतः सीदेद्दुर्नद्धशकटादिवत् ॥
पक्षो योऽङ्गीकृतो येन तमत्रस्यन्स निर्वहेत् ।
हारयेदन्तरा त्रस्यन्मीतोपद्रवकारिभिः ॥
वेदश्च यदि दृष्टार्थं श्रूयमाणविरोधि वा ।
न विदध्यात्ततस्तादृक्स्मृतिस्तन्मूलतां त्यजेत् ॥
यदा तु हन्तिपिष्यादिकर्म दृष्टं सहस्त्रशः ।
दृष्टार्थं विहितं वेदे तदा किं हेतुदर्शनैः ॥
172
ऋत्विग्म्यो दक्षिणादानं तानूनप्त्रादिकर्म च24 ।
यदृत्विग्यजमानानां दृष्टार्थं सर्वमिष्यते ॥
तद्यद्यवैदिकं तादृक्स्यात्ततोऽन्यदवैदिकम् ।
यदा चैवंविधान्येव वेदे कर्माणि सन्ति नः ॥
तदा किं नाम दृष्टार्थं बुद्ध्या सिध्येदवैदिकम् ।
तेनाऽऽदावेव या कॢप्ता स्मार्तानां वेदमूलता ॥
निर्वोढव्येह सैकान्तात्किमिदं खिद्यतेऽधुना ॥
तस्माद्वेदविरुद्धानां दृष्टार्थानां च हेतुभिः ।
स्मृतीनां न प्रमाणत्वं विहन्तव्यं मनागपि ॥
अविशिष्टं प्रमाणत्वं सर्वासां प्राप्तमीदृशम् ।
विरोधेऽप्यधुना युक्तमेवं प्राप्तेऽभिधीयते ॥
विरोधे त्वनपेक्षं स्यात्प्रामाण्यं स्मृतिबन्धनम् ।
अविरोधे हि वेदेन तन्मूलमनुमीयते ॥
या तु वेदविरुद्धेह स्मृतिः काचन दृश्यते ।
सा तु स्याद्भान्तिमूलैव न स्पष्टश्रुतिमूलिका ॥
स्वातन्ञ्येण प्रमाणत्वं स्मृतेस्तावन्न संमतम् ।
वेदमूलानुमानं च प्रत्यक्षेण विरुध्यते ॥
वेदवाक्यानुमानं च तावदेव प्रवर्तते ।
तदर्थविषयं यावत्प्रत्यक्षं नोपलभ्यते ॥
प्रत्यक्षे श्रूयमाणे तु न विद्येतानुमानिकम् ।
न हि हस्तिनि दृष्टेऽपि तत्पदेनानुमेष्यते ॥
स्मृतीनां श्रुतिलिङ्गत्वमस्ति हस्तिपदादिवत् ।
तत्प्रत्यक्षविरुद्धत्वे तद्वदेव निवार्यते ॥
तावदेव स्फुरन्त्यर्थाः पुरस्तादानुमानिकाः ।
यावत्प्रत्यक्षशास्त्रेण मूलमेषां न कृत्यते ॥
कृत्तमूलाः स्फुरन्त्योऽपि स्मृतयो न चिरायुषः ।
निराधारत्वदोषेण शाखा इव वनस्पतेः ॥
न हि साक्षात्प्रमाणत्वं स्मृतीनामुपपद्यते ।
नान्यमूलं यतस्तत्स्यात्तत्तु मूलं न विद्यते ॥
173
प्रत्यक्षप्रतिबद्धा हि श्रुतिर्नास्त्यानुमानिकी ।
नैराकाङ्क्ष्यात्प्रमातॄणामनुमानं न लभ्यते ॥
प्रमेयं यत्परिच्छेद्यं भवेत्केनचिदान्मना ।
तस्य स्यात्तत्परिच्छेदात्सावकाशप्रमाणता ॥
ताद्रूप्येण परिच्छिन्ने तद्विपर्ययतोऽपि वा ।
भूयस्तास्मिन्प्रमेये हि न प्रमाणं प्रवर्तते ॥
भिन्नकक्षागते ये च प्रमाणे तत्र धावतः ।
तयोः शीघ्रेण निर्णीते मन्थरं न प्रवर्तते ॥
तद्धि दूरमपि प्राप्तमेकमप्यगतं पदम् ।
इतरेण गतेनाऽऽदावेकान्तेनैव जीयते ॥
यत्र शीघ्रतरं नास्ति तस्यार्थस्यापहारकम् ।
चिरेणापि व्रजेत्तत्र दुर्बलं न निवार्यते ॥
न हि येन प्रमाणत्वं लब्धपूर्वं कदाचन ।
तेन तत्सर्वदा लभ्यमित्याज्ञापयतीश्वरः ॥
सर्वमुत्पद्यमानं हि यद्यन्येन विरोधिना ।
न रुध्यते ततस्तस्य सिद्धिः कालेन लभ्यते ॥
यस्य तूत्पद्यमानस्य मूलमेव निकृत्यते ।
मुखं वा रुध्यते तस्य नाऽऽत्मलाभः कदाचन ॥
न च यद्बलवद्रुद्धमात्मानं नैव विन्दति ।
अविरोधेऽपि तेनाऽऽत्मा न लब्धव्यः कथंचन ॥
न चापि बाधकाभावाल्लब्ध आत्मेति सर्वदा ।
लब्धव्यः स विरोधेऽपि पूर्वसामान्यदर्शनात् ॥
उत्सर्गश्चापवादश्च सर्वत्रैवोपलभ्यते ।
तत्र नोत्सर्गमात्रेण सर्वमेवावरुध्यते ॥
अपवादेन वा यस्मादुत्सर्गो बाधितः क्वचित् ।
तस्मात्सर्वत्र बाध्योऽसावित्येतदपि नेष्यते ॥
विषयाविषयौ ज्ञात्वा तेनोत्सर्गापवादयोः ।
बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात् ॥
174
यो हि सामान्यदृष्टेन व्यवहारं निनीषति ।
तृष्णाच्छेदो भवेत्तस्य मृगतृष्णाजलैरपि ॥
बाधितां मृगतृष्णां वा दृष्ट्वा ह्रदगतोऽप्यसौ ।
विप्रलम्भभयादेव न स्नानादि समाचरेत् ॥
तावदेव हि तोयादिज्ञानस्येष्टा प्रमाणता ।
न तोयं मृगतृष्णेयमिति यावन्न बुध्यते ॥
अनुमानं प्रमाणं च तावदर्थेषु जायते ।
रुध्यते विषयो यावन्नास्य प्रत्यक्षजन्मना ॥
एवं स्मृतिप्रमाणत्वे तावच्छुत्यनुमानजम् ।
यावत्प्रत्यक्षया श्रुत्या विषयो नावरुध्यते ॥
अतः क्वचित्प्रमाणत्वं क्वचिदप्यप्रमाणताम् ।
व्यवस्थापयता न्यायैर्न भवेदर्धवैशसम् ॥
प्रमाणत्वाप्रमाणत्वे प्रत्यक्षमृगतृष्णयोः ।
यथा तथैव ते स्मृत्योरविरुद्धविरुद्धयोः ॥
तस्मादेवं न वक्तव्यं सर्वासां वा प्रमाणता ।
अथ वा सा न कस्याश्चिद्यदि क्वचिदनाश्रिता ॥
तेन वेदविरुद्धानां स्मृतीनामप्रमाणता ।
रुद्धश्रुत्यनुमानत्वादन्यमूला हि ता यतः ॥
विकल्पः । किं पुनस्तासां नेष्यते श्रुतिभिः सह ।

उच्यते ॥

विकल्पस्याष्टदोषत्वान्न तावत्स्वभ्युपेयता ।
पाक्षिके चाप्रमाणत्वे स्मृतयः सुनिराकराः ॥

तुल्यबलविकल्पो हि तावदष्टदोषत्वादगतिकगतिन्यायेन क्वचिदेवाऽऽश्रीयते । किमुत कक्षान्तरितप्रामाण्याविषमशिष्टविकल्पः । तथा हि ।

प्रमाणपदवीं यावन्नाऽऽरोहत्येव हि स्मृतिः ।
बाध्यते तावदत्यन्तं श्रुत्याऽन्यनिरपेक्षया ॥
175
स्मृतेर्धर्मप्रमाणत्वं न तावत्स्वत इष्यते ।
तुल्यकक्षतया येन विकल्पपदवी व्रजेत् ॥
पराधीनप्रमाणत्वान्न प्रमाणपदे स्थिता ।
श्रुत्या बाधितमात्राऽसौ पुनर्न्नोज्जीवितुं क्षमा ॥
तुल्यकक्षविकल्पोऽपि नाप्रामाण्येऽस्त्यकल्पिते ।
प्रमाणस्याप्रमाणत्वकल्पना च द्विदोषभाक् ॥
प्रमाणत्वं प्रतीतं यदुज्ज्वलत्तदपह्नुतम् ।
एकस्तावदयं दोषः स्यात्प्रतीतिविपर्ययात् ॥
तथा तदप्रमाणत्वं यदभावप्रमाणकम् ।
भावे सत्यथ भावेन विनैव परिकल्प्यते ॥
सोऽपि स्यादपरो दोषः प्रमाणार्थविपर्ययात् ।
अङ्गीकृत्यापि तौ दोषौ पूर्वं केनापि हेतुना ॥
प्रयोगान्तरकाले तु पुनर्दोषद्वयं भवेत् ।
यदभावप्रमाणत्वं पूर्वमेतस्य कल्पितम् ॥
संप्रत्यपह्नुवानस्य दोष एको हि जायते ।
प्रत्यक्षं दृढरूपं च यत्पुरस्तान्निराकृतम् ॥
एष जायेत दोषोऽन्यस्तदुज्जीवयतः पुनः ।
एवमेकत्र चत्वारो दोषा वाक्ये प्रदर्शिताः ॥
एत एव प्रसज्येरन्द्वितीयेऽपि प्रकल्पिते ।
एवमेषोऽष्टदोषोऽपि यद्वीहियववाक्ययोः ॥
विकल्प आश्रितस्तत्र गतिरन्या न विद्यते ।
व्रीहिशास्त्रप्रवृत्तौ हि यवशास्त्रेण कृष्यते ॥
श्रोता तत्र प्रवृत्तोऽपि व्रीहिशास्त्रेण कृष्यते ।
द्वाभ्यामश्वमुखीवच्च श्रुतिभ्यामभितः समम् ॥
श्रोतुराकृष्यमाणस्य बलाबलमपश्यतः ।
एकस्मिन्नुपसंहर्तुं बुद्धिं युक्त्या न पश्यतः ॥
उभयोरप्रमाणत्वं प्रतिघातात्प्रसज्यते ।
तत्र प्रामाण्ययोग्यस्य यदप्रामाण्यकल्पनम् ॥
तदनन्यगतित्वेन तथाऽप्यभ्युपगम्यते ।
सति गत्यन्तरे त्वेतन्नैव कल्पनमर्हति ॥
176
एकस्य वा प्रमाणत्वं परिहर्तुं न शक्यते ।
तदप्रामाण्यमात्रे तु न द्वयोरप्रमाणता ॥
सिद्धो लोकप्रवादोऽयमेकानेकाविनाशिनाम् ।
सर्वनाशे समुत्पन्ने ह्यर्धं त्यजति पण्डितः ॥
स चायमुभयोर्नाश उभयार्थापरिग्रहात् ।
मिश्रैर्वा यजमानस्य मिश्राणां विध्यदर्शनात् ॥
नियमार्थे ह्युभे शास्त्रे यवव्रीह्योर्विधातृणी ।
प्राप्ते चान्यनिवृत्त्यंशः फलमर्थात्प्रतीयते ॥
व्रीहयो निरपेक्षा हि ज्ञायन्ते यागसाधनम् ।
यवाश्चैवमतस्तेषां मिश्रत्वं नावकल्पते ॥
नैव व्रीहिभिरिष्टं स्याद्यवैर्न च यथाश्रुतैः ।
मिश्रैरिज्येत चेत्तत्र भवेदुभयबाधनम् ॥
एवमप्रतिपत्त्यैव तुल्यैषा मिश्रतामतिः ।
तेनोभयाप्रमाणत्वाद्युक्तैकैकाप्रमाणता ॥
सेयमत्यन्तमन्याय्या द्वयोरप्यनवस्थितिः ।
अव्यवस्था न युक्ता हि व्यवस्था यत्र लभ्यते ॥
सर्वत्रैव ह्येकरूपत्वावधारणेन निरूपितरूपं व्यवहर्तुं शक्यम् ॥
तेन यस्य प्रमाणत्वं प्रमाणं सर्वदाऽस्तु तत् ।
यस्यापि त्वप्रमाणत्वमप्रमाणं तदुच्यताम् ॥

तदेव तु कदाचित्प्रमाणं कदाचिदप्रमाणमिति न कथं चिदपि विश्रम्भः स्यात्तदेतद्द्रीहियवश्रुत्योरत्यन्तापरिहार्यत्वादवश्यमापतितम् ।

न हि तत्रैकरूपत्वे चिह्नं किंचिव्द्यवस्थितम् ।
येनैकत्र प्रमाणत्वं स्यादन्यत्राप्रमाणता ॥
श्रुतिस्मृत्योः पुनः स्पष्टं व्यवस्थाकारणद्वयम् ।
येन श्रुतेः प्रमाणत्वं स्यात्स्मृतेश्चाप्रमाणता ॥
स्वरूपेण तयोस्तावत्प्रमाणत्वाप्रमाणते ।
ततोऽन्यापेक्षया स्यातामप्रामाण्यप्रमाणते ॥

यो यस्य स्वरूपाश्रयो धर्मः प्राप्तः स बलवता कारणान्तरेण विपर्ययं प्रतिपद्यते ।

न च श्रुतिजनितप्रत्ययस्य स्मृतिजनितो बाधकत्वं प्रतिपद्यते ।

177
स्मार्तस्य बाधकः श्रौतो बलवत्त्वात्प्रतीयते ।
प्रत्यक्षे चानुमाने च प्रागेतद्धयवधारितम् ॥
श्रुतिलिङ्गे यथा चेष्टे व्यवस्थितबलाबले ।
संनिकृष्टविकृष्टार्थे तथैवेह श्रुतिस्मृती ॥
स्मृत्या प्रतीयते यावच्छ्रुत्या तावत्प्रमीयते ।
विरुद्धधर्मतामेको न च धर्मः प्रतीच्छति ॥
न च शीघ्रहृतेऽर्थेऽस्ति चिरादागच्छतो गतिः ।
अश्वैरपहृतं को हि गर्दभैः प्राप्तुमर्हति ।
स्मृत्या चार्थं परामृश्य यावत्तद्विषयां श्रुतिम् ।
अनुमातुं प्रवर्तेत तावत्सोऽर्थोऽन्यतो गतः ॥
किं कर्तव्यमितीदं च कर्ता यावदपेक्षते ।
प्रमाणं क्रमते तावत्प्रमिते तन्न जायते ॥
युगपत्प्रमिमीयातां यदि चार्थं श्रुतिस्मृती
अगृहीतविशेषत्वात्स्यातां तुल्यबले ततः ॥
यद्वा यावच्छ्रुतेरर्थः साक्षादेव प्रतीयते ।
तस्मिन्नेव क्षणे मूलं कल्पयेत्स्वं स्मृतिः श्रुतिम् ॥
ततोऽर्थविप्रकर्षेऽपि प्रमाणत्वेन तुल्यता ।
भवेदेव श्रुतिस्मृत्योरर्थः श्रुतिपरिग्रहात् ॥
यतः स्मृत्या गृहीतेऽपि चिरेण श्रुतिकल्पना ।
जायते कॢप्तया तस्मात्सा बाध्येताप्रतिष्ठिता ।
स्मृतिमूलानपेक्षा हि स्मृतित्वादेव हीयते ।
तदपेक्षा पुनः श्रुत्या बाध्यते मूलवर्जिता ॥

एष तावद्विकल्पपदमनारूढाया एव स्मृतेरेको बाधप्रकारः ।

द्वितीयेन प्रकारेण विकल्पपदवीं गता ।
आपन्ना पाक्षिकं बाधमत्यन्तं बाध्यते स्मृतिः ॥

तद्दर्शयति । विकल्पं तु वदन्पक्षे तावच्छ्रुतिप्रामाण्यमभ्युपैतीति । तदा च स्मृत्यप्रामाण्यमवश्यंभावि तस्याश्चाप्रामाण्यकल्पनायां न श्रुतेरिव तदध्यारोपः ।

किं तु तस्याः प्रमाणत्वं श्रुतिमूलत्वकारितम् ।
यतस्तस्मादतन्मूला तदानीं साऽवधार्यते ॥

श्रुतिमूलत्वविच्छेदोत्तरकालं च प्राङ्निराकृतमूलान्तरोपप्लवादविगानस्मृतपुरुषप्रणीत178 त्वनिर्णयाच्च नित्यत्वद्वारनिर्मूलत्वासंभवादवश्यंभावि विप्रलम्भाभिप्रायादि किंचिदेकं मूलमापद्यते ।

श्रुतिं मुक्त्वा च यन्मूलं स्मृतेरन्यत्प्रकल्प्यते ।
तेनैवास्याः प्रमाणत्वमत्यन्तं प्रतिहन्यते ॥

व्रीहिश्रुतिपरिग्रहकाले हि यवश्रुतेरभूतमेवाप्रामाण्यमध्यारोपितम् । तत्प्रयोगान्तरवेलायां तुल्यसांप्रदायिकाम्नायमानत्वेन संनिकृष्टविप्रकृष्टार्थत्वादिविशेषाभावेन च पुनः सहजेन प्रामाण्येनाभिभूयते ।

न तु स्मृतेः प्रमाणत्वं पुनरुज्जीवितुं क्षमम् ।
विच्छिन्नश्रुतिमूलत्वाद्ग्रस्तं भ्रान्त्यादिहेतुभिः ॥

न ह्येकस्या एव स्मृतेः प्रत्यक्षश्रुत्यर्थापरिग्रहकालेऽनुमितश्रुतिमूलत्वं तत्परिग्रहाश्रयणे तु भ्रान्त्यादिमूलत्वमिति विरुद्धावधारणाऽवकल्पते । आह । सत्यं यदि प्रथममेव विकल्पकारी श्रुत्यर्थं परिगृह्य द्वितीयादिप्रयोगे स्मृत्यर्थपरिग्रहणायोपतिष्ठेत ।

ततस्त्वदुक्तमार्गेण प्रतिहन्येत सर्वदा ।
न त्वेतस्य प्रसङ्गोऽस्ति स्मृतेः पूर्वपरिग्रहे ॥

यो हि श्रुतिं प्रथममश्रुत्वा श्रुतिमेवैकां पश्यति तस्याप्रतिहतश्रुत्यनुमाने वृत्ते ।

न पश्चाच्छ्रूयमाणाऽपि श्रुतिः स्यात्प्रतिबन्धिका ।
गर्दभेनापनीतं हि हरेन्नाश्वश्चिराद्गतः ॥

न चैष नियमोऽस्ति जिज्ञासुभिः स्मृतिविरुद्धा श्रुतिरेव प्रथमं श्रोतव्येति ।

बहुजिज्ञासमानानां कदाचित्किंचिदापतेत् ।
पूर्वपश्चाद्विभागेन न तद्धेतुबलाबलम् ॥
आद्ये प्रपाठके येन व्रीहिशास्त्रं प्रतीयते ।
द्वितीये यवशास्त्रं च न तत्तत्प्रति दुर्बलम् ॥
स्वशाखाविहितैश्चापि शाखान्तरगतान्विधीन् ।
कल्पकारा निबध्नन्ति सर्व एव विकल्पितान् ॥
सर्वशाखोपसंहारो जैमिनेश्चापि संमतः ।
न तु पूर्वावबुद्धोऽर्थो बाधेतैवोत्तरं विधिम् ॥

तस्मात्पौर्वापर्यश्रवणमनाश्रित्य ‘न चैकं प्रति शिष्यत’ इत्यनेन न्यायेन सर्वपुरुषान्प्रति नित्यावस्थितसमस्तपठ्यमानस्मर्यमाणवेदशाखायत्तज्ञानैर्जिज्ञासुभिरात्मीयशक्तिमात्रकारितपूर्वापरग्रहणविभागैरेकवाक्यगतपूर्वो तरवर्णपदवद्बलाबलपनपेक्ष्य मातापितृप्रणीतोपदेशवन्निर्विचिकित्समेव प्रामाण्यमभ्युपगन्तव्यम् । अन्यथा हि—

179
पूर्वप्राप्तौ प्रमाणत्वं परत्वेनाप्रमाणताम् ।
प्रसज्यमानिकामेवं कोऽध्यवस्येत्सचेतनः ॥
इत्थं च भ्रान्तिमूलत्वप्रसङ्गे कल्पिते स्मृतेः ।
अविरोधेऽपि हि श्रुत्या प्रामाण्यं दुर्लभं भवेत् ॥
सर्वैव श्रुतिमूलाऽतः सर्वा वा भ्रान्तिमूलिका ।
स्मृतिरेवं निरूप्येत न तु स्यान्मूलसंकरः ॥

उच्यते । यद्यपि पूर्वपलब्धया स्मृत्या श्रुतिमनुपलभमानस्य प्रतिबन्धरहितश्रुत्यनुमानं क्रियेत तथाऽपि कालान्तरे श्रुतिं श्रुत्वा तत्प्रतिपक्षस्मृतेर्बाधाध्यवसानादवश्यंभाविश्रुतिमूलत्वविच्छेदवशेन मूलान्तरसंचरणम् ।

ततश्च पूर्वविज्ञानं मिथ्यैतदिति चिन्तयन् ।
आदावेवाप्रमाणत्वं स्मृतेरित्यध्यवस्यति ॥

यो हि कूटकार्षापणेन कंचित्कालमज्ञो लोकमध्ये व्यवहरति न तेन विवेकज्ञानजनितव्युत्पत्तिनाऽपि तथैव व्यवहर्तव्यम् । न चास्य तदानीतनज्ञानमात्रबाधबुद्धिर्भवति ।

समानविषयत्वाद्धि पूर्वेषामपि बाधनम् ।
न हि तेषाममिथ्यात्वे मिथ्येदानींतनं भवेत् ॥
ननु च प्रागवस्थायां श्रुतिर्यैवानुमीयते ।
सैवेदानीं विरुद्धेति गम्यते न पुनः स्मृतिः ॥

नैतदेवम् । प्रतिप्रयोगं प्रमाणपर्यालोचनात् । यदि ह्येकप्रयोगमात्रालोचनेनैव प्रयोगान्तराण्यप्यनुतिष्ठेयुस्ततो येन व्रीहिशास्त्रमप्रमाणीकृत्य यवाः परिगृह्येरन्स यावज्जीवं तैरेव यजेतेति नैव प्रतिपुरुषमुभाभ्यां विकल्प्यमानाभ्यां व्यवहारः सिध्येत् । तेन यावत्प्रयोगभाविप्रमाणालोचनवशात्पूर्वानुमितां श्रुतिं क्वचिदप्यशृण्वन्पुनरपि स्मृतिमेवोपलभ्य कर्तृसामान्यलिङ्गेनैव श्रुतिमनुमिमानः प्रत्यक्षया श्रुत्याऽऽक्षिप्तचित्ततया तत्प्रामाण्येनान्यथानुपपद्यमानेन स्मृत्यप्रामाण्यं कल्पयन्पूर्वावधारितमूलव्यत्ययमेव प्रतिपद्यते न पूर्वकॢप्तमूलस्याप्रामाण्याध्यारोपम् । अपठयमानतयैवास्य सुलभावज्ञानत्वात् ।

यच्चैतदनवस्थानं त्वया मां प्रति चोद्यते ।
भवतोऽपि तदस्त्येव तेनाचोद्यत्वमेकतः ॥
यदा ह्यादौ श्रुतिं श्रुत्वा स्मृतेर्न्नान्याऽनुमीयते ।
तदाऽन्यमूलतापत्तेरेकान्तेनैव बाध्यते ॥
कालान्तरेऽपि यो बाधः स्फुटत्वेनावधार्यते ।
यत्तेनाप्यप्रमाणत्वं कृतं तन्न निवर्त्यते ॥

180 पूर्वस्मृतिग्राहिणां च स्वयं बाधमचेतयमानानामपि पुरुषान्तरस्य श्रुतिश्रवणप्राथम्यबलेन बाधसंतानौऽनुवर्तत एव ।

पुरुषान्तरबाधोऽपि नैवाल्पं भ्रान्तिकारणम् ।
न हि द्विचन्द्रदिङ्मोहौ न बाध्येते नरान्तरैः ॥

ननु यवश्रुतेरपि तर्हि प्रमाणत्वेन परिगृह्यमाणायाः पुरुषान्तरबाधस्तदानीमस्तीति मिथ्यात्वप्रसङ्गः ।

उच्यते पठ्यमानत्वादुन्मज्जननिमज्जने ।
सर्वान्प्रति तयोस्तुल्ये विशेषोऽन्यो न गृह्यते ॥
स्मृतिस्तु यावतां पुंसां प्रथमं गोचरीभवेत् ।
तावतां सर्वदाऽभावान्नाप्रामाण्येनं मुच्यते ॥
अप्रमाण्यपदं चैकमस्त्येवं प्रथमं स्मृतेः ।
तावता लब्धमिथ्यात्वान्न श्रुतिं बाधितुं क्षमा ॥
अध्यारोप्येत मिथ्यात्वमुज्ज्वलायाः श्रुतेः पुनः ।
लब्धमेव स्मृतौ तच्चेत्किमर्थं कल्प्यते श्रुतेः ॥

विरुद्धयोर्हि श्रुतिस्मृत्योर्विकल्पप्रसङ्गेनावश्यं कल्पनीयेऽन्यतरत्राप्रमाणत्वे यावच्छ्रुतौ पटाच्छादनन्यायेन कल्पयितुमारभ्यते तावत्स्मृतौ स्वरूपाश्रयं कॢप्तमेवोपलभ्य संशयच्छेदे जाते न कदाचिदप्यभूताप्रामाण्याध्यारोपकल्पनोपपत्तिः ।

ननु श्रुत्यविरुद्धायाः श्रुतिमूलत्वनिश्चयः ।
अनुमानादपि प्राप्स्यन् केनचित्प्रतिबध्यते ॥
तस्मात्कारणवैषम्यान्नोभयत्रैकरूपता
सिध्येन्मूलव्यवस्था हि प्रतिपक्षानुसारिणी ॥

ततश्चार्धवैशसप्रसङ्गनिवृत्तिः ।

यथा ।

प्रमाणत्वाप्रमाणत्वे लिङ्गादीनां व्यवस्थिते ।
पूर्वैः सह विरुद्धत्वाविरुद्धत्वनिबन्धने ॥
तथेहापि व्यवस्थेष्टा न परस्परसंकरः ।
प्रतिबन्धाभ्यनुज्ञाभ्यां श्रुत्या नास्त्येकरूपता ॥

यद्यप्यौदुम्बरीसर्ववेष्टनं धर्मशास्त्राध्येतृस्मृतिविलक्षणप्रत्यक्षश्रुत्यर्थोपसंहारपरसूत्रकासेपनिबद्धं तथाऽप्युपरिष्टाद्वक्ष्यमाणालान्तरत्वाभिप्रायेण पुरुषोपदिष्टत्वाविशेषाच्च 181 स्मृतिवदेवोदाहृतम् । क्रीतराजकभोज्यान्नत्ववचनं यद्यप्यथर्ववेदेऽस्ति तथाऽपि तस्याऽऽहवनीयसंबद्धयज्ञकर्मोपकाराभावात्तदधिकृतत्रयीप्रतिपादिताग्नीषोमीयसंस्थावधिभोजनप्रतिषेधविरोधात् “प्रकरणविशेषाद्विकृतौ विरोधि स्यात्” इत्यनेन न्यायेनाधिकृतानधिकृतबलाबलविशेषाभिप्रायेण स्मृतिपक्षनिःक्षेपाद्भाप्यकारेणोदाह्नियते । कृष्णकेशत्वं च यद्यप्यनवस्थितवयोवस्थाकालविशेषं जातपुत्रत्वपक्षे संदिग्धसमावेशं च तथाऽपि युवैव धर्ममन्विच्छेदित्येवमादिस्मरणप्रकाशितार्थं यौवनावस्थापरिग्रहादन्ततो वा वयोर्धानतिक्रमाश्रयणादष्टाचत्वारिंशद्वर्षब्रह्मचर्यप्रागुपनयनसंबद्धकालस्य च वयसः सातिरेकद्विपञ्चाशच्चतुष्पञ्चाशन्मात्रसंवत्सरपरिमितत्वेनापरिहार्यवयोर्धातिक्रमावश्यंभावित्वाद्व्यक्त एव विरोधो दृश्यते । ननु च पूर्वकृतसर्ववेष्टनोत्तरकालविहितं वेष्टिताया एव स्पर्शनं संभवतीत्यविरोधः । कथमविरोधो यदा स्पर्शनं नाम त्वगिन्द्रियद्वारं स्पृश्यसंवेदनम् । न च वस्त्रान्तरिताया औदुम्बर्याः स्पर्शो गृह्यते । न च वस्त्रे स्पृश्यमान औदुम्बरी स्पृष्टा भवति । वस्त्रौदुम्बरीजातिव्यक्तिस्पर्शानामत्यन्तभेदात् ।

अथ संबन्धिसंस्पर्शात्स्पृष्टैवेत्यभिधीयते ।
भूमिस्पर्शेन तत्सिद्धेर्वृथा स्पर्शविधिर्भवेत् ॥

ननु भूमावौदुम्बरीबुद्ध्यभावाद्वस्त्रान्तरितायां च तद्रबुद्धयव्यतिरेकाद्दृष्टान्तवैषम्यम् । तथा हि ।

वस्त्रान्तरितचण्डालस्पर्शेऽप्यापतिते क्वचित् ।
साक्षात्स्पृष्टवदेवेष्टा सचेलस्नानशुद्धता ॥
सत्यं तत्रेष्यते स्नानं तद्वस्त्रस्पर्शकारितम् ।
अशुद्धकारणं तद्धि चण्डालस्पर्शवन्मतम् ॥
तथा च तद्वियुक्तेऽपि वस्त्रे तत्स्पर्शदूषिते ।
स्पृश्यमाने भवत्येव दोषः संयुक्तवस्त्रवंत् ॥

कथं पुनरयं धर्मशास्त्रेष्वनुपनिबद्धोऽपि चण्डालस्पृष्टवस्त्रस्पर्शननिमित्तो दोषोऽध्यवसीयते ।

कथं वा नेष्यते दोषः काष्ठलोष्टतृणादिषु ।
तत्स्पृष्टस्पृश्यमानेषु न क्रमन्तेऽत्र युक्तयः ॥

तदुच्यते—

यथा काष्ठतृणादीनां मारुतादेव शुद्धता ।
स्मर्यते वाससो नैवं तोयप्रक्षालनाद्विना ॥
182
नन्वमेंध्येन लिप्तस्य सा शुद्धिरभिधीयते ।
न लिप्तग्रहणं तत्र पाठेऽस्ति तु चिरंतने ॥

अमेध्यस्यैवं यस्मात्पठन्ति । चण्डालस्पृष्टवाससश्चास्त्येवामेध्यता । तस्मादस्ति सलिलादिशुद्धिः । ननु च मनुष्यस्यैव चण्डालस्पर्शनिमित्तप्रायश्चित्तविधानादशुद्धिरूपममेध्यत्वं गम्यते न द्रव्यान्तरस्य गवाश्वादेः । ततश्च वस्त्रं किं गवाश्वादिवददुष्टमुत पुरुषवद्दुष्टमिति संदेहे गवाश्वादितुल्यमेवावधारयितुं युक्तम् ।

उच्यते—

पुरुषस्य सचेलस्य स्नानं यस्माद्विधीयते ।
तस्मात्पुरुषवद्वस्त्रं न गवाश्वादिवन्मतम् ॥

यदाऽपि हि शुद्धेनैव हस्तादिना चण्डालः स्पृश्यते गवादीनां तु चण्डालादिस्पृष्टानां स्नानप्रक्षालनविध्यभावाच्छुद्धिर्विज्ञायत इति न तन्मध्यपातित्वम् । अतश्च नानेन प्रकारेणौदुम्बरीसंबद्धवस्त्रस्पर्शनात्तत्स्पर्शनज्ञानोपपत्तिः । यदा तु तयैवोद्गाता स्पृष्ट उद्गाथेदिति विधिस्तदाऽवश्यमेवौदुम्वरीत्वचोद्गातुशरीरं प्राप्तव्यम् । उपाश्रयणाभ्युपगमपक्षोऽपि च स्पृष्टत्वापरित्यागेनैव स्थित इति न समस्ताच्छादितायामवकल्पते । पराश्रितमपि च वस्त्रमुद्गातुराश्रयत्वं प्रतिपद्यते । तेनैवौदुम्बर्याश्रितेनोद्नायेत् । तस्मादस्ति सर्ववेष्टनस्पर्शनयोर्विरोध इति युक्तं बाध्यबाधकव्यवस्थापनम् । अथ किमर्थं नेमौ विधी विकल्प्येते इति । स्मृतेरविधायकत्वात्स्वयमतुल्यबलत्वाच्च तदनुमितशाखान्तरपठितविधिपरिग्रहाभिप्रायेणोक्तम् । नासति व्यामोहविज्ञान इति ।

पूर्वोक्तेनैव मार्गेण व्यामोहैकान्तकल्पनाम् ।
विकल्पेऽवश्यमापन्नां स्मृतावेव नियच्छति ॥

व्यामोहविज्ञानं च ज्ञानान्तरगतव्यामोहत्वावधारणं तद्विज्ञानगतव्यामोहरूपं वा विवक्ष्यते । तेन षष्ठीसमासः कर्मधारयो वा योज्यः । विकल्पं तु वदन्निति । कदा चित्स्मृतिमूलश्रुतिविच्छेदाद्भ्रान्त्यादिमूलत्वमापादयति । तादृश्या च सकृदपि श्रौतं विज्ञानमनुज्ञातमध्यारोप्यमाणव्यामोहाविषयत्वान्न कदाचित्प्रामाण्यं त्यजतीत्यपाक्षिकत्वाभिधानम् । एवं केवलाप्रमाणत्वपक्षग्रहस्तस्य पुनर्जीवनासंभवादपाक्षिकं च सर्ववेष्टन183 स्मरणमित्याह—पाक्षिकं चेति वा । विकल्पवादिसंमतपाक्षिकत्ववशादेव श्रुतिप्रामाण्यपक्षे स्मार्तश्रुतिकल्पनायामकृतायां मूलान्तरसंक्रान्तेः सर्वकालाप्रमाणत्वप्रसङ्गः । एकदाऽपि च लब्धप्रामाण्यावकाशा श्रुतिदुर्बलप्रतिपक्षतया न कदाचिदपि व्यामोही भविष्यतीति समर्थयमानो यदेव हि तस्यैकस्मिन्पक्षे मूलमित्याह ।

नहि प्रमादपाठत्वं शक्यं कल्पयितुं श्रुतेः ।
दुःश्रुतस्वप्नविज्ञानमूला त्वापद्यते स्मृतिः ॥

तेन नैतत्पक्षे विज्ञानमिति—प्रमाणविज्ञानमभिप्रेत्योक्तम् । व्यामोहात्पक्षान्तरंमिति । व्यामोहकल्पनातः प्रमाणाभावपक्षान्तरसंक्रमणं प्रतिषेधति । यद्वा स्मार्तज्ञानमेव पूर्वावधारितव्यामोहात्प्रामाण्यपक्षान्तरं न संक्रान्तमिति । दुःश्रुतस्वप्नादिमूलत्वेन श्रुतिविरोधं दर्शयति—तुल्यकारणत्वादिति । बलीयः प्रतिपक्षनिराकृतत्वात्सर्वदैव श्रुत्यनुमानप्रतिबन्धान्न स्मृतेः प्रामाण्यपक्षसंक्रान्तिः । अपि चेतरेतराश्रयेऽन्यतः परिच्छेदादिति । उपरिष्टादितरेतरविरोधविवरणाद्विरोधमेवेतरेतराश्रयमाह—

परस्परविरुद्धे हि विरुद्धाव्यभिचारिवत् ।
प्रमाणे यत्र दृश्येते तत्रान्येनैव निर्णयः ॥

प्रमाणशब्दस्य ज्ञानसमानाधिकरणत्वेन भावोत्पन्नल्युडन्तत्वेन वा नपुंसकलिङ्गत्वाद्वेदाः प्रमाणं स्मृतयः प्रमाणमितिवत्प्रमाणे स्मृतौ स्पर्शनं व्यामोह इति भवितव्यम् । 184 करणविशेषविवक्षायां वाऽभिधेयलिङ्गवचनानुवृत्तौ ल्युडन्ताट्टिढ्ढाणञिति ङीपि प्राप्ते प्रामाण्यं स्मृताविति प्रयोक्तव्यम् । तमिममुभयभ्रष्टं भाष्यकारप्रयोगं समर्थयमानैरेवमनुगमः कर्तव्यः ।

प्रमाणमयते याति मूलभूतां श्रुतिं यतः ।
क्विबन्तादयतेस्तस्मात्प्रमाणा स्मृतिरुच्यते ॥
तत्र यद्यपि नित्यत्वाक्विब्लोपः प्रथमं भवेत् ।
यलोपोऽपि भवेदेव वलादिप्रत्ययाश्रयः ॥
न च वर्णाश्रयत्वेन यलोपो न भविष्यति ।
व्योर्वलीति यलोपो हि वलादिप्रत्ययाश्रयः ॥
यद्वा योगविभागेन वेर्व्यवस्य च लुप्यते ।
वकारश्च यकारश्चेत्येवं लोपो भविष्यति ॥
यलोपे च कृतेऽकारो यः शुद्धः परिशिष्यते ।
तदन्तावधिकात्पश्चादतष्टाप्क्रियते स्त्रियाम् ॥
अकः सवर्णदीर्घत्वं परयोरन्तरङ्गतः ।
सर्वेणापि ततः कृत्वा प्रमाणेत्यनुगम्यते ॥

तदेतदितराश्रयं भवतीत्युक्तम् ।

यद्वा श्रुत्यप्रमाणत्वात्स्मृतेः प्रामाण्यमिष्यते ।
सिद्धाच्च तत्प्रमाणत्वाच्छ्रुत्यप्रामाण्यकल्पना ॥
तथा श्रुतिप्रमाणत्वात्स्मृत्यप्रामाण्यकल्पनम् ।
तदप्रामाण्यसिद्धया च श्रुतिप्रामाण्यनिश्चयः ॥

तदिदं विकल्पवादिन उभयत्रेतरेतराश्रयत्वमेकान्तवादिनस्त्वन्यतरत्र ।

तत्रान्यतः परिच्छेदाद्वाच्यं हेत्वन्तरं स्फुटम् ।
भाष्यकारस्त्विहोक्त्वैवं तयोरेकैकमुक्तवान् ॥
तत्र स्पर्शनस्य कृप्तं मूलं कल्प्यं स्मृतेरिति ।

नैवात्यन्ताप्रकृतहेत्वन्तराभिप्रायेणान्यतः परिच्छेदोऽभिहितः । प्रकृतयोरपि च यत्कृतमितरेतराश्रयत्वं तव्द्यतिरिक्तधर्मदर्शनान्निश्चीयमाने भवत्येवान्यतः परिच्छेदः ।

स्वतः स्थितात्प्रमाणत्वाच्छ्रुतेः स्यात् कॢप्तमूलता ।

स्मृतेः श्रुत्यनुमापकप्रामाण्यात्कल्प्यमूलता ततश्च प्रत्यक्षश्रुत्यप्रामाण्यकल्पनायत्तं 185 स्मृतेः प्रामाण्यं तद्बलेन च श्रुत्यप्रामाण्यं कल्पयत इतरेतराश्रयत्वमपरिहार्यम् ।

न चाध्यारोप्यमाणाऽपि श्रुतेः स्यादप्रमाणता ।
न च तस्यामसिद्धायां स्मृतिप्रामाण्यसंभवः ॥
बलवन्तं पराजित्य यः प्रतिष्ठातुमिच्छति ।
हस्तिना पादयोधीव संतिष्ठेताचिरादसौ ॥

एवं तावत्स्मृतिप्रामाण्यं कल्पयन्नेव तद्वादी पराजीयते । यदा तु श्रुतिप्रामाण्यगतमितरेतराश्रयत्वमालोच्यते तदा तत्रापि प्रतिपक्षभूतस्मृत्यप्रामाण्यापेक्षया निरपवादप्रामाण्यावधारणसिद्धेः पराधीनत्वात्पूर्वसिद्धस्मृत्यप्रामाण्यलिप्सायाम्

सिद्धमेवाप्रमाणत्वं स्वरूपाश्रयमादितः ।
क्षणमात्रमपि प्राप्य श्रुतिः प्रामाण्यमश्नुते ॥

तेन यत्तदाद्ये पदकेऽननुमितावस्थायां श्रुतावापातक्षणमात्रे स्मृतेरप्रामाण्यं दृश्यते तावतैव लब्धप्रमाणत्वा श्रुतिः सर्वदा निरपवादप्रामाण्या भवतीत्यन्यतः परिच्छेदः ।

तेनैकत्र श्रुतेराद्यात्प्रामाण्यादवसीयते ।
स्मृत्यप्रामाण्यतोऽन्यत्र क्षणमात्रावधारितात् ॥
कृत्वैकमवधिं तस्मात्सिद्धमाद्ये क्षणे दृढम् ।
आनुपूर्व्या व्रजेत्तावद्यावत्सिद्धोऽपरः स्फुटः ॥

तदेकेन मार्गेण दर्शयति—कल्प्यमूलत्वात्स्मृतिप्रामाण्यमनवकॢप्तमित्यादि यावत्स्मार्तश्रुतिकल्पनमनुपपन्नं प्रमाणाभावादिति ।

द्वितीयमार्गेऽपि श्रुतिप्रामाण्यदर्शनादारभ्य तावन्नेतव्यं यावत्तदेव निरपवादं सिद्धमिति । व्रीहियवबृहद्रथंतरविधीनां त्वनन्यगतिकत्वात्कक्षान्तरितपदका इव स्थानभेदाभावात्तुल्यबलतयाऽनवस्थितविकल्पाश्रयणं प्रागुपदिष्टमेव योज्यम् । अतो नापेक्ष्यं प्रत्यक्षश्रुतिविरुद्धस्मृतिप्रामाण्यमिति ॥ ३ ॥

  1. बहुशाखाश्च खिलाः प्रकरणादयश्च ये तेषां ये भेदास्तैर्भिन्नेषु वेदेषु । श्रुतिलिंङ्गाद्यात्मकोपदेशो यश्च नामादिद्वारोऽतिदेशस्तदात्मका ये विचित्रप्रमाणभागास्तेष्विति विग्रहः ।

  2. जै॰ सू॰ ( २-४-२ ) ।
  3. एकस्यां धर्मसंहितायामर्धस्यार्धान्तरेण वैशसं—विरोध इत्यर्थः ।

  4. उचितां क्रियामर्तिक्रम्य क्रिया अतिक्रियेत्यर्थः ।

  5. केनचित्पाशुपतेन सर्वजरत्या योषितोऽनुपभोग्यत्वेन सर्वतरुण्याश्च वृद्धेऽरुचिप्रसङ्गादर्धजरत्याऽऽनयने दूतः प्रेषित इति लोकप्रवादोऽत्रार्धजरतीयशब्देनोपमानत्वेनोक्त इति ।

  6. ऋत्विजां यजमानस्य च परस्परमव्यभिचारार्थं कर्मारम्भे शपथकर्म तानूनप्त्रं नाम ।