यावज्जीवाधिकरणम्

बह्वृचब्राह्मणेऽध्वर्युब्राह्मणे वा श्रूयत इति486 नातीवाभिनिवेष्टव्यम् । ननु कर्तृधर्मः कर्मधर्म इति शेषलक्षणविषयत्वादिह न संबध्यते । केचिदाहुः । पर्यवसिते लक्षणार्थे तदीयोऽपि विचारः प्रत्यासत्तेः क्रियमाणो न विरुध्यत इति । तत्त्वयुक्तम् । शाखान्तरे कर्मभेदविचारस्याद्याप्यपर्यवसानात् । अत एवं संबन्धनीयम् । यथैव भेदकारणानि कर्मस्वरूपभेदे व्याप्रियन्ते तथैव प्रयोगभेदेऽपि । तदिह यावज्जीवगुणसंयुक्तानामग्निहोत्रादीनां किं प्रयोगा भिद्यन्त उतैक एवायं प्रयोगः काम्यः स एव यावज्जीवकालपरिमित इति । तत्र यदि यावज्जीवकालः कर्मधर्मत्वेन विधीयते ततः सायंप्रातर्वाक्यवशेन तत्कालसमापनमग्निहोत्रं न शक्नोति तावन्तं कालं पूरयितुमित्यर्थाज्ज्योतिष्टोमवदभ्यस्तरूपमेव प्रयोगं प्रतिपत्स्यते । यदि पुनर्जीवनं निमित्तत्वेनोद्दिश्य कर्म विधीयते ततो यावत्कर्तृभाविनि नियते निमित्ते विना कामसंबन्धेन चोद्यमानमकरणे दोषप्रसक्तेरवश्यं पुरुषेण जीवता स्वार्थसिद्ध्यर्थमनर्थपरिहाराय वा कर्तव्यमिति कर्तृधर्मो नियमोऽनेन चोदितो भवतीति । तदा च सायंप्रातःकालयोर्जीवनस्य च संहतानां निमित्तत्वात्प्रतिदिवसं निमित्ते तप्तर्यवसितं कर्म पुनः पुनः क्रियत इति प्रयोगान्यत्वम् । तेन प्रयोगभेदाभेदावेवैतत्फल487त्वाद्भाष्यकारेणोपन्यस्ताविति मन्तव्यम् । किं प्राप्तम् । 624 एकः प्रयोगोऽभ्यस्तरूपः कर्मधर्मो यावज्जीवकता कालोपदेशश्चायमिति । कुतः ।

कर्मस्थो हि कथंभावस्तदङगमभिकाङ्क्षति ।
कालोपदेशपक्षे च तत्तथैवोपपद्यते ॥

कालो ह्युद्दिश्यमानस्तन्निमित्तश्चाभ्यासः कर्माङ्गं भवति । ततश्च प्रकरणमनुगृह्यते । ननु च पुरुषधर्मत्वेऽपि तस्यैव कर्मणो जीवने विधानान्नैव प्रकरणं बाध्येत । सत्यमधिकारो न बाध्यते कथंभावात्मकं पुनः प्रकरणं क्रतुधर्ममपेक्षमाणं पुरुषधर्मे विधीयमानेऽन्यन्तं बाधितं भवति । यद्यपि कालस्यापि निमित्तवदेवानुपादेयत्वात्तुल्या वचनव्यक्तिस्तथाऽपि फलतः कालविधानं यागानुवादश्चेति विपरीतं कथ्यते । अथवा जीवनपरिमितकालद्वारेणाभ्यासश्चोदयिष्यते । स च कर्मोद्देशेन शक्यत एव विधातुमित्येवमुपदिश्यते । कर्तृधर्मपक्षे पुनर्न कथंचित्कर्मोद्देशः । एवं चैकप्रयोगत्वे सति दीर्घसत्रप्रयोगसंस्तव उपपन्नो भविष्यति । इतरथा पुनः प्रतिदिनं पर्यवसानान्न कथंचित्सत्रसारूप्यं भवेत् । तस्मात्कर्मधर्मोऽभ्यास इति ॥ १ ॥

धर्म इत्यनुवर्तते । तेनैषा प्रतिज्ञा कर्तृधर्मोऽयं चोद्यत इति । सोऽपि च नियमो न याथाकाम्यम् । कुतः ।

यावज्जीवपदाख्यातश्रुतिवृत्तित्वसंभवः ।
मत्पक्षे भवतस्तत्र लक्षणावृत्तता भवेत् ॥

इह हि यावज्जीवमिति यावत्कर्तृभविजीवनं निमित्तभूतं श्रुत्यैव प्रतिपादितम् । जुहोतियजतीत्यपि धात्वर्थानुरक्तभावनामात्रवाची प्रत्ययांशः श्रौत एव । तदुभयमपि मप्तक्षेऽनुगृह्यते । भवत्पक्षे तु जीवनेन कालो लक्ष्येत  । जुहोतियजतिभ्यामप्यभ्यासः । 625 यत्र हि विधिः समाप्यते स चोदनार्थो भवति । भवतश्च जीवनधात्वर्थपरित्यागेन कालाभ्यासौ विधीयेते । तेन लक्षणापर्यवसायी विधिः प्राप्नोति । तत्रैतत्स्यात् । यावज्जीवमिति यावच्छब्दः श्रुत्यैव कालं ब्रवीति । तद्यथा—यावद्दोहं स्वपिति । युक्तमत्र कालग्रहणम् । वर्तमानापदेशो ह्ययं नात्र काचिन्निमित्तापेक्षा । तेन श्रुतिवृत्तं दोहनमतिक्रम्य कालो गृह्यते । यदि त्विहापि यावद्दोहं स्वप्यादासीत वेति विधीयेत ततः केन वा दोहस्य निमित्तत्वं वार्येत । यावज्जीवचोदनायां तु न किंचिदतिक्रमकारणमस्ति । प्राणधारणक्रियाया एव निमित्तत्वोपपत्तेः । न च यावच्छब्दः कालवचनः क्वचित्प्रसिद्धः । क्रियामेव तु समाप्तिपर्यन्तत्वेन विशिनष्टि । क्रियाकालयोरभेदान्न लक्षणेति चेत् । अत्र वैशेषिकानपराजित्य परिहारायोपस्थातव्यम् । अपि च सत्यपि क्रियाणां कालत्वे काचिद्व्यवस्था विद्यते यतो न सर्वासु कालप्रतिपत्तिर्लोकस्य । तत्र शेषाः क्रिया उपलक्षणीकृत्य चन्द्रादित्यपरिवर्तनक्रियासु कालव्यहारो व्यवस्थितः । ता एवावान्तरक्रियापरिमाणेन प्रत्यासत्तेरन्यक्रियापरिच्छेदार्थमुपादीयमानेनोपलक्ष्यन्ते । तथा हि ।

अनवस्थितमानत्वाद्गोदोहादिषु रुपतः ।
चिह्नं व्यवस्थयेच्छन्ति नित्यं सूर्यादिचेष्टितम् ॥

कियता कालेन गौर्दुह्यत इत्युक्ते नियतान्येव मुहूर्तादीनि परिच्छेदकत्वेनोपादीयन्ते । तत्परिच्छेदश्च नाडिकालक्षणलवत्रुटिनिमेषादिभिर्व्यावहारिकक्रियाव्यतिरिक्तैरेव क्रियते । तदभ्यासवशेन तु व्यावहारिकाणामपि प्रायिकपरिमाणज्ञानात्परिच्छेदकत्वं भवति । न च जीवनं नाम निमेषादिवन्नियतपरिमाणं, येन परिच्छेदकत्वसामर्थ्यात्कालत्वेनाऽऽश्रीयते । तस्माद्व्यतिरिक्तकाललक्षणा दुष्परिहरा । पुनश्चाभ्यासलक्षणा । कथम् ।

न ह्येकेन प्रयोगेण जीवकालोऽवरुध्यते ।
विततेनापरिज्ञानादन्यथा वा वृथाश्रुतिः ॥

अनभ्यस्तं प्रयुञ्जानो यदि तावद्वितत्य प्रयुङ्क्ते जीवनपरिमितस्य कालस्यान्तरा किंचित्कर्मावयवं यदाकदाचित्कुर्वाणस्ततो मरणस्यानिरूपितकालत्वाद्यदि कथंचिदन्त्यायामवस्थायां समापयेन्न च म्रियेत तदूने काले समापनादयथाचोदितापत्तिः । अथास626 माप्य म्रियेत तथाऽपि प्रक्रान्तासमापनं दोषः स्यात् । न च 488सर्वस्वारवद्वचनमस्ति । येन मृतेऽपि समाप्येत । सायंप्रातश्चोदनं च यावज्जीवकाम्यचोदनासमीपाम्नाते सत्यौ विना प्रमाणेन केवलकाम्यविषये कल्पनीये स्यातामस्मिन्पक्षे । यदि तु तदनुरोधेन सकृदेव प्रयुज्योभयं संभावितमिति मन्येत । यथा ‘पौर्णमास्यां पौर्णमास्या यजेत’ इति चोदिते तदेकदेशकरणेनापि शास्त्रार्थः संभाव्यत इति न व्याप्यते तथा जीवितपरिच्छिन्नकालैकदेशवर्तिनोः सायंप्रातःकालयोरनुष्ठानाच्चोदनाद्वयमप्यनुष्ठितार्थं भविष्यतीति । तत्रोच्यते ।

पौर्णमास्यतिरिक्ताहर्व्यवच्छेदफला श्रुतिः ।
अव्याप्तावपि तत्र स्यान्न त्विहैवं प्रतीयते ॥

यद्यपि तत्राल्पत्वात्कर्मणः पूर्वाह्णचोदनावशेन वा पौर्णमासी न व्याप्यते न किंचिद्दुष्यति । सर्वथा दिवसान्तराण्यतिक्रम्य पौर्णमास्यां तावत्कृतं कर्म तावन्मात्रं च शास्त्रेणोक्तं न व्याप्तिः । इतरत्र पुनर्जीवितव्यतिरिक्तकालासंभवाद्व्यवच्छेद्यं न किंचिदस्तीति व्याप्तावसत्यां समस्तमेव वाक्यमनर्थकं स्यात् । सायंप्रातश्चोदनयोरपि जीवनकालान्तर्गतेः सिद्धत्वाद्यावच्छब्दश्च समस्तजीवितावधिपरिग्रहार्थ एकदेशानुष्ठाने बाधितः स्यात् । अतः सायंप्रातश्चोदनामिश्रेयमभ्यासमनाक्षिपन्ती न शक्नोति पुरुषं नियोक्तुमित्यपरिहार्या लक्षणा । ननु चार्थादभ्यासो जायमानस्त्वत्पक्षवदेव न दोषं जनयेत् । तथा हि ।

सकृदेव श्रुतो होमः क्रियमाणः पुनः पुनः ।
न शब्दे भारमाधत्ते सामर्थ्यारोपितश्रमः ॥

अथ योऽयं मम दोषः स तवापि दोष एव, वक्तव्यो वा विशेषः । उच्यते ।

627
मम प्रतिदिनं सर्वश्चोदनार्थः समाप्यते ।
काम्यवच्च पृथक्तेष्टा तव त्वन्ते समाप्यते ॥

मम जीवनसहितसायंप्रातःकालोपजने हि सकलं कर्म कृत्वा निराकाङ्क्षे पुरुषे सति पुनरपि तादृङ्निमित्तसंभवाद्द्वितीयादिष्वहःस्वनुष्ठानम् । तत्र च प्रतिदिनं कर्मसमाप्तेर्नाभ्यास इति शक्यं वदितुम् । तद्यथा काम्ये यः फलभूमार्थी पुनः पुनः प्रयुङ्क्ते न तस्याभ्यस्तरूपमेतत्कर्मेत्येवं बुद्धिर्जायते तथाऽत्रेति । तव पुनर्जीवितपरिमितकालविधानात्कर्मणोऽपरिसमाप्तस्यैवैन्द्रवायवादिग्रहाभ्यासतुल्यमनुष्ठानम् । तच्चैतद्यावज्जीवचोदनाकृतमित्यापन्नमभ्यासविधानम् । नन्वर्थादभ्यास इति । 489सत्यमेतत्तेनैव तु लक्षणाऽन्यथा श्रुतिरेव स्यात् । 490तदुभयतः श्रुत्यनुरोधेन प्रकरणं बाधित्वा जीवनमुद्दिश्य होमयागविधानात्कर्तृकर्मविधिरित्युपपन्नम् ॥ २ ॥

अतिपत्तिरिति स्वधर्मातिक्रमोऽभिधीयते । जीवनपरिमितश्च दर्शपूर्णमासयोः कालः । न च तदतिक्रमः कथंचिदपि संभवति । प्रक्रमेण हि कर्मकालं संस्पृशदनतिक्रान्तमित्यभिधीयते । न च कश्चिदपि पूर्णमासयाजी सन्नप्रक्रममाण एव जीवनमतिलङ्घयति । न ह्यसौ दर्शपूर्णमासयाजी स्यात् । अथ स्वकालापरिसमापनमतिपातनमुच्येत तथा मृतस्य तद्भवतीत्यनर्थकमेव प्रायश्चित्तविधानम् । मत्पक्षे हि प्रतिमासं दर्शपूर्णमासप्रक्रमसमाप्त्योर्जीवने निमित्ते विधानात्संभवत्यतिक्रमस्तदुत्तरकालश्च प्रायश्चित्तविषयत्वेन । ननु पूर्वपक्षेऽपि प्रतिमासमभ्यासाभ्युपगमात्तदतिक्रमनिमित्तप्रायश्चित्तविधानं भविष्यति । न शक्यमेवं वदितुम् । यत्र हि निमित्ते यच्चोदितं तेन तत्र भवितव्यं न 628 यथेष्टम् । इह च पौर्णमास्यमावास्यातिपत्तिर्निमित्तत्वेन श्रुता, न चाभ्यासस्तच्छब्दवाच्यः । यथा न ग्रहाभ्यासः कश्चिज्ज्योतिष्टोमशब्दवाच्यः । तेन जीवितपरिमिताभ्याससंयुक्तयोरेव पौर्णमास्यमावास्याशब्दवाच्यत्वमिष्टमिति नावयवानामतिपातनं निमित्तं स्यात् । ननु च पौर्णमास्यमावास्याशब्देनात्र कालोऽभिधीयते, स चावयवविषय एवेत्यवयवातिक्रमो निमित्तं स्यात् । नैतदेवम् । अतिपातनं नामातिपद्यमानस्य भवति । न च कालस्यातिपन्नत्वं धर्मोऽनतिपत्तेरविधानात् । यस्य हि यावान्विषयोऽनतिक्रमणीयत्वेन चोदितस्तस्य तदतिलङ्घनमतिपत्तिरित्युच्यते । न च कालस्य कर्मानतिक्रमणीयत्वेन चोदितं, किं तर्हि, कर्मणः कालः । तस्य हि सोऽङ्गं न तस्य कर्म । तदेव च तत्सद्भावासद्भावयोः सगुणं निर्गुणं च भवति न कालः । तदेव चानुष्ठानात्मकत्वादतिक्रमानतिक्रमौ प्रतिपद्यते न कालः । तस्य स्वभावसिद्धत्वात् । तस्माद्यः पौर्णमासीं स्वं कालमभिपद्यमानामतिपातयेदित्यवधारणात्कर्मण एव निमित्तत्वम् । न चावयवस्तच्छब्दवाच्य इत्युक्तम् ॥ ३ ॥

दर्शपूर्णमासाविष्ट्वेति पूर्वेणैव न्यायेनाशेषाभ्यासनिर्वृत्त्युत्तरकालं सोमयागः स्यात् । न च मृतेनासौ कर्तुं शक्यः । अथ त्वस्ति सोमानुष्ठानकालस्तत एकान्तेनैव दर्शपूर्णमासाभ्यां जीवितकालो नावरोद्धव्यः । स च कर्तृधर्मपक्षे कर्मप्रयोगभेदान्नावरुध्यते नान्यथा । सूत्रमप्येवमस्ति चेद्दर्शपूर्णमासविनिर्मुक्तः सोमकालस्ततो यथोक्त एव कर्मप्रयोगभेदः स्यात् । कालश्चेत्कर्मभेदः स्यादित्यस्यापरा व्याख्या । यदि यावज्जीविकः कर्मधर्मकालश्चोद्येत ततो दर्शपूर्णमासमध्य एव सोमोन्यानि च कर्माणि कर्तव्यानि स्युः । ततश्च विततस्य कर्मणः कर्मान्तरेणाविच्छेदे सति दर्शपूर्णमासाविष्ट्वेति बाध्येत । अथवा ‘एष स्वर्गाल्लोकाच्छिद्यते एतद्यज्ञश्छिद्यते’ इत्येवमा629 दिभिश्च निन्दितमनुष्ठीयेत । तस्मादपि न कालविधानमिति । मुक्तकान्यार्थदर्शनद्वयं 491पूर्वसूत्रगोचरभूतं दर्शयति । तद्यथा । आहिताग्निर्वा एष सन्निति दीक्षितस्य दानादौ निषिद्धे विध्यन्तरशेषभूतः परिवेदनसरूपार्थवादो भवति । एतावन्तं हि कालमसावग्नि होत्रादिदेवताभ्यो भागमदत्त्वा ता अनुध्यायिनीः करोति नायमस्मभ्यं ददातीत्येवं चिन्तायुक्ताः करोतीत्येतन्नियमपक्षे युज्यते । कालविधिपक्षे तु काम्यत्वादग्निहोत्रस्य यथे ष्टप्रयोगे सति नियोगतो दातव्याभावादनुध्यायिनीवचनं नोपपद्यते । तस्मादपि नियमवचनम् । एतेन जरामर्यवचनविधानं व्याख्यातम् । काम्यत्वकल्पनायामप्रयोगादपि निर्मोके सति जरामरणनिर्मोकवचनवैयर्थ्यप्रसङ्गः ॥ ४ ॥

यदेतन्मुक्तकमभिहितमेतदेव सूत्रारूढं करोति । नियमपक्षे ह्येतदेवं स्यात् । अनित्यत्वात्तु भवत्पक्षे नैवं स्यात् । अथवा यावज्जीवशब्देन काले गृह्यमाणे लक्षणादोष उक्तस्तमभ्युपेत्याभिधीयते सत्यामपि लक्षणायामनित्यत्वान्नैवं स्यात् । तन्नाम कालोपलक्षणं युक्तं यन्नित्यं कियताऽपि कालेनाविनाभूतं, यदहश्चन्द्रमा न दृश्यते ताममावास्यां विद्यादित्यादिवत् । न च सर्वप्राणभृतामेव जीवनपरिसमाप्तिर्यतः 630 कुतश्चिद्व्यस्थितस्वरूपा, यया कालो लक्ष्येत । तदेतदेवमापद्यते यदैवेदं भवति ततश्चानित्यत्वान्निमित्तमेवैतदिति सिद्धम् । कथं तर्हि नियतनिमित्तत्वान्नित्यमित्युच्यते, यावच्छरीरभावित्वाभिप्रायमेतदित्यदोषः ॥ ५ ॥

नियमः सन्पुरुषधर्मत्वान्नातिदिश्यत इति च वक्ष्यते492 । कालः सन्नतिदिश्येत । ननु कालोऽपि द्वैयहकाल्यवत्सद्यःकालतया बाध्येत । नैतदेवम् । यावज्जीवं पौर्णमास्यमावास्ययोः सद्यः कुर्यादित्यवधारणप्रसङ्गात् ॥ ६ ॥

कर्तृधर्मपक्षे यदिदं त्वभिमतं यावज्जीवमिति कालशास्त्रमिदं निमित्तं भविष्यतीत्येतावत्सूत्रम् । यत्तु भाष्यकारेण व्यपवर्गदर्शनमुक्तं तद्यदि दर्शपूर्णमासाविष्ट्वेत्येतदेवाभिप्रेतं ततः पुनरुक्तम् । अथान्यत्तदप्यनुदाहृतत्वान्न ज्ञायते । तेनानन्तरालोचनयैवं योजयितव्यम् । त्वत्पक्षे विकृतीनामपवर्गः स्यात् । मत्पक्षे तु तासां व्यपवर्गदर्शनं सिद्धान्त उपपत्स्यते । अथवा निगमनसूत्रमेतदिति व्याख्येयम् । अथवा सूत्रकारेण कर्तृधर्मो नियमोऽयमित्युक्तम् । यावज्जीवशब्दस्य तु का गतिरिति नाभिहितमत आह । एवं सति कालशास्त्रमेव निमित्तं स्यात् । अथवाऽग्निहोत्रे दर्शपूर्णमासयोस्तावद्यावज्जीवग्रहणात्कर्तृधर्मनियमत्वं भवेत्पशुसोमचातुर्मास्येषु तु कथम् । तदुच्यते । तत्रापि वीप्सायुक्तं कालशास्त्रमेव निमित्तं स्यात् ‘वसन्ते वसन्ते ज्योतिषा’ इत्यादि । न तावदेतत्काम्यस्योपदिश्यते । स हि यावदिच्छमङ्गत्वेनैव स्थितत्वान्नैवं वक्तुं शक्यते । अथापि नैयमिकस्य सकृत्प्रयोगः स्यात्तत्रापि वीप्साऽनर्थिका भवेत् । न च वसन्तेयत्तावधारणाप्रमाणमस्ति । तस्माद्यावज्जीवं ये वसन्तास्तेष्विति विज्ञायते । सप्तम्यपि च ‘भिन्ने जुहोति’ इत्यादिवन्निमित्तार्था भविष्यति । तेनोच्यते सर्वत्रैवंजातीयके कर्तृधर्म631 नियमावधारणात्कालशास्त्रं निमित्तशास्त्रं प्रत्येतव्यम् । एतेनैव पशुचातुर्मास्यादिष्वपि नैयमिकत्वसिद्धिः ॥ ७ ॥

इति यावज्जीवाधिकरणम् ॥ १ ॥
  1. भाष्यकारोक्ताविति शेषः ।

  2. प्रयोगभेदाभेदफलत्वादिति पाठान्तरम् ।

  3. सर्वस्वारवदिति—‘मरणकामो ह्येतेन यजेत यः कामयेतानामयः स्वर्गं लोकभियाम्’ इति वाक्येन विहिते सर्वस्वाराख्ये कर्मणि ‘आर्भवे प्रस्तूयमान औदुम्बरीं सदृशेन वाससा परिवेष्ट्य ब्राह्मणाः परिसमापयत मे यज्ञमिति संप्रेष्याग्निं प्रविशति’ इति प्रैषविधानाद्युक्तं यजमानमरणानन्तरमपि क्रतुसमापनमित्यर्थः ।

  4. ननु विधेयत्वेऽप्यभ्यासस्य जीवनपरिमितकालान्वयान्यथानुपपत्तित एव प्रतीतेर्धातोरभ्यासलक्षणांयां प्रमाणाभाव इति नन्वित्यादिनाऽऽशङ्क्य शाब्दत्वं विनाऽभ्यासस्य शाब्दविध्यन्वयायोगेनार्थात्प्रतीतिसंभवेऽपि धातुव्यापारावश्यंभावेनापरिहार्या लक्षणेत्येवं समादधाति—सत्यमित्यादिना ।

  5. तदिति—तस्मादित्यर्थः ।

  6. पूर्वसूत्रगोचरभूतमिति—लिङ्गदहर्शन्नाच्चेति सूत्रगोचरनित्यर्थः ।

  7. ( अ॰ ८ पा॰ १ अ॰ ४ ) इत्यत्रेति शेषः ।