बर्हिरादीनामङ्गप्रधानसाधारण्याधिकरणम्

समानासमानविधानाधिकारेणैवैतदपि प्रस्तूयते वाक्यप्रकरणविरोधाविरोधद्वारेण । दर्शपूर्णमासप्रकरणस्था वेदिः तद्धर्माश्च खननादयस्तथा बर्हिस्तद्धर्माश्च लवनादयः किमर्था इति । यद्यपि ‘वेद्यां हवीषि’ ‘बर्हिषि हवींषि’ ‘बर्हिर्लुनाति’ ‘वेदिं खनति’ इति चाविशेषितेन वाक्येनाङ्गप्रधानार्थत्वबुद्धिर्भवति । तथाऽपि स्वातन्त्र्ये 1074 सति लौकिकेष्वपि गृहाच्छादनार्थेषु बर्हिःषु धर्मप्रसक्तावानर्थक्यादवश्यमपूर्वसाधनताकारितः संबन्धोऽभ्युपगन्तव्यः । सा चापूर्वसाधनता न वाक्यसामर्थ्येन प्रतीयत इति प्रकरणाल्लब्धव्या । ततश्च प्रधानमात्रस्य तत्प्र1311करणमित्यनेन विशेषेण प्रधानस्यैव धर्मा गम्यन्ते । सत्यपि च प्रकरणस्याविशेषकत्वे ग्राहकत्वेनैव विशेषरूपेण विनियोजकत्वाद्विशेषस्थापनहेतुत्वमित्युक्त1312म् । असंयुक्तमिति च सत्यपि वाक्येन हविर्बहिःसंयोगे प्रकरणविरोध्यर्थासंयोगाभिप्रायम् । शक्यौ हि हविर्बर्हिःशब्दौ प्रकरणेन समावेशयितुं नाहीनवदसंबद्धाविति मन्यते ॥ १ ॥

सर्वेषां वाक्यसंयोगाविशेषादित्युक्तमेव । यत्तु प्ररकणं विशेषेण विनियोजकमिति, तत्राऽऽह—अतत्प्रयुक्तत्वात् । न प्रकरणमिह विशेषकं भवतीत्यर्थः । कथं पुनः स्थितं प्रकरणस्य विनियोजकत्वं निवर्तते, कथं वा तादर्थ्यलक्षणव्यतिरिक्तं च बहुदोष1313मुपकारलक्षणं शेषत्वं प्रतिज्ञायते । उच्यते । नैव प्रकरणस्यैवंजातीयकेषु विनियोजकत्वं स्थितम् । ‘असंयु1314क्तं प्रकरणात्’ इति ह्युक्तम् । यत्तु विरोधो नास्तीति । कथं नास्ति, यदा बर्हिषां प्राधान्यात्प्रत्येकं धर्मसंबन्धे सति अङ्गार्थत्वमपि ज्ञायमानं प्रकरणानुरोधेन व्यावर्त्यते । परस्तु येन कारणेन वाक्यस्यातिप्रसरे बाधिते निर्विरोधं प्रकरणमवगतवानिदानीं तदुपन्यस्यति लौकिकेऽपि प्राप्नोति ततश्चाऽऽनर्थक्यमिति । तस्योत्तरमेतदेव वक्तव्यम् । स्वरसप्रवृत्तं वाक्यं यावत्येव विस्पष्टमानर्थक्यं तावन्मात्रादेव निवर्तताम् । न चाङ्गबर्हिषां लौकिकवदानर्थक्यम् । अतस्तत्र भविष्यति । न 1075 चातिप्रसज्यत इति । अनेनैव चाभिप्रायेण, उपकारलक्षणं हि तदिति तादर्थ्यमेव फलेन व्यपदिष्टम् । यदर्थं हि कल्प्यमानं प्रयोजनवद्विज्ञातुमाकाङ्क्षितोपकारनिष्पत्त्या शक्यते तदर्थं कल्पनीयम् । यत्तु भाष्यकारेणातिप्रसङ्गनिवृत्त्यर्थं प्रकरणादिंत्युक्तं तदुत्तर1315परिचोदनानवतारप्रसङ्गादतित्वरितोक्तमित्युपेक्षणीयं तावत् ॥ २ ॥

यदि ह्यानर्थक्याल्लौकिकाद्बर्हिषो धर्मनिवृत्तिस्ततो यत्र तदानर्थक्यं नास्ति कर्मान्तरार्थे बर्हिषि, तत्र प्रवृत्तिः प्राप्नोति । यदि तु कश्चित्तन्निवृत्त्यर्थो हेतुः सोऽङेगष्वप्यविशिष्टः । तत्र सौर्यादिष्वितरथाऽप्यतिदेशेन सन्त्येव धर्मा इत्युपदेशातिदेशप्राप्तिरहितत्वात्पिण्डपितृयज्ञ उदाहरणम् । अपूर्वो ह्ययमनङ्गं चेति स्था1316स्यति । तेनात्यन्तानिष्टप्रसङ्ग इति ॥ ३ ॥

भवेदेतद्यदीदं वाक्यं स्वतन्त्रं स्यात् । बर्हिर्वेदितद्धर्माणां तु यद्वाक्यं तद्दर्शपूर्ण1076 मासाभ्यां सहैकम् । तेन वाक्येन सहैकवाक्यतां गतमित्यर्थः । तेन यत्तदेकवाक्यान्तर्गतं बर्हिस्तस्यैवैतद्धर्मप्राप्तिर्न भिन्नवाक्यगतस्य । न त पिण्डपितृयज्ञबर्हिर्दर्शपूर्णमासवाक्यान्तर्गतम् । अतो न संभन्त्स्यत इति । ननु यदि दर्शपूर्णमासाभ्यां सहैकवाक्यत्वमिष्यते ततस्तत्प्रकरणं मुक्त्वा नान्येन लभ्यते । तच्च प्रकरणं प्रधानमात्रस्यैवेत्यङ्गानामसंबन्धः प्राप्नोति । नैष दोषः । सर्वथा लवनखननादयस्तावन्न साक्षादङेगन प्रधानेन ना संबन्धुं शक्नुवन्ति । यत्र वेदिबर्हिषी तत्र गमिष्यन्ति । वेदिबर्हिषोरपि हविरासादनेन संबन्धः । तच्च दर्शपूर्णमासप्रयोगवचनगृहीतमासादनं संबध्यते । एवमङ्गहविरासादनमपि तत्रान्तर्गतं, साङ्गस्य प्रधानस्यैकप्रयोगत्वात् । ननु च यथा प्रयाजादय एकप्रयोगवचनगृहीतत्वेऽपि ‘गुणानां1317 च परार्थत्वात्’ इत्येवं परस्पराङ्गत्वं न प्रतिपद्यन्ते तथाऽङ्गहविःसंबन्धं बर्हिर्न प्रतिपद्यते । नैतदेवम् । यथैव हि प्रधानहविरासादनमङ्गतया संबध्यते तथाऽङ्गहविरासादनमप्यङ्गाङ्गतया संभन्त्स्यते । यदि चि यद्दर्शपूर्णमासार्थं हविस्थद्बर्हिष्यासादयतीत्येवं कल्प्येत ततस्तन्मात्रस्यैव स्यान्न त्वेवम् । अस्याऽऽनर्थक्यभयात्तु स्वरूपेऽतिक्रम्यमाणे किमेवमतिक्रमोऽस्तु यद्दर्शपूर्णमासार्थमुत यद्दर्शपूर्णमासोपकारीति । यदि तादर्थ्यं गृह्यते वाक्यस्यातिदूरं संकोचः क्रियेत । तदुपकारित्वग्रहणे तु बहुतरविषयत्वं भवति । यथा च तद्भवति तदनुग्रहीतव्यम् । अङ्गाङ्गमपि विनाऽपि तादर्थ्येन तदुपकारीति विज्ञायते । तावन्मात्रमेव न तद्द्वारं युक्तं न तादर्थ्यम् । अनुपकारिणि हि स्थितं नोपकरोति नातदर्थे । तथा च ‘परा1318र्थे त्वर्थसामान्यम्’ इति वक्ष्य1319ति, विनाऽपि तादर्थ्येनाभ्यु1320दितेष्ट्यां दधिपयसोस्तुदुपकारमात्रदर्शनात्प्रणीताधर्मप्राप्तिर्भवतीति । तस्मादेवं प्रकरणादेकवाक्यत्वं कल्प्यते यस्मिन्नक्रियमाणे दर्शपूर्णमासापूर्वं न सिध्यति तत्र तत्र कर्तव्या इति । अङ्गहविर्भिरपि च विगुणैः प्रधानापूर्वं न निष्पद्यते । तस्मात्प्रधानापूर्वप्रयुक्तानामेवाङेगष्वपि क्रिया युक्तेति ॥ ४ ॥

1077 यदि चैवंजातीयकमङ्गप्रधानार्थं ततः ‘प्रयाजशेषेण हवींष्यभिधारयति’ इत्येतदङ्गप्रधानार्थम् । तत्र च क्रमवाक्येष्वयं क्रमो न्यायप्राप्तः सिद्धवदुच्यमानो हेतुवन्निगदोऽर्थवत्त्वादुपपद्यते ‘स वै ध्रुवामेवाग्रेऽभिधारयति' । कुतः । ‘ततो हि प्रथमावाज्यभागौ यक्ष्यन्भवति’ इति । यद्याज्याभागहविरप्यभिधारणीयं तत एवं वक्तव्यम् । अन्यथा हि ध्रुवायामुपांशुयाजार्थेन केवलमभिधारणं स्यात् । तत्र न चाग्रेऽभिधारणं स्यात् । न च ‘ततो हि प्रथमावाज्यभागौ’ इति हेतुः समर्थ्येत । तस्मात्सर्वार्थत्वमिति ॥ ५ ॥

इति बर्हिरादीनामङ्गप्रधानसाधारण्याधिकरणम् ॥ १ ॥
  1. तत्प्रकरणमिति—दर्शपूर्णमासप्रकरणमित्यर्थः ।

  2. (अ॰ ३ पा॰ ४ अ॰ ५) अञ्जभ्यमानाधिकरणे भाष्यकृद्भिरिति शेषः
  3. बहुदोषमुपकारलक्षणं शेषत्वमिति । अयमाशयः । यद्युपकारकत्वं शेषत्वं तदा कृष्णदीनामपि परम्परया यागाद्युपकारकत्वाद्यागाङ्गतापत्तिः । यदि विहितत्वघटितं तद्विवक्ष्यते तदाऽपि ‘गोदोहनेन पशुकामस्य प्रणयेत्’ इति वाक्येन पश्वङ्गतया विहितस्य गोदोहनस्य प्रणयनोपकारकत्वात्तदङ्गत्वापत्तिः । अथान्यानुपकारकत्वघटितं तदा गोदोहनस्य प्रणयनान्यपशूपकारकत्वान्नातिप्रसङ्ग इति चेत् । गोदोहनस्य पश्वङ्गत्वमेव न स्यादित्यादिबहुदोषग्रस्तत्वादवश्यं परोद्देशप्रवृत्तकृतिकारकत्वेन विहितत्वरूपमेव शेषत्वं निर्वाच्यमिति ।

  4. (अ॰ ३ पा॰ ३ अ॰ ४ सू॰ ११)
  5. उत्तरपरिचोदनेति—‘आरादपीति चेत्’ इत्यनेन क्रियमाणपरिचोदनेत्यर्थः । अत इदं भाष्यं ‘न तद्वाक्यं हि तदर्थत्वात्’ इत्यत्रोत्कृष्य व्याख्येयमित्याशयः ।

  6. (अ॰ ४ पा॰ ३ अ॰ ८ सू॰ २९) इत्यत्रेति शेषः
  7. (अ॰ ३ पा॰ १ अ॰ १२ सू॰ २२)
  8. (अ॰ ९ पा॰ २ अ॰ १४ सू॰ ४४)
  9. इति वक्ष्यति—इति सूत्रेण पूर्वपक्षयित्वा ‘क्रियेरन् वाऽर्थनिवृत्तेः’ इति सिद्धान्तसूत्रेण वक्ष्यतीत्यर्थः ।

  10. अभ्युदितेष्ट्यामिति—‘यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदियात्, स त्रेधा तण्डुलान्विभजेत् । ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेत् । ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं, येऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम्’ इति वाक्येन दर्शपूर्णमासयोरकालोपक्रमनिमित्तदोषपरिहारार्थतया विहितायामभ्युदितेष्टाक्त्यिर्थः ।