अध्यायः 105
भीष्मेण युधिष्ठिरंप्रति राज्ञां
शत्रुजयोपायप्रतिपादककौसल्यकालकवृक्षीयसंवादानुवादः ॥ 1 ॥
अथ चेत्पौरुषं किंचित्क्षत्रियात्मनि पश्यसि ।
ब्रवीम्यहं तु ते नीतिं राज्यस्य प्रतिपत्तये ॥
तां चच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि ।
शृणु सर्वमशेषेण यत्ते वक्ष्यामि तत्त्वतः ॥
आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि ।
राज्यं वा राज्यमन्त्रं वा महतीं वा पुनः श्रियम् ।
यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते ॥
राजोवाच ।
ब्रवीतु भगवान्नीतिमभिपन्नोऽस्म्यधीहि भो ।
अमोघ एव मेऽद्यास्तु त्वया सह समागमः ॥
मुनिरुवाच ।
हित्वा मानं च दम्भं च क्रोधं हर्ष भयं तथा ।
प्रत्यमित्राणि सेवस्व प्रणिपत्य कृताञ्जलिः ।
तमुत्तमेन शौचेन कर्मणा चावधारय ॥
दातुमर्हति ते वित्तं वैदेहः सत्यविक्रमः ।
प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि ॥
ततः सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन् ।
वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः ।
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः ॥
तेनैव त्वं धृतिमता श्रीमता चापि सत्कृतः ।
प्रमाणं सर्वभूतेषु गत्वा च ग्रहणं महत् ॥
ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम् ।
सान्त्वेन भेदयित्वाऽरीन्बिल्वं बिल्वेन शातय ।
परैर्वा संविदं कृत्वा बलमप्यस्य घातय ॥
अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च ।
शय्यासनानि यानानि महार्हाणि गृहाणि च ॥
पक्षिणो मृगजातानि रसगन्धाः फलानि च ।
तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः ॥
यद्येवं प्रतिषेद्धव्यो यद्युपेक्षणमर्हति ।
`सदैव राजशार्दूल विदुषा हितमिच्छता ।'
न जातु विवृतः कार्यः शत्रुः सुनयमिच्छता ॥
वसस्व पुरमामित्रं विषये मित्रसंमतः ।
भजस्व श्वेतकाकीयैर्मित्रधर्ममनथैकैः ॥
आरम्भांश्चास्य महतो दुष्करान्संप्रयोजय ।
नदीबन्धविभेदांश्च बलवद्भिर्विरुध्यताम् ॥
उद्यानानि महार्हाणि शयनान्यासनानि च ।
प्रीतिभोगमुखेनैव कोशमस्य विरोचय ॥
यज्ञदाने प्रशंसास्मै ब्राह्मणाननुवर्तय ।
ते त्वा प्रियं करिष्यन्ति तच्छेत्स्यन्ति वृका इव ॥
असंशयं पुण्यशीलाः प्राप्नोति परमां गतिम् ।
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति शाश्वतम् ॥
कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति ।
उभयत्र प्रयुक्तस्य धर्मे चाधर्म एव च ॥
फलार्थमूलमुच्छिद्यात्तेन नन्दन्ति शत्रवः ।
न चास्मै मानुषं कर्म दैवप्रस्योपवर्णय ॥
असंशयं दैवपरः क्षिप्रमेव विनश्यति ।
याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम् ॥
ततो गच्छत्यसिद्धार्थः पीडयानो महाजनम् ।
त्यागधर्मविदं पुण्यं कंचिदस्योपवर्णय ॥
अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम् ।
सिद्धेनौषधियोगेन सर्वशत्रुविनाशिना ।
गजानश्वान्मनुष्यांश्च कृतकैरुपघातय ॥
एते चान्ये च बहवो दम्भयोगाः सुचिन्तिताः ।
शक्या विपहता कर्तुं न क्लीबेन नृपात्मज ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥
12-105-4 अभिपन्नोऽस्मि पौरुषेणेति शेषः ॥ 12-105-6 प्रमाणं
विश्वासम् ॥ 12-105-7 स्वशास्त्रे नीतिशास्त्रे ॥ 12-105-8 ग्रहणं आदरम् ॥ 12-105-13 श्वेतकाकीयैः श्वा च एतश्च काकश्च तेषामिति धर्माः । क्रमेण नित्यं
जागरूकत्वभयचकितत्वपरेङ्गितज्ञत्वानि तैः उपायैः मित्रधर्मं भजस्व । श्वेत
इत्यत्रोमाडोश्चेति पररूपम् । एतो मृगः ॥ 12-105-14 नदीवच्च विरोधांश्चेति झ.
पाठः । तत्र आरम्भान्विरोधांश्च महानदीवद्दुस्तरानित्यर्थः ॥ 12-105-18
धर्माधर्माभ्यां कोशक्षये सति ॥ 12-105-19 फलस्य स्वर्गादेः अर्थस्य जयादेः
मूलकारणं कोशः ॥