अध्यायः 028

द्रौपद्या युधिष्ठिरंप्रति कालभेदेन क्षमाकोपयोरवश्याश्रयणीयत्वे प्रमाणतया बलिप्रह्लादसंवादानुवादपूर्वकंप्रकृते कोपस्यावश्यादरणीयत्वोक्तिः ॥

द्रौपद्युवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च ॥
असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् ।
बलिः पप्रच्छ दैत्येनद्रं प्रह्लादं पितरं पितुः ॥
क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत ।
एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते ॥
श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम् ।
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः ।
सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते ॥
प्रह्लाद उवाच ।
न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा ।
इति तात विजानीहि द्वयमेतदसंशयम् ॥
यो नित्यं क्षमते तात बहून्दोषान्स विन्दति ।
भृत्याः परिभवन्त्येनमुदासीनास्तथाऽरयः ॥
सर्वभूतानि चाप्यस् न नमन्ते कदाचन ।
तस्मान्नित्यं क्षमा तात पण्डितैरपि वर्जिता ॥
अवज्ञाय हितं भृत्या भजन्ते बहुदोषताम् ।
आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः ॥
यानं वस्त्राण्यलंकाराञ्शयनान्यासनानि च ।
भोजनान्यथ पानानि सर्वोपकरणानि च ॥
आददीरन्नधिकृता यथाकाममचेतसः ।
प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् ॥
न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन ।
अव्रज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् ॥
क्षमिणं तादृशं तांत ब्रुवन्ति कटुकान्यपि ।
प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः ॥
अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः ।
दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ॥
तथा च नित्यमुदिता यदि नाल्पमपीश्वरात् । `अकृतोपद्रवः कश्चिन्महानपि न पूज्यते ।
पूजयन्ति नरा नागान्न तार्क्ष्यं नामघातिनम् ॥' एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् ।
अथ वैरोचने दोषानिमान्विद्ध्यक्षमांवताम् ॥
अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ॥
अस्थाने यदि वा स्थाने सततं रजसावृतः ।
क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा ॥
मित्रैः सह विरोधं च प्राप्नुते तेजसाऽऽवृतः ।
आप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ॥
सोऽवमानादर्थहानिमुपालम्भमनादरम् ।
संतापद्वेषमोहांश्च शत्रूंश्च लभते नरः ॥
क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषोऽनयात् ।
भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ॥
योपकर्तॄश्च हर्तॄश्च तेजसैवोपगच्छति ।
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥
यस्मादुद्विजतेलोकः कथं तस्य भवो भवेत् ।
अन्तरं तस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् ॥
तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् ।
कालेकाले तु संप्राप्ते मृदुस्तीक्ष्णोपि वा भवेत् ॥
काले मृदुर्यो भवति काले भवति दारुणः ।
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥
क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् ।
ये ते नित्यमसंत्याज्या यथा प्राहुर्मनीषिणः ॥
पूर्वोपकारी यस्ते स्यादपराधे गरीयसि ।
उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ॥
अबुद्धिमाश्रितानां तु क्षन्तव्यमपराधिनाम् ।
न हि सर्वत्र पाण्डित्वं सुलभं पुरुषेण वै ॥
अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् ।
पापान्स्वल्पेऽपि तान्हन्यादपराधे तथाऽनृजून् ॥
सर्वस्यैकोपराधस्ते क्षन्तव्यः प्राणिनो भवेत् ।
द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ॥
अजानता भवेत्कश्चिदपराधः कृतो यदि ।
क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ॥
मृदुना दारुणं हन्ति मृदुना हन्त्यदारुणम् ।
नासाध्यं मृदुना किंचित्तस्मात्तीव्रतरं मृदु ॥
देशकालौ तु संप्रेक्ष्य बलाबलमथात्मनः । अन्वीक्ष्यकारणं चैव कार्यं तेजः क्षमापि वा ॥'
नादेशकाले किंचित्स्याद्देशकालौ प्रतीक्षताम् ।
तथा लोकभयाच्चैव क्षन्तव्यमपराधितम् ॥
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः ।
अतोऽन्यथाऽनुवर्तत्सु तेजसः काल उच्यते ॥
तदहं तेजसः कालं तव मन्ये नराधिप ।
धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ॥
न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति ।
तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ॥
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः । काले प्राप्ते द्वयं चैतद्यो वेद स महीपतिः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥

3-28-2 आगतागमं प्राप्तरहस्यम् ॥ 3-28-4 श्रेयः प्रशस्ततरम् । अत्र क्षमातेजसोर्मध्ये ॥ 3-28-8 अस् एनम् ॥ 3-28-11 अधिकृताः अन्नपानादिसंरक्षणे नियुक्ताः । प्रदिष्टानि इदमस्मै देयमित्याज्ञापितानि ॥ 3-28-12 एनं क्षमिणम् । भर्तृपूजाभिः स्वाम्युचितमानेन ॥ 3-28-18 तेजसा क्रोधेन ॥ 3-28-20 उपालम्भं धिक्करम् ॥ 3-28-22 उपकर्तॄनिति च्छेदः । रसंधिरार्षः । उपकर्तॄकोशादिवृद्धिकरान् । हर्तॄन् चोरान् ॥ 3-28-23 भवः ऐश्वर्यम् अन्तरं छिद्रम् ॥ 3-28-28 अबुद्धिं मौढ्यम् ॥ 3-28-30 अपकृते अपकारे ॥ 3-28-32 मृदुना साम्रा ॥ 3-28-37 उत्स्रष्टुं प्रयोक्तुम् ॥