अध्यायः 042

पार्थेन मातलिसमानीतरथारोहणएन स्वर्गगमनम् ॥ 1 ॥

वैशंपायन उवाच ।
गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः ।
चिन्तयामास राजेन्द्र देवराजरथागमम् ॥
तस्य चिन्तयमानस्य गुडाकेशस्य धीमतः ।
रथो मातलिसंयुक्त आजगाम महाप्रभः ॥
नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव । दिशः संपूरयन्नादैर्महामेघरवोपमैः ।
असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः ।
दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः ॥
तथैवाशनयश्चैव चक्रयुक्तास्तुलागुडाः ।
वायुस्फोटाः सनिर्घाताः शङ्खमेघस्वनास्तथा ॥
तत्रनागा महाकाया ज्वलितास्याः सुदारुणाः ।
सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः ॥
दशवाजिसहस्राणि हरीणां वातरंहसाम् ।
वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् ॥
तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम् ।
ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम् ॥
तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम् ।
दृष्ट्वा पार्थो महाबाहुर्देवराजमतर्कयत् ॥
तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः ।
सन्नतः प्रस्थितो भूत्वा वाक्यमर्जुनमब्रवीत् ॥
भोभो शक्रात्मज श्रीमञ्शक्रस्त्वां द्रष्टुमिच्छति ।
आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संभतम् ॥
आह माममरश्रेष्ठः पिता तव शतक्रतुः ।
कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः ॥
एष शक्रः परिवृतो देवैर्ऋषिगणैस्तथा ।
गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते ॥
अस्माल्लोकाद्देवलोकं पाकशासनशासनात् ।
मारोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि ॥
अर्जुन उवाच ।
मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम् ।
राजसूयाश्वमेधानां शतैरपि सुदुर्लभम् ॥
पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः ।
दैवतैर्वा दुरारोहं दानवैर्वा रथोत्तमम् ॥
नातप्ततपसा शक्य एष दिव्यो महारथः ।
द्रष्टुं वाऽप्यथवा स्प्रष्टुमारोढुं कुत एव च ॥
त्वयि मतिष्ठिते साधो रथस्थे स्थिरवाजिनि ।
पश्चादहमथारोक्ष्ये मुकृती सत्पथं यथा ॥
वैशंपायन उवाच ।
तस्यतद्वचनं श्रुत्वा मातलिः शक्रसारथिः ।
आरुरोह रथं शीघ्रं हयाञ्जग्राह रश्मिभिः ॥
ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः ।
जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः ॥
ततः पितृन्यथान्यायं तर्पयित्वा यथाविधि ।
मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे ॥
साधूनां पुण्यशीलानां मुनीनां पुण्यकर्मणाम् ।
त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् ॥
त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः ।
स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः ॥
अद्रिराज महाशैल मुनिसंश्रय तीर्थवन् ।
गच्छाम्यामन्त्रयित्वा त्वां सुखमस्म्युषितस्त्वयि ॥
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च ।
तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः ॥
सुसुगन्धाश्च वैर्योघास्त्वच्छरीरविनिःसृताः ।
अमृतास्वादसृशाः पीताः प्रस्रवणोदकाः ॥
शिशुर्यथा पितुश्चाङ्के सुखं शेते तटे तथा ।
मया तवाङ्के ललितं शैलराज महाप्रभो ॥
अप्सरोगणसंकीर्णए ब्रह्मघोषानुनादिते ।
सुखमस्म्युषितः शैल तव सानुषु नित्यदा ॥
एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा ।
आरुरोह रथं दिव्यं द्योतयन्निव भास्करः ॥
स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा ।
ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः ॥
सोऽदर्शनपथं यातो मर्त्यानां धर्मचारिणाम् ।
ददर्शाद्भुतरूपाणि विमानानि सहस्रशः ॥
न तत्र सूर्यः सोमो वा द्योतते न च पावकः ।
स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया ॥
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै ।
आकाशे विप्रकृष्टत्वात्तनूनि सुमहान्त्यपि ॥
तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः ।
ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयाऽर्चिषा ॥
तत्र राजर्षयः सिद्धा वीराश्च निहता युधि ।
तपसा च जितं स्वर्गं संपेतुः शतसङ्घशः ॥
गन्धर्वाणां सहस्राणि मूर्यज्वलिततेजसाम् ।
गुह्यकारनामृषीणां च तथैवाप्सरसां गणान् ॥
लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः ।
पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह ॥
एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः ।
तान्दृष्टवानसि विभो तारारूपाणि भूतले ॥
ततोऽपश्यत्स्थितं द्वारि मत्तं विजयिनं गजम् ।
ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् ॥
स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः ।
व्यरोचत यथापूर्वं मान्धाता पार्थिवोत्तमः ॥
अभिचक्राम लोकान्स राज्ञां राजीवलोचनः ॥
[एवं स संक्रमंस्तत्र स्वर्गलोके महायशाः ।] ततो ददर्श शक्रस्य पुरीं ताममरावतीम् ॥

॥ इति रश्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥

3-42-3 पाटयन् द्विधाकुर्वन् ॥ 3-42-5 तुलागुडाः भाण्डगोलकाः । वायुस्फोटाः वेगवशाद्वायुं जनयन्तः ॥ 3-42-7 हरीणां पीतकौशेयसंनिभानां वाजिनां सहस्राणीत्येकदेशान्वयः ॥ 3-42-8 वैजयन्तं नाम्ना देवेन्द्रध्वजम् ॥ 3-42-20 आप्लुतः स्नातः ॥ 3-42-27 ललितं क्रीडितम् ॥ 3-42-33 विप्कृष्टत्वात् दूरत्वात् । सुमहान्त्पि तनूनि सूक्ष्माणि दृश्यन्ते ॥ 3-42-34 धिष्ण्येषु स्थानेषु ॥ 3-42-42 संक्रमन् गच्छन् ॥