अध्यायः 004

युधिष्ठिरंप्रति नकुलेन विराटनगरे अश्वपालकतया स्वस्य निवासकथनम् ॥ 1 ॥ सहदेवेन गोपालकतया स्वस्य निवासकथनम् ॥ 2 ॥ द्रौपद्या सैरन्ध्रीभावेन स्वस्य निवासकथनम् ॥ 3 ॥

वैशंपायन उवाच ।
इत्येवमुक्त्वा पुरुषप्रवीरस्तथार्जुनो धर्मामृतां वरिष्ठः । वाक्यं तथासौ .... भूयो नृपोऽपरं भ्रातर...बभाषे
किंकर्मा किंसमाचारो नकुलोयं भविष्यति ।
सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ॥
अदुःखार्हश्च बालश्च लालितश्चापि नित्यशः ।
सोयमार्तश्च शान्तश्च किं नु रोचयतात्त्विह ॥
किं त्वं नकुल कुर्वाणस्तस्य तात चरिष्यसि ।
कर्म तत्त्वं समाचक्ष्व राज्ये तस्य महीपतेः ॥
नकुल उवाच ।
अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः ।
दामग्रन्थीति नाम्नाऽहं कर्मैतत्सुप्रियं मम ॥
दामग्नन्थी परिज्ञातः कुशलो दामकर्मणि ।
न मां परिभविष्यन्ति जना जात्विह कर्हिचित् ॥
कुशलोत्स्म्यश्वशिक्षायां तथैवाश्वचिकित्सने ।
प्रियाश्च सततं मेऽश्वाः कुरुराजा यथा तव ॥
न मां परिभविष्यन्ति किशोरा वडवास्तथा ।
न दुष्टाश्च भविष्यन्ति पृष्ठे धुरि च मद्गताः ॥
द्रक्ष्यन्ति ये च मां केचिद्विराटनगरे जनाः ।
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ॥
पाण्डवेन ह्यहं तात अश्वेष्वधिकृतः पुरा । इति तस्य पुरे छन्नश्चरिष्यामि महीपते ।
इत्येतद्वः प्रतिज्ञातं विहरिष्याम्यहं यथा ॥
वैशंपायन उवाच ।
नकुलेनैवमुक्तस्तु धर्मराजोऽब्रवीद्वचः ।
बृहस्पतिसमो बुद्ध्या नयेनोशनसा समः ॥
मन्त्रैर्नानाविधैर्नीतः पथ्येषु परिनिष्ठितः ।
सुप्रणीतः सुमार्गस्थो राजतन्त्रमवाप यः ॥
न चास्य स्खलितं किंचिद्ददृशुस्तद्विदो जनाः ।
सुनीतिज्ञश्च शूरश्च सर्वमन्त्रविशारदः ॥
अधिको मातुरस्माकं कुन्त्याः प्रियतमः सदा । सहदेव कथं कर्म तस्य राज्ञः करिष्यसि ।
किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ॥
सहदेव उवाच ।
गोसङ्ख्याता भविष्यामि विराटस्येति रोचये । प्रतिभोक्ता च दोग्धा च सङ्ख्यानकुशलो गवाम् ।
तन्त्रीपालेति मे नाम स्वयं प्रोक्तं भविष्यति ॥
अयोगा बहुलाः पुष्टाः क्षीरवत्यो बहुप्रजाः ।
निष्पन्नसत्त्वाः सुभृता ह्यपेतज्वरकिल्विषाः ॥
दृष्टचोरभया नित्यं व्याधिव्याघ्रविवर्जिताः ।
गावः सुसहिता राजन्निरुद्विग्ना निरामयः ॥
भविष्यन्ति मया गुप्ता विराटनगरे तदा ।
निपुणत्वं चरिष्यामि प्रीतिरत्र परा हि मे ॥
अहं हि भवता गोषु प्रहितः सतत पुरा ।
तत्र मे कौशलं सर्वमनुबद्धं विशांपते ॥
लक्षणं चरितं चैव गवां यच्चापि मङ्गलम् ।
सत्सर्वं मे सुविदितमन्यच्चापि विशांपते ॥
वृषभानपि जानामि राजन्पूजितलक्षणान् ।
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥
सोऽहमेवं चरिष्यामि प्रीतिरत्र परा हि मे ।
विराटनगरे गूढो रंस्येऽहं तेन कर्मणा ॥
तोषयिष्ये च राजानां मा भूच्चिन्ता तवानघ । न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव ।
इत्येतद्वः प्रतिज्ञातं विचरिष्याम्यहं यथा ॥
युधिष्ठिर उवाच ।
केनात्र कर्मणा कृष्णा द्रौपदी विचरिष्यति ।
न हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः ॥
माल्यागन्धानलङ्कारान्वस्त्राणि विविधानि च ।
एतान्येवाभिजानाति यथाजाता च भामिनी ॥
पतिव्रता महाभागा कथं नु विचरिष्यति ।
इयं तु नः प्रिया भार्या प्राणेभ्योपि गरीयसी ॥
मातेव परिपाल्या च पूज्या ज्येष्ठा स्वसेव च । सुकुमारी सुशीला च राजपुत्री यशस्विनी ।
कथं वत्स्यति कल्याणी विराटनगरे सती ॥
द्रौपद्युवाच ।
अहं वत्स्यामि राजेन्द्र निर्वृतो भव पार्थिव । यथा ते मत्कृते शोको न भवेन्नृपते शृणु ।
यथा तु मां न जानन्ति यत्करिष्याम्यहं प्रभो ॥
छन्ना वत्स्याम्यहं यन्मां न विजानन्ति केचन ।
वृत्तं तच्च समाख्यास्ये शर्म तेस्तु विशांपते ॥
सैरन्ध्रीजातिसंपन्ना नाम्नाऽहं व्रतचारिणी ।
भविष्यामि महाराज विराटस्येति मे मतिः ॥
सैरन्ध्र्यो रक्षिताः स्त्रीणां भुजिष्याः सन्ति भारत ।
एकपत्न्यः स्त्रियश्चैता इति लोकस्य निश्चयः ॥
साऽहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि ।
प्रमदाहरिका लोके पुरुषाणां प्रवासिनाम् ॥
युधिष्ठिरस्य वै गेहे द्रौपद्याः परिचारिका । उषिताऽस्मीति वक्ष्यामि पृष्टा राज्ञा च भारत ।
आत्मगुप्ता चरिष्यामि यन्मां त्वं परिपृच्छसि ॥
नाहं तत्र भविष्यामि दुर्भरा राजवेश्मनि ।
कृत्वा चैव सदा रक्षां व्रतेनैव नराधिप ॥
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् ।
सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ॥
अथ गुप्ता चरिष्यामि युष्माभिस्तत्र तस्थुषी ।
इत्येवं वः प्रतिज्ञातं विहरिष्याम्यहं यथा ॥
युधिष्ठिर उवाच ।
यथा नो दुर्हृदः पापा भवन्ति सुखिनः पुनः ।
कुर्यास्तथा त्वं कल्याणि लक्षयेयुर्न ते जनाः ॥
कल्याणं भाषसे कृष्णे यथा कौलेयकी तथा । न पापमभिजानासि साध्वी साधुव्रते स्थिता ॥