अध्यायः 006

पाण्डवैर्धौम्यविसर्जनपूर्वकं विराटनगरसमीपगमनम् ॥ 1 ॥

वैशंपायन उवाच ।
तेऽग्निं प्रदक्षिणं कृत्वा ब्राह्मणं च पुरोहितम् ।
अभिवाद्य ततः सर्वे प्रस्थातुमुपचक्रमुः ॥ 1 ॥
युधिष्ठिर उवाच ।
अनुशिष्टोस्मि भद्रं ते नैतद्वक्ताऽस्ति कश्चन ।
कुन्तीमृते मातरं नः पितरं च यशस्विनम् ॥ 2 ॥
यदेवानन्तरं कार्यं तद्भवान्वक्तुमर्हति ।
तारणाय तु दुःखस्य प्रस्थानाय भवाय च ॥ 3 ॥
वैशंपायन उवाच ।
तेषां प्रतिष्ठमानानां धौम्यो मन्त्रानथाजपत् । सर्वविघ्नप्रशमनानर्थसिद्धिकरांस्तथा ।
ततः पावकमुञ्ज्वाल्य मन्त्रहव्यपुरुस्कृतम् ॥ 4 ॥
याज्ञसेनीं पुरस्कृत्य सर्व एव महारथाः ।
प्राद्रवन्सह धौम्येन बद्धशस्त्रा वनाद्वनम् ॥ 5 ॥
ते वीरा बद्धनिस्त्रिंशा धनुर्बाणकलापिनः ।
अगच्छन्भीमधन्वानः काम्यकाद्यमुनां नदीम् ॥ 6 ॥
उत्तरेण दशार्णानां पाञ्चालान्दक्षिणेन तु ।
अन्तरेण यकृल्लोम्नः शूरसेनांश्च पाण्डवाः ॥ 7 ॥
ते तस्या दक्षिणं तीरमन्वगच्छन्पदातयः ।
ततः प्रत्यक्प्रयातास्ते संक्रामन्तो वनाद्वनम् ॥ 8 ॥
वसाना वनदुर्गेषु रमणीयेषु धन्विनः ।
पल्वलेषु च रम्येषु नदीनां संगमेषु च ॥ 9 ॥
द्रुमान्नानाविधाकारान्नानाविधलताकुलान् ।
कुसुमाढ्यान्मनःकान्ताञ्शुभगन्धान्मनोरमान् ॥ 10 ॥
पार्था निरीक्षमाणाश्च तान्द्रुमान्पुष्पशालिनः ।
जिघ्रन्तः पुष्पगन्धांश्च फलगन्धान्मनोरमान् ॥ 11 ॥
विध्यन्तो मृगजातानि महेप्वासा महाबलाः । उपित्वा द्वादशसमा वने परपुरंजयाः ।
लुब्धान्ब्रुवाणा मात्स्यस्य विपयं प्राविशंस्तदा ॥ 12 ॥
तत्र धौम्यं महेप्वासाः पाण्डवेया व्यसर्जयन् ।
अग्निहोत्रं परिचरन्सोऽबुद्धोऽवसदाश्रमे ॥ 13 ॥
ततस्तेषु प्रयातेषु पाण्डवेषु महात्मसु । इन्द्रसेनमुखाश्चैव यथोक्तं प्राप्य निर्वृताः ।
रथानश्वांश्च रक्षन्तः सुखमूषुः सुसंवृताः ॥ 14 ॥
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् ॥ 15 ॥
पश्यैकपद्यो दृश्यन्ते क्षेत्रे गोष्ठं समाश्रिताः ।
वृक्षांश्चोपवनोपेतान्ग्रामाणां नगरस्य च ॥ 16 ॥
व्यक्तं दूरे विराटम...राजधानी भविष्यति ।
वसामेहापरां रात्रिं बलवान्मे परिश्रमः ॥ 17 ॥
युधिष्ठिर उवाच ।
इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन ।
मुहूर्तं परिगृह्यैनां घाहुभ्यां नकुल व्रज ॥ 18 ॥
ततोऽदूरे विराटस्य नगरं भरतर्षभ ।
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ॥ 19 ॥
नकुल उवाच ।
पूर्वाह्णे मृगयां कृत्वा मया विद्धा मृगा वने ।
अटवी च मया दूरं धृता मृगवधेप्सुना ॥ 20 ॥
विषमा ह्यतिदुर्गा च वेगवत्परिधावता ।
सोहं धर्माभितप्तो वै नैनामादातुमुत्सहे ॥ 21 ॥
युधिष्ठिर उवाच ।
सहदेव त्वमादाय मुहूर्तं द्रौपदीं नय ।
राजधान्यां निवत्स्यामः सुमुक्तमिव नो वनम् ॥ 22 ॥
सहदेव उवाच ।
अहमप्यस्मि तृषितः क्षुधया परिपीडितः ।
परिश्रान्तश्च भद्रं ते नैनामादातुमुत्सहे ॥ 23 ॥
युधिष्ठिर उवाच ।
एहि वीर विशालाश्च वीरसिंह इवार्जुन ।
इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम् ॥ 24 ॥
परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं व्रज ।
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ॥ 25 ॥
वैशंपायन उवाच ।
गुरोर्वचनमाज्ञाय संप्रहृष्टो जितेन्द्रियः । बाहुभ्यां परिगृह्याथ राजपुत्रीमनिन्दिताम् ।
प्रवव्राज महाबाहुरर्जुनः प्रियदर्शनाम् ॥ 26 ॥
जटिलो वल्कलधरः शततूणीधनुर्धरः । स्कन्धे कृत्वा वरारोहां बालामायतलोचनाम् ।
आनीय नगराभ्याशमवातारयदर्जुनः ॥ 27 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि षष्ठोऽध्यायः ॥ 6 ॥