अध्यायः 028

युधिष्ठिरेण सञ्जयंप्रति धर्माधर्मनिर्णयस्य इतरासाधारणतया स्वस्य धर्मरहस्यज्ञश्रीकृष्णवचनानुययित्वकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
असंशयं सञ्जय सत्यमेत- द्धर्मो वरः कर्मणां यत्त्वमात्थ ।
ज्ञात्वा तु मां सञ्जय गर्हयेस्त्वं यदि धर्मं यद्यधर्मं चरामि ॥
यत्राधर्मो धर्मरूपाणि धत्ते धर्मः कृत्स्नो दृश्यतोऽधर्मरूपः ।
बिभ्रद्धर्मो धर्मरूपं तथा च विद्वांसस्तं संप्रपश्यन्ति बुद्ध्या ॥
एवं तथैवापदि लिङ्गमेत- द्धर्माधर्मौ नित्यवृत्ती भजेताम् ।
आद्यं लिङ्गं यस्य तस्य प्रमाण- मापद्धर्मं सञ्जय तं निबोध ॥
लुप्तायां तु प्रकृतौ येन कर्म निष्पादयेत्तत्परीप्सेद्विहीनः ।
प्रकृतिस्थश्चापदि वर्तमान उभौ गर्ह्यौ भवतः सञ्जयैतौ ॥
अविनाशमिच्छतां ब्राह्मणानां प्रायश्चित्तं विहितं यद्विधात्रा ।
संपश्येथाः कर्मसु वर्तमानान् विकर्मस्थान्सञ्जय गर्हयेस्त्वम् ॥
मनीषिणां सत्त्विच्छेदनाय विधियते सत्सु वृत्तिः सदैव ।
अब्राह्मणाः सन्ति तु ये न वैद्याः सर्वोत्सङ्गं साधु मन्येत तेभ्यः ॥
तदध्वानः पितरो ये च पूर्वे पितामहा ये च तेभ्यः परेऽन्ये ।
यज्ञैषिणो ये च हि कर्म कुर्यु- र्नान्यं ततो नास्तिकोऽस्मीति मन्ये ॥
यत्किंचनेदं वित्तमस्यां पृथिव्यां यद्देवानां त्रिदशानां परं यत् ।
प्राजापत्यं त्रिदिवं ब्रह्मलोकं नाधर्मतः सञ्जय कामयेयम् ॥
धर्मेश्वरः कुशलो नीतिमांश्चा- प्युपासिता ब्राह्मणानां मनीषी ।
नानाविधांश्चैव महाबलांश्च राजन्यभोजाननुशास्ति कृष्णः ॥
यदि ह्यहं विसृजत्साम गर्ह्यो नियुध्यमानो यदि जह्यां स्वधर्मम् ।
महायशाः केशवस्तद्ब्रवीतु वासुदेवस्तूभयोरर्थकामः ॥
शैनेयोऽयं चेदयश्चान्धकाश्च वार्ष्णेयभोजाः कुकुराः सृञ्जयाश्च ।
उपासीना वासुदेवस्य बुद्धिं निगृह्य शत्रून्सुहृदो नन्दयन्ति ॥
वृष्ण्यन्धका ह्युग्रसेनादयो वै कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः ।
मनस्विनः सत्यपरायणाश्च महाबला यादवा भोगवन्तः ॥
काश्यो बभ्रुः श्रियमुत्तमां गतो लब्ध्वा कृष्णं भ्रातरमीशितारम् ।
यस्मै कामान्वर्षति वासुदेवो ग्रीष्मात्यये मेघ इव प्रजाऽभ्यः ॥
ईदृशोऽयं केशवस्तात विद्वान् विद्धि ह्येनं कर्मणां निश्चयज्ञम् ।
प्रियश्च नः साधुतमश्च कृष्णो नातिक्रामे वचनं केशवस्य ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि अष्टाविंशोऽध्यायः ॥

5-28-2 धर्माधर्मपरीक्षायां त्रैविध्यमाह यत्रेति । यत्र पुरुषे दम्भादिमति अधर्मः अभिचारार्थं मन्त्रजपादिः धर्म इत्येवान्ये जानन्ति । तथा प्रच्छन्नयोगिनि दत्तात्रेयादौ धर्मो रागद्वेषादिशून्यतारूपो योगधर्मोऽपि उन्मत्तवदाचरणादधर्मरूप इव दृश्यते । यत्र वसिष्ठादौ धर्मः धर्मरूप एव । यद्यपि चाण्डालादौ अधर्मोऽप्यधर्मरूप एवास्ति तथापि तस्यानुपादेयत्वान्त्रयमेव विचार्यम् । एतच्च त्वथापि विदुषा मयि विचार्यमित्याशयः ॥ 2 ॥ 5-28-3 आपत्कालवशाद्धर्माधर्मयोर्व्यत्यासो जायत इत्याह एवमिति । एतदेवंरूपं लोकप्रत्यक्षं लिङ्गं ब्राह्मणस्य स्वाध्यायप्रवचनादि । क्षत्रियस्य शौर्यादि । वैश्यस्य कृष्यादि । तत्तथैव यथोक्तमेव । तथापि नित्यवृत्ती नित्यं वर्तेते तौ नित्यवृत्ती धर्माधर्मौ तल्लिङ्गं भजेताम् । अयं भावः । क्षत्रलिङ्गं ब्राह्मणवैश्ययोरापदि धर्मः अनापद्यधर्मः । तथा चैकस्यैव लिङ्गस्य वर्णान्तरे अवस्थाभेदाद्धर्मत्वमधर्मत्वं च नित्यमिति । तत्रापि विशेषमाह आद्यमिति । आद्यं ब्राह्मणलिङ्गं याजनादि यस्यास्ति ब्राह्मणस्य तस्यैव तत् प्रमाणं अव्यभिचारि । आपद्यपि क्षत्रियेण याजनाध्यापनादिकं न कर्तव्यमित्यर्थः । एवं विधं तं आपद्धर्मं शास्त्रान्निबोध बुध्यस्व ॥ 3 ॥ 5-28-4 प्रकृतिः जीविकाहेतुभूतं धनम् । तच्च क्षत्रियस्य भूमिशस्त्रादिकम् । वैश्यस्य धपश्वादिकम् । तस्मिन्सर्वात्मना नष्टे सति येन कर्म संध्योपासनादिकं निष्पादयेत् तत् भिक्षाटनादिकमपि परिप्सेत्कर्तुमिच्छेत् । अन्यथा जीविकाया अभावात्कर्मलोपः प्राणनाशश्च स्यादतोऽत्यन्तापदि तावान् विप्रधमाऽपीतरैरनुष्ठेय एव । प्रकृतिस्थश्चेति । आपदि आपद्धर्मे प्रकृतिस्थोऽपि यद्यापद्वर्ममनुसरेत्स लोभाद्गर्ह्याः । आपत्स्थोऽपि यदि प्राकृतं धरममनुसरेत्स जीवनलोपात् कुटुम्बहिंसया च गर्ह्य इत्यर्थः । यो न कर्मेति कo डo पाठः ॥ 4 ॥ 5-28-5 यत् यस्माद्धेतोः । विधात्रा अविनाशं ब्राह्मण्यविनाशाभावमिच्छतां ब्राह्मणानां आपदुत्तीर्णानां प्रायश्चित्तं विहितम् । तस्माद्धएतोरापदि अन्यस्यान्यधर्माश्रयणं प्रसक्तमेवेति ज्ञायते । अत एव एवचक्रायागस्माभिः कृतं भिक्षाटनं नानुमितमित्यर्थः । एवमनापदि कर्मसु वर्तमानान् आपदि च विकर्मस्थान् संपश्येथाः सम्यगेवेदमिति पश्येथाः । अन्यथा तु आपदि कर्मस्थान् आत्मपरहिंस्रान् अनापदि विकर्मस्थांश्चतिलुब्धान् विहर्गयेस्त्वम् । आपद्येतान्कर्मसु इति कo डo पाठः ॥ 5 ॥ 5-28-6 किंच मनीषिणां मनसः निग्रहं नाशं कर्तुमिच्छताम् । ईष गतिहिंसादर्शनेष्वित्यस्य रूपम् । सत्त्विच्छेदनाय सत्त्वस्य बुद्धिसत्त्वस्य चिदात्मना सह एकलोलीभूतस्य विच्छेदनाय मुञ्जेषीकान्यायेन पृथक्करणाय सत्सु सतां गृहेषु वृत्तिर्जीविका शास्त्रे विधीयते । वेदानिमं लोकममुं च परित्यज्यात्मनात्मानमन्विच्छेदितिश्रुत्यात्मान्वेषणाय सर्वसंन्यासपूर्वकं भिक्षाचर्यविधानात् । न ब्राह्मी वृत्तिः कस्यापि निन्द्या । येतु अब्रह्माणा अपि वैद्याः विद्यानिष्ठाः न भवन्ति तेषां भिक्षाचर्यस्याविधानात् तेभ्यः तेषामर्थे सर्वोत्सङ्गं सर्वेषामुत्सङ्गं समीपं स्वधर्मसंयोगं आपदनापदोरुचितं साधु मन्येत । सर्वोच्छेदमिति कo डo पाठे तेभ्यस्तेषामर्थे भिक्षाद्यटनं सर्वधर्मोच्छेदाय मन्येतेत्यर्थः ॥ 6 । 5-28-7 तदधान इति । पित्रादयः यज्ञैषिणो ये ते सर्वे तदध्वानः स एव मयोक्तोऽध्वा मार्गो येषां ते तदध्वानोऽभूवन् । हि प्रसिद्धम् । ये च कर्म न कुर्युः संन्यासिन इत्यर्थः । ते सर्वे तदध्वानः । अहमपि आस्तिकेऽस्मिति ततोऽन्यं अध्वानं न मन्ये ॥ 7 ॥ 5-28-9 धर्मेश्वरः धर्मफलस्य दाता ॥ 9 ॥ 5-28-12 कृष्णप्रणीताः कृष्णेनैव नीतिपथं नीताः ॥ 12 ॥