अध्यायः 124

सङ्कुलयुद्धवर्णनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
किं तस्यां मम सेनायां नासन्केचिन्महारथाः ।
ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन् ॥
एको हि समरे कर्म कृतवान्सत्यविक्रमः ।
शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव ॥
अथवा शून्यमासीत्तद्येन यातः स सात्यकिः ।
हतभूयिष्ठमथवा येन यातः स सात्यकिः ॥
यत्कृतं वृष्णिवीरेण कर्म शंससि मे रणे ।
नैतदुत्सहते कर्तुं कर्म शक्रोऽपि सञ्जय ॥
अश्रद्धेयमचिन्त्यं च कर्म तस्य महात्मनः ।
वृष्ण्यन्धकप्रवीरस्य श्रुत्वा मे व्यथितं मनः ॥
न सन्ति तस्मात्पुत्रा मे यथा सञ्जय भाषसे ।
एको वै बहुलाः सेनाः प्रामृद्गात्सत्यविक्रमः ॥
कथं च युध्यमानानामपक्रान्ती महात्मनाम् ।
एको बहूनां शैनेयस्तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान् ।
अतुल्यस्तव सेनायां युगान्तसदृशोऽभवत् ॥
आहूतेषु समूहेषु तव सैन्यस्य मानद ।
नास्ति लोके समः कश्चित्समूह इति मे मतिः ॥
तत्रव देवास्त्वभाषन्त चारणाश्च समागताः ।
एतदन्ताः समूहा वै भविष्यन्ति महीतले ॥
न च वै तादृशो व्यूह आसीत्कश्चिद्विशाम्पते ।
यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत् ॥
`उद्धृता पृथिवी नूनं युद्धहेतोः समागतैः ।
इति तत्र जनाश्चाहुर्दृष्टा तां जनसंसदम्' ॥
चण्डवातविभिन्नानां समुद्राणामिव स्वनः ।
रणेऽभवद्बलौघानामन्योन्यमभिधावताम् ॥
पार्थिवानां समेतानां बहून्यासन्नरोत्तम ।
त्वद्बले प्राण्डवानां च सहस्राणि शतानि च ॥
संरब्धानां प्रवीराणां समरे दृढकर्मणाम् ।
तत्रासीत्सुमहाशब्दस्तुमुलो रोमहर्षणः ॥
`पाण़्डवानां कुरूणां च गर्जतामितरेतरम् ।
क्ष्वेलाः किलकिलाशब्दास्तत्रासन्वै सहस्रशः ॥
भेरीशब्दाश्च तुमुला बाणशब्दाश्च भारत ।
अन्योन्यं निघ्नतां चैव नराणां शुश्रुवे स्वनः' ॥
अथाक्रन्दन्भीसमेनो धृष्टद्युम्नश्च मारिष ।
नकुलः सहदेवश्च धर्मराजश्च पाण्डवः ॥
आगच्छत प्रहरत द्रुतं विपरिधावत ।
प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ ॥
यथा सुखेन गच्छेतां जयद्रथवधं प्रति ।
तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयन् ॥
तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः ॥
`यत्र यातौ महात्मानौ तूर्णं परपुरञ्जयौ' । ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम् ।
क्षोभयध्वं महावेगाः पवनः सागरं यथा ॥
भीमसेनेन ते राजन्पाञ्चाल्येन च नोदिताः ।
आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वाऽसूनात्मनः प्रियान् ॥
इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः ।
स्वर्गेप्सवो मित्रकार्ये नाभ्यनन्दन्त जीवितम् ॥
तथैव तावका राजन्प्रार्थयन्तो महद्यशः ।
आर्यां युद्धे मतिं कृत्वा युद्धायैवावतस्थिरे ॥
तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे ।
जित्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनं ॥
कवचानां प्रभास्तत्र सूर्यरश्मिविराजिताः । दृष्टीः सङ्ख्ये सैनिकानां प्रतिजघ्नुः समन्ततः ।
`ध्वजशस्त्रप्रतिहता लोकान्समवदीपयन् ॥
चण्डवातोद्धतान्मेघान्विकिरन्रश्मिमानिव ।
तथा तव महत्सैन्यं तद्व्यरोचत तापयन् ॥
सम्प्रहृष्टः स सहसा तव सैन्यार्णवं प्रति ।
लोलयन्सर्वतो गत्वा समुद्रं मकरो यथा ॥
तत्र राजन्महानासीत्सङ्ग्रामो भीतिवर्धनः ।
पाण्डवस्य महाबाहो तावकानां च दारुणः ॥
रुद्रस्याक्रीडसङ्काशः संहारः सर्वदेहिनाम् ।
ततः शब्दो महानासीत्प्रायाद्यत्र धनञ्चयः ॥
तत्र स्म कदनं घोरं वर्तते पाण्डुपूर्वज ।
अर्जुनस्य महाबाहोस्तावकानां च धन्विनाम् ॥
मध्ये भारतसैन्यस्य माधवस्य महारणे ।
द्रोणस्यापि परैः सार्धं व्यूहद्वारे सुदारुणम् ॥
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते ।
क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे' ॥
तथा प्रयतमानानां पाण्डवानां महात्मनाम् ।
दुर्योधनो महाराजन्व्यगाहत महद्बलम् ॥
स सन्निपातस्तुमुलस्तेषां तस्य च भारत ।
अभवत्सर्वभूतानामभावकरणो महान् ॥
धृतराष्ट्र उवाच ।
तथा यातेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् ।
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ॥
एकस्य च बहूनां च सन्निपातो महाहवे ।
विशेषतो नरपतेर्विषमः प्रतिभाति मे ॥
सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः ।
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ॥
सञ्जय उवाच ।
राजन्सङ्ग्राममाश्चर्यं तव पुत्रस्य भारत ।
एकस्य बहुभिः सार्धं शृणुष्व गदतो मम ॥
दुर्योधनेन समरे पृतना पाण्डवी रणे ।
नलिनी द्वरिदेनेव समन्तात्प्रतिलोडिता ॥
ततस्तां प्रहतां सेनां दृष्ट्वा पुत्रेण ते नृप ।
भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रुवन् ॥
स भीमसेनं दशभिः शरैर्विव्याध पाण्डवम् ।
त्रिभिस्त्रिभिर्यमौ वीरौ धर्मराजं च सप्तभिः ॥
विराटद्रुपदौ षद्भिः शतेन च शिखण्डिनम् ।
धृष्टद्युम्नं च विंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ॥
शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे ।
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥
न सन्दधद्विमुञ्चन्वा मण्डलीकृतकार्मुकः ।
अदृश्यत रिपून्निघ्नञ्छिक्षयाऽस्तबलेन च ॥
तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः ।
अजस्रं मण्डलीभूतं ददृशुः समरे जनाः ॥
ततो युधिष्ठिरो राजा भल्लाभ्यामच्छिनद्धनुः ।
तव पुत्रस्य कौरव्य यतमानस्य संयुगे ॥
विव्याध चैनं दशभिः सम्यगस्तैः शरोत्तमैः ।
वर्म चाशु समासाद्य ते भित्त्वा क्षितिमाविशन् ॥
ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम् ।
यथा वृत्रवधे देवाः पुरा शक्रं महर्षयः ॥
ततोऽन्यद्धनुरादाय तव पुत्रः प्रतापवान् ।
तिष्ठेतिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥
तमायान्तमभिप्रेक्ष्य तव पुत्रं महामृधे ।
प्रत्युद्ययुः समुदिताः पाञ्चाला जयगृद्धिनः ॥
तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम् ।
चण्डवातोद्धुतान्मेघान्गिरिरम्बुमुचो यथा ॥
तत्र राजन्महानासीत्सङ्ग्रामो रोमहर्षणः ।
पाण्डवानां महाबाहो तावकानां च संयुगे ॥
रुद्रस्याक्रीडसदृशः संहारः सर्वदेहिनाम् ॥
ततः शब्दो महानासीद्यातो येन धनञ्जयः ।
अतीव सर्वशब्देभ्यो रोमहर्षकरः प्रभो ॥
अर्जुनस्य महाबाहो तावकानां च धन्विनाम् । मध्ये भारतसैन्यस्य माधवस्य महारणे ।
द्रोणस्यापि परैः सार्धं व्यूहद्वारे महारणे ॥
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते ।
क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 124 ॥

5-124-9 अनीकेषु समूहेषु इति क.ख.पाठः ॥ 5-124-39 लक्ष्म्येति विशेषणे तृतीया ॥ 5-124-125 चतुर्विंशत्यधिकशततमोऽध्यायः ॥

श्रीः