अध्यायः 088

भीष्मेण युधिष्ठिरंप्रति प्रजाश्यः करग्रहणादिप्रकारकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते ।
कथं प्रवर्तेत करस्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
यथादेशं यथाकालं यथाबुद्धि यथाबलम् ।
अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः ॥
यथा तासां च मन्येत श्रेय आत्मन एव च ।
तथा धर्माणि सर्वाणि राजा राष्ट्रेषु वर्तयेत् ॥
मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न प्रपातयेत् ।
वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत् ॥
जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिपः ।
व्याघ्रीव च हरेत्पुत्रान्संदशेन्न च पीडयेत् ॥
यथा शल्यकवानाखुः पदं धूनयते सदा ।
अतीक्ष्णेनाभ्युपायेन तथा राष्ट्रं समापिबेत् ॥
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत् ।
ततो भूयस्ततो भूयः क्रमवृद्धिं समाचरेत् ॥
दमयन्निव दम्यानि शश्वद्भारं विवर्धयेत् ।
मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत् ॥
सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः ।
उचितेनैव भोक्तव्यास्ते भविष्यन्त्ययत्नतः ॥
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषं प्रति ।
यथा मुख्यान्सान्त्वयित्वा भोक्तव्या इतरे जनाः ॥
ततस्तान्भेदयित्वा तु परस्परविवक्षितान् ।
भुञ्जीत सान्त्वयंश्चैव यथासुखमयत्नतः ॥
न चास्थाने न चाकाले करांस्तेभ्यो निपातयेत् ।
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि ॥
उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता ।
अनुपायेन दमयन्प्रकोपयति वाजिनः ॥
पानागारनिवोशाश्च वेश्याः प्रापणिकास्तथा ।
कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः ॥
नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः ।
एते राष्ट्रेऽभितिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः ॥
न केनचिद्याचितव्यः कश्चित्किंचिदनापदि ।
इति व्यवस्था भूतानां पुरस्तान्मनुना कृता ॥
सर्वे तथाऽनुजीवेयुर्न कुर्युः कर्म चेदिह ।
सर्व एव इमे लोका न भवेयुरसंशयम् ॥
प्रभुर्नियमने राजा य एतान्न नियच्छति ।
भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः ॥
भोक्ता तस्य तु पापस्य सुकृतस्य यथातथा ।
नियन्तव्याः सदा राज्ञा पापा ये स्युर्नराधिप ॥
कृतपापस्त्वसौ राजा य एतान्न नियच्छति । तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते ।
स्थानान्येतानि संयम्य प्रसङ्गो भूतिनाशनः ।
कामे प्रसक्तः पुरुषः किमकार्यं विवर्जयेत् ॥
मद्यमांसपरस्वानि तथा दारधनानि च ।
आहरेद्रागवशगस्तथा शास्त्रं प्रदर्शयेत् ॥
आपद्येव तु याचन्ते येषां नास्ति परिग्रहः ।
दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्भयान्न तु ॥
मा ते राष्ट्रे याचनका भवेयुर्मा च दस्यवः ।
उपादातार एवैते नैते भूतस्य भावकाः ॥
ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः ।
तेते राष्ट्रेषु वर्तन्तां मा भूतानां प्रबाधकाः ॥
दण्ड्यास्ते च महाराज धनादानप्रयोजकाः ।
प्रयोगं कारयेथास्ते यथा दद्युः करांस्तथा ॥
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किंचिदीदृशम् ।
पुरुषैः कारयेत्कर्म बहुभिः कर्मभेदतः ॥
नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः ।
संशयं लभते किंचित्तेन राजा विगर्ह्यते ॥
धनिनः पूजयेन्नित्यं पानाच्छादनभोजनैः ।
वक्तव्याश्चानुगृह्णीध्वं प्रजाः सह मयेति वै ॥
अङ्गमेतन्महद्राज्ये धनिनो नाम भारत ।
ककुदं सर्वभूतानां धनस्थो नात्र संशयः ॥
प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च ।
तपस्वी सत्यवादी च बुद्धिमांश्चापि रक्षति ॥
तस्मात्सर्वेषु भूतेषु प्रीतिमान्भव पार्थिव ।
सत्यमार्जवमक्रोधमानृशंस्यं च पालय ॥
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसि ।
सत्यार्जवपरो राजन्मित्रकोशबलान्वितः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टाशीतितमोऽध्यायः ॥ 88 ॥

12-88-4 भ्रमरा इव पादपमिति झ. पाठः ॥ 12-88-6 शल्यकवांस्तीक्ष्णतुण्ड आखुविशेषः । सहि निद्रितस्य मनुष्यस्य पादतलस्थं मांसमतीक्ष्णेनैवोपायेन भक्षयति । यथा विलेखकः कर्णमाखुः पादत्वचं यथेति ड. थ. पाठः ॥ 12-88-8 दम्यानि वत्सतरकुलानि यथा क्रमेण दमयेतद्वत्प्रजा अपीत्याह दमयन्निवेति । अभ्यव हारयेद्वाहयेत् ॥ 12-88-9 सकृत्सद्यः पाशावकीर्णाः सन्तो नभविष्यन्ति मरिष्यन्ति । यतो दुर्दमा अथ उचितेन क्रमेण ते भोक्तव्या दम्याः प्रजाश्च । असत्पाशावकीर्णास्ते भविष्यन्तीह दुर्मदाः । इति ड.थ. पाठः ॥ 12-88-10 पुरुषं प्रतीत्यस्य प्रतिपुरुषमित्यर्थः ॥ 12-88-11 ततो मुख्यद्वारा तानितरान् विवक्षितान्वोदुमिष्टान् । ततस्तान्भोजयित्वात परस्परविवर्जितान् । इति थ.द. पाठः ॥ 12-88-14 मद्यशालाः संदेशहराः कुट्टन्यः । कुत्सितेन शीलेन वान्ति गच्छन्ति धर्मं हिंसन्ति वा कुशील वा विटाः । कितमा द्यूतकाराश्च नि ग्राह्या इत्याह पानेति ॥ 12-88-15 भद्रिकाः कल्याणः ॥ 12-88-16 याचितव्यः दत्तमृणं करं वेति शेषः ॥ 12-88-17 अनुजावेयुरनुसरेयुः । अन्यथा दोषमाह नेति ॥ 12-88-20 तथा तथाभूतः नियच्छन्नित्यर्थः ॥ 12-88-21 स्थानानि मद्यादीनाम् ॥ 12-88-22 शास्त्रमाज्ञां प्रदर्शयेत्प्रवर्तयेत् ॥ 12-88-28 संशयं चोरेभ्यो राजकीयेभ्यो वा भयात् ॥