अध्यायः 109

भीष्मेण युधिष्ठिरंप्रति सत्यानृतविवेचनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत ।
तत्त्वं जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥
सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः ।
तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः ॥
किंस्वित्सत्यं किमनृतं किंस्विद्धर्म्यं सनातनम् ।
कस्मिन्काले वदेत्सत्यं कस्मिन्वाऽप्यनृतं वदेत् ॥
भीष्म उवाच ।
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् ।
यत्तु लोके सुदुर्ज्ञेयं तत्ते वक्ष्यामि भारत ॥
भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत् ।
यत्रानृतं भवेत्सत्यं सत्यं वाऽप्यनृतं भवेत् ॥
तादृशो वर्धते पापो यत्र सत्यमनिश्चितम् ।
सत्यानृते विनिश्चित्य ततो भवति धर्मवि ॥
अप्यनार्योऽकृतप्रज्ञः पुरुषोऽप्यतिदारुणः ।
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥
किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित् ।
सुमहत्प्राप्नुयात्पुण्यं गङ्गायामिव कौशिकः ॥
तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्विदः ।
दुष्कारं चापि संख्यातुं तर्केणात्र व्यवस्यति ॥
प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् ।
यः स्यात्प्रभवसंयुक्तः स धर्म इति निश्चयः ॥
`अहिंसा सत्यमक्रोधस्तपो दानं दमो मतिः ।
अनसूयाऽप्यसामर्थ्यमनीर्ष्या शीलमेव च ॥
एष धर्मः कुरुश्रेष्ठ कथितं परमेष्ठिना ।
ब्रह्मणा देवदेवेन अयं चैव सनातनः ॥
अस्मिन्धर्मे स्थितो राजन्नरो भद्राणि पश्यति । श्रौतो वधात्मको धर्म अहिंसापरमार्थिकः ॥'
धारणाद्धर्ममित्याहुर्धर्मेण विधृताः प्रजाः ।
यः स्याद्धारणसंयुक्तः स धर्म इति निश्चः ॥
अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम् ।
यः स्यादहिंसासंयुक्तः स धर्म इति निश्चयः ॥
श्रुतिं धर्मं वदन्त्यन्ये मानान्याहुः परे जनाः ।
न च तं स्वभ्यसूयामो न हि सर्वं विधीयते ॥
येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित् ।
तेभ्यस्तु न तदाख्येयं स धर्म इति निश्चयः ॥
अकूजनेन चेन्मोक्षो नावकूजेत्कथंचन ।
अवश्यं कूजितव्यं वा शङ्केरन्वाऽप्यकूजनात् ॥
`येऽन्ये वाऽप्यनृतं कुर्युः कुर्यादेव विचारणम् ।
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् ॥
अक्षयाद्यो वधं राजन्कुर्यादेवाविचारयन् ।
अबुध्वाऽनुशये दोषं श्रेयस्तच्चानृतं भवेत् ॥
न स्तेनः सह संबन्धान्मुच्यते शपथादपि ।' श्रेयस्तत्रानृतं वक्तुं सत्यादिति हि धारणा ॥
यः पापैः सह संबन्धान्मुच्यते शपथादपि । न च तेभ्यो धनं दद्याच्छक्ये सति कथंचन ।
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ॥
स्वशरीरोपरोधेन धनमादातुमिच्छतः । सत्यसंप्रतिपत्त्यर्थं यद्ब्रूयुः साक्षिणः क्वचित् ।
अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः ॥
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् ।
अर्थस्य रक्षणार्थाय परेषां धर्मकारणात् ॥
परेषां सिद्धिमाकाङ्क्षन्न च स्याद्धर्मभिक्षुकः ।
प्रतिश्रुत्य न दातव्यं श्वः कार्यस्तु बलात्कृतः ॥
यः कश्चिद्धर्मसमयात्प्रच्युतो धर्मजीवनः ।
दण्डेनैव स हन्तव्यस्तं पन्थानं समाश्रितः ॥
च्युतः सदैव धर्मेभ्यो धनवान्धर्ममाश्रितः ।
कथं स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम् ॥
सर्वोपायैर्नियन्तव्यः पापो निकृतिजीवनः ।
धनमित्येव पापानां सर्वेषामिह निश्चयः ॥
अविवाह्या ह्यसंभोज्या निकृत्या निरयं गताः । च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते ।
[निर्यज्ञास्तपसा हीना मा स्म तैः सह संगमः ॥]
धनादानाद्दुःखतरं जीविता धिक्प्रयोजनम् ।
इदं ते रोचतां धर्म इति वाच्यं प्रयत्नतः ॥
न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः ।
तथाविधं च यो हन्यान्न स पापेन लिप्यते ॥
स्वकर्मणा हतं हन्ति हत एव स हन्यते ।
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु ॥
यथा काकास्तथैव श्वा तथैवोपधिजीवनः ।
ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु ॥
यस्मिन्यथा वर्तति यो मनुष्य स्तस्मिंस्तथा वर्तितव्यं स धर्मः ।
मायाचारो मायया बाधितव्यः साध्वाचारः साधुनैवाभ्युपेयः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि नवाधिकशततमोऽध्यायः ॥ 109 ॥

12-109-6 तादृशः सत्यानृतयोस्तत्त्वमजानन् । तादृशो बध्यते बाल इति झ. पाठः ॥ 12-109-7 अन्धस्य घ्नाणचक्षुषः सर्वप्राणिवधायोद्यतस्य वधादूलाको व्याधो हिंस्रस्वभावोऽपि स्वर्गं जगामेति कर्णपर्वकथानुसंधेया ॥ 12-109-8 मूढः कर्णपर्वोक्तः सत्यवादीचोरेभ्यः सत्यवचनाभिमानित्वान्मार्गमुपदिश्य कार्पटिकान्घातितवान् । असौ धर्मविन्नेत्यर्थः । कौशिक उलूको गङ्गातीरे सहस्रशः सर्पिण्या स्थापितान्यण्डानि भित्त्वा महत्पुण्यं प्राप । तदभेदने तु तीक्ष्णविवाणां सर्पाणां वृभ्द्या सद्यो लोकनाशसंभवेत् । सुमहत्प्राप्नुयात्पापं इति ड. थ. द. पाठः ॥ 12-109-9 अत्र धगलक्षणे । व्यवस्यति निश्चिनोति ॥ 12-109-10 प्रभवेऽभ्युदयः ॥ 12-109-16 श्रुत्युक्तोऽर्थः सर्वो धर्म इत्यपि न । श्येनादेर्धर्मत्वाभावात् सर्वंश्येनाद्यति नहि विधीयते धर्मत्वेन न चोद्यते ॥ 12-109-17 धनमिच्छन्ति कस्यचि ति झ. पाठः ॥ 12-109-21 वोरेषु धनिकं पृच्छत्सु न वदेत् । वदतो मोक्षाभावे न वेझीति शपथपूर्वकमपि वदेत् । तादृशस्थलेऽनृते दोषो नास्तीत्यर्थः ॥ 12-109-22 तेभ्यः स्तेनेभ्यः ॥ 12-109-29 मा संगमः सङ्गं मा कार्षीः ॥ 12-109-32 समयं एतान््हनिध्यामीति व्रतं यश्चिकीर्षेत् स कुर्वीत् । तादृशानां वधे पुण्यमस्तीति भावः ॥