अध्यायः 129

यमेन गौतमंप्रति मातापित्रोः परिचर्यायास्तदृणापनोदनोपायत्वकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि । [यथाहि स्वात्मवृत्तिस्थस्तथा तृप्तोऽस्मि भारत ॥]
तस्मात्कथय भूयोऽपि त्वं ममेह पितामह । [न हि तृप्तिमहं यामि पिबन्धर्मामृतं हि ते ॥]
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गौतमस्य च संवादं यमस्य च महात्मनः ॥
पारियात्रं गिरिं प्राप्य गौतमस्याश्रमो महान् ।
वसते गौतमो यत्र तपसा दग्धकिल्विषः ॥
पृष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः ।
तमुग्रतपसा युक्तं भावितं सुमहामुनिम् ॥
उपयातो नरव्याघ्र लोकपालो यमस्तदा ।
तमपश्यत्सुतपसमृषिं वै गौतमं तदा ॥
स तं विदित्वा ब्रह्मर्षियेममागतमोजसा ।
प्राञ्जलिः प्रणतो भूत्वा उपसृप्तस्तपोधनः ॥
तं धर्मराजो दृष्ट्वैव नमस्कृत्य द्विजोत्तमम् ।
न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन् ॥
गौतम उवाच ।
मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात् ।
कथं च लोकानाप्नोति पुरुषो दुर्लभाञ्शुभान् ॥
यम उवाच ।
तपः शौचवता नित्यं सत्यधर्मरतेन च ।
मातापित्रोरहरहः पूजनं कार्यमञ्जसा ॥
अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः ।
तेन लोकानवाप्नोति पुरुषोऽद्भुतदर्शनान् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः ॥ 129 ॥

12-129-1 पर्याप्तिरलंभावस्तृप्तिरिति यावत् ॥ 12-129-8 न्यमन्त्रयत तं सुमुखीकृतवान् ॥ 12-129-11 अश्वमेधैरिति स्वधर्ममात्रस्योपलक्षणम् ॥