अध्यायः 148

व्याधेन विमानस्थयोर्दर्शनम् ॥ 1 ॥ ततो व्याधेन दावाग्नौ शरीरत्यागेन स्वर्धगमनम् ॥ 2 ॥

भीष्म उवाच ।
वमानस्थौ तु तौ राजंल्लुब्धकः ग्वे ददर्श ह ।
दृष्ट्वा तौ दंपती राजन्व्यचिन्तयत तां गतिम् ॥
कीदृशेनेह तपसा गच्छेयं परमां गतिम् ।
इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे ॥
महाप्रस्थानमाश्रित्य लुब्धकः पक्षिजीवकः ।
निश्चष्टो मरुदाहारो निर्ममः स्वर्गकाङ्क्षया ॥
ततोऽपश्यत्सुविस्तीर्णं हृद्यं पद्माभिभूषितम् ।
नानापक्षिगणाकीर्णं सरः शीतजलं शिवम् ॥
पिपांसार्तोऽपि तदृष्ट्वा तृप्तः स्यान्नात्र संशयः ॥
उपवासकृशोऽत्यर्थं स तु पार्थिव लुब्धकः ।
उपसृत्य तु तद्धृष्टः श्वापदाध्युपितं वनम् ॥
महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह ।
प्रविशन्नेव स वनं निगृहीतः स कण्टकैः ॥
स कण्टकैर्विभिन्नाङ्गो लोहितार्द्रीकृतच्छविः ।
वभ्राम तस्मिन्विजने नानामृगसमाकुले ॥
ततो द्रुमाणां महतां पवनेन वने तदा ।
उदतिष्ठत संघर्षान्सुमहान्हव्यवाहनः ॥
तद्वनं वृक्षसंकीर्णं लताविटपसंकुलम् ।
ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः ॥
स ज्वलैः पवनोद्भूतैर्विस्फुलिङ्गैः समन्ततः ।
ददाह तद्वनं घोरं मृगपक्षिसमाकुलम् ॥
ततः स देहमोक्षार्थं संप्रहृष्टेन चेतसा ।
अभ्यधावत वर्धन्तं पावकं लुब्धकस्तदा ॥
ततस्तेनाग्निना दग्धो लुब्धको नष्टकल्मषः ।
जगाम परमां सिद्धिं ततो भरतसत्तम ॥
ततः स्वर्गस्थमात्मानमपश्यद्विगतज्वरः ।
यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तमिन्द्रवत् ॥
एवं खलु कपोतश्च कपोती च पतिव्रता ।
लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा ॥
याऽन्या चैवंविधा नारी भर्तारमनुवर्तते ।
विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता ॥
एवमेतत्पुरावृत्तं लुब्धकस्य महात्मनः ।
कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा ॥
यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् ।
नाशुभं विद्यते तस्य मनसाऽपि प्रमादतः ॥
युधिष्ठिर महानेष धर्मो धर्मभृतां वर ।
गोघ्नेष्वपि भवेदस्मिन्निष्कृतिः पापकर्मणः ॥
न निष्कृतिर्भवेत्तस्य यो हन्याच्छरणागतम् । इतिहासमिमं श्रुत्वा पुण्यं पापप्रणाशनम् ।
न दुर्गतिप्रवाप्नोति स्वर्गलोकं च गच्छति ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 148 ॥