अध्यायः 345

भीष्मेण युधिष्ठिरंप्रति उपरिचरवसोः शापप्राप्तितद्विमोचनप्रकारकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
यदा भक्तो भगवति आसीद्राजा महान्वसुः ।
किमर्थं स परिभ्रष्टो विवेश विवरं भुवः ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ऋषीणां चैव संवादं त्रिदशानां च भारत ॥
`इयं वै कर्मभूमिः स्यात्स्वर्गो भोगाय कल्पितः ।
तस्मादिन्द्रो महीं प्राप्य यजनाप तु दीक्षितः ॥
सवनीयपशोः काल आगते तु बृहस्पतिः ।
पिष्टमानीयतामत्र पश्वर्थमिति भाषत ॥
तच्छ्रुत्वा देवताः सर्वा इदमूचुर्द्विजोत्तमम् । बृहस्पतिं मांसगृद्धाः पृथक्पृथगिदं पुनः ॥'
अजेन यष्टव्यमिति प्राहुर्देवा द्विजोत्तमान् ।
स च छागोप्यजो ज्ञेयो नान्यः पशुरिति स्थितिः ॥
ऋषय ऊचुः ।
बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः ।
अजसंज्ञानि बीजानि च्छागं नो हन्तुमर्हथ ॥
नैष धर्मः सतां देवा यत्र बध्येत वै पशुः ।
इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः ॥
भीष्म उवाच ।
तेषां संवदतामेवमृषीणां विबुधैः सह ।
मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः ॥
अन्तरिक्षचरः श्रीमान्सहस्रबलवाहनः ।
तं दृष्ट्वा सहसाऽऽयान्तं वसुं ते त्वन्तरिक्षगम् ॥
ऊचुर्द्विजातयो देवानेष च्छेत्स्यति संशयम् । यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः ।
कथंस्विदन्यथा ब्रूयादेष वाक्यं महान्वसुः ॥
एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा ।
अपृच्छन्सहिताऽभ्येत्य वसुं राजानमन्तिकात् ॥
भो राजन्केन यष्टव्यमजेनाहोस्विदौषधैः ।
एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः ॥
स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः ।
कस्य वै को मतः पक्षो ब्रूत सत्यं द्विजोत्तमाः ॥
ऋषय ऊचुः ।
धान्यैर्यष्टव्यमित्येव पक्षोऽस्माकं नराधिप ।
देवानां तु पशुः पक्षो मतो राजन्वदस्व नः ॥
भीष्म उवाच ।
देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् ।
छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा ॥
कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः ।
ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम् ॥
सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत ।
अद्यप्रभृति ते राजन्नाकाशे विहता गतिः ॥
अस्माच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि । ` विरुद्धं वेदसूत्राणामुक्तं यदि भवेन्नृप ।
वयं विरुद्धवचना यदि तत्र पतामहे ॥'
ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा ।
अधो वै संबभूवाशु भूमेर्विवरगो नृप ॥
स्मृतिस्त्वेवं न विजहौ तदा नारायणाज्ञया ॥
देवास्तु सहिताः सर्वे वमोः शापविमोक्षणम् ।
चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत् ॥
अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना ।
अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः ॥
इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः ।
ऊचुः संहृष्टमनसो राजोपरिचरं तदा ॥
ब्रह्मण्य देवभक्तस्त्वं सुरासुरगुरुर्हरिः ।
कामं स तव तुष्टात्मा कुर्याच्छापविभोक्षणम् ॥
मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् ।
अवश्यं तपसा तेषां फलितव्यं नृपोत्तम ॥
यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम् ।
`विरुद्धं वेदसूत्राणां न वक्तव्यं हितार्थिना ॥
अस्मत्पक्षनिमित्तेन व्यसनं प्राप्तमीदृशम् ।' एकं त्वनुग्रहं तुभ्यं दद्मो वै नृप्रसत्तम ।
यावत्त्वं शापदोषेण कालमासिप्यसेऽनघ ॥
भूमेर्विवरगो भूत्वा तावत्त्वं कालमाप्स्यसि ।
यज्ञेषु सुहुतां विप्रैर्वसोर्धारां समाहितैः ॥
प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिराविशेत् ।
न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः ॥
वसोर्धारामिपीतत्वात्तेजसाऽऽप्यायितेन च ।
स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति ॥
एवं दत्त्वा वरं राज्ञे सर्वे ते च दिवौकसः । ऋतुं समाप्य पिष्टेन मुनीनां वचनात्तदा ॥'
गताः धमवनं देवा ऋषगश्च तपोधनाः ।
`गृहीत्वा दक्षिणां सर्वे गतः स्वानाश्रमान्पुनः ॥
वसुं विचिन्त्य शक्रश्च प्रविनेशामरावतीम् । वसुर्विवरगस्तत्र व्यलीकस्य फलं गुरोः ॥'
चक्रे वसुस्ततः पूजां विष्वक्सेनाय भारत ।
जप्यं जगौ च सततं नारायणमुखोद्गवम् ॥
तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम् ।
अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन् ॥
ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः ।
अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः ॥
वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम् ।
गरुत्मन्तं महावेगमावभाषेऽप्सितं तदा ॥
द्विजोत्तम महाभाग पश्यतां वचनान्मम ।
सम्राड्राजा वसुर्नाम धर्मात्मा संशितव्रतः ॥
ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् ।
मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम् ॥
भूमेर्विवरसंगुप्तं गरुडेह ममाज्ञया ।
अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम् ॥
गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् ।
विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः ॥
तत एनं समुत्क्षिप्य सहसा विनतासुतः ।
उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत ॥
अस्मिन्मुहुर्ते संजज्ञे राजोपरिचरः पुनः ।
सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः ॥
एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया ।
प्राप्ता गतिरधस्तात्तु द्विजशापान्महात्मना ॥
केवलं पुरुषस्तेन सेवितो हरिरीश्वरः ।
ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च ॥
भीष्म उवाच ।
एतत्ते सर्वमाख्यातं संभूता मानवा यथा । नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः ।
तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 345 ॥

12-345-7 अजस्थस्म मेधस्य बीजेषु संक्रमाद्वीजान्येवाजसंज्ञानीति युक्तम् ॥ 12-345-23 अस्य प्रतिक्रिया कार्येति ध. पाठः ॥