अध्यायः 364

श्रेयःसाधनं पृष्टेनातिथिना ब्राह्मणंप्रति नानामार्गप्रदर्शनपूर्वकं स्वस्यापि संशयोत्कीर्तनम् ॥ 1 ॥

ब्राह्मण उवाच ।
समुत्पन्ने विधानेऽस्मिन्वाङ्भाधुर्येण तेऽनघ ।
मित्रत्वमभिसंपन्नः किंचिद्वक्ष्यामि तच्छृणु ॥
गृहस्थधर्मं विप्रेन्द्र श्रुत्वा धर्मगतं त्वहम् ।
धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज ॥
अहमात्मानमास्थाय एक एवात्मनि स्थितम् ।
द्रष्टुमिच्छन्न पश्यामि बद्धः साधारणैर्गुणैः ॥
यावदेतदतीतं मे वयः पुत्रफलाश्रितम् ।
तावदिच्छामि पाथेयमादातुं पारलौकिकम् ॥
अस्मिन्हि लोकसंभारे परं पारमभीप्सतः ।
उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः ॥
संयुज्यमानानि निशाम्य लोके निर्यात्यमानानि च सात्विकानि ।
दृष्ट्वा तु धर्मध्वजकेतुमालां प्रकीर्यमाणामुपरि प्रजानाम् ॥
न मे मनो रज्यति भोगरागै र्दृष्ट्वा गतिं प्रार्थयतः परत्र ।
तेनातिथे बुद्धिबलाश्रयेण धर्मेण धर्मे विनियुङ्क्ष्व मां त्वम् ॥
सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिभाषिणः ।
प्रोवाच वचनं श्लक्षणं प्राज्ञो मधुरया गिरा ॥
अहमप्यत्र मुह्यामि ममाप्येष मनोरथः ।
न च संनिश्चयं चामि बहुद्वारे त्रिविष्टये ॥
केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः ।
वानप्रस्थाश्रयाः केचिद्गार्हस्थ्यं केचिदाश्रिताः ॥
राजधर्माश्रयाः केचित्केचिदात्मफलाश्रयाः ।
गुरुधर्माश्रयाः केचित्केचिद्वाक्संयमाश्रयाः ॥
मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः ।
अहिंसया परे स्वर्गं सत्येन च तथाऽपरे ॥
आहवेऽभिमुखः केचिन्निहतास्त्रिदिवं गताः ।
केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गं समाश्रिताः ॥
केचिदध्ययने युक्ता वेदव्रतपराः शुभाः ।
बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः ॥
आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः ।
ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः ॥
एवं बहुविधैर्लोकैर्धर्मद्वारैरनावृतैः ।
ममापि मतिराविद्धा मेघलेखेव वायुना ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुःषष्ट्यधिकत्रिशततमोऽध्यायः ॥ 364 ॥

12-364-1 समुत्पन्नाभिधानोस्मीति झ. पाठः । तत्र आभिधानी बन्धनरज्जुः । अश्वाभिधानीमादत्त इति ब्राह्मणात् । तेनाभिधानशब्दोपि बन्धनवाची । जातबन्धन इत्यर्थः ॥ 12-364-2 कृत्वा पुत्रगतं त्वहमिति झ. पाठः ॥ 12-364-5 कुतः कृत्राश्रमे । प्लवः संसाराब्धितरणसाधनम् ॥ 12-364-6 निशाम्य आलोच्य । निर्गात्यमानानि निपीड्यमानाति । सात्विकानि देवादीनि । धर्मस्य यमस्य ध्वजाः पताका दण्डोपमा रोगादयस्तेषां माला संततिस्तां दृष्ट्वा मे मनो न रज्यतीत्युत्तरेण संबन्धः । समूह्यमानानि यथा हि लोके निहन्यमानानि तथाहि तानि इति ।प्रकीर्यमाणानीति च. ट. पाठः ॥