अध्यायः 154

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति गृहस्थधर्मप्रतिपादकपृथिवीवासुदेवसंवादानुवादः ॥ 1 ॥

`युधिष्ठिर उवाच ।

गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ ।
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ॥
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप ।
वासुदेवस्य संवादं पृथिव्याश्चैव भारत ॥
संस्तुत्य पृथिवीं देवीं वासुदेवः प्रतापवान् ।
पप्रच्छ भरतश्रेष्ठ मां त्वं यत्पृच्छसेऽद्य वै ॥
वासुदेव उवाच ।
गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा ।
किमवश्यं धरे कार्यं किं वा कृत्वा सुखं भवेत् ॥
पृथिव्युवाच ।
ऋषयः पितरो देवा मनुष्याश्चैव माधव ।
पूज्याश्चैवार्चनीयाश्च यथा चैव निबोध मे ॥
सदा यज्ञेन देवांश्च सदाऽऽतिथ्येन मानुषान् ।
छन्दतस्तर्पणेनापि पितॄन्युञ्जन्ति नित्यशः ॥
तेन ह्यृषिगणाः प्रीता ब्रह्मचयेणि चानघ ।
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च ॥
कुर्यात्तथैव देवान्वै प्रियं मे मधुसूदन ।
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च ॥
पयोमूलफलैर्वाऽपि पितॄणां प्रीतिमावहेत् ।
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि ॥
आग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् ।
प्रजानां पतये चैव पृथग्घोमो विधीयते ॥
तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् ।
दक्षिणायां यमायेति प्रतीच्यां वरुणाय च ॥
सोमाय चाप्युदीच्यां वै वास्तुमध्ये प्रजापतेः ।
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव ॥
मनुष्येभ्य इति प्राहुर्बलिं द्वारि गृहस्य वै ।
मरुद्भ्यो दैवतेभ्यश्च बलिमन्तर्गृहे हरेत् ॥
तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् ।
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं यथा हरेत् ॥
एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजाय वै ।
अलाभे ब्राह्मणस्याग्नावग्रमुद्धृत्य निक्षिपेत् ॥
यदा श्राद्धं पितृभ्योपि दातुमिच्छेत मानवः ।
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ॥
पितॄन्सन्तर्पयित्वा तु बलिं कुर्याद्विधानतः ।
वेश्वदैवं ततः कुर्यात्पश्चाद्ब्राह्म्णभोजनम् ॥
ततोऽन्नेनावशेषेण भोजयेदतिथीनपि । अर्घ्यपूर्वं महाराज ततः प्रीणाति मानवान् ।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥
आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः ।
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ॥
ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते ।
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् ॥
राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च ।
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् ॥
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ॥
वैश्वदेवं हि नामैतत्सायं प्रातर्विधीयते ॥
एतांस्तु धर्मान्गार्हस्थ्यान्यः कुर्यादनसूयकः ।
स इहर्द्धिं परां प्राप्य प्रेत्य लोके महीयते ॥
भीष्म उवाच ।
इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् ।
तथा चकार सततं त्वमप्येवं सदाऽऽचर ॥
एतद्गृहस्थधर्मं त्वं चेष्टमानो जनाधिप ।
इह लोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःपञ्चाशददिकशततमोऽध्यायः ॥ 154 ॥

7-154-1 गार्हस्थ्यं गृहस्थयोग्यम् ॥ 7-154-7 बलिकर्म वैश्वदेवः तत्र प्रागन्नमेव ग्राह्यम् ॥ 7-154-15 भिक्षाद्वयं तथेति थ.ध.पाठः ॥

श्रीः