अध्यायः 216

अथ दानधर्मपर्व ॥ 1 ॥

महेश्वरेण पार्वतींप्रति त्रिवर्गनिरूपणम् ॥ 1 ॥

महेश्वर उवाच ।

पशवः पशुबन्धेषु ये हन्यन्तेऽध्वरेषु च । यूपे निबध्य मन्त्रैश्च यथान्यायं यथाविधि ।
मन्त्राहुतिविपूतास्ते स्वर्गं यान्ति यशस्विनि ॥
तर्पिता यज्ञभागेषु तेषां मांसैर्वरानने । अग्नयस्त्रिदशाश्चैव लोकपाला महेश्वराः ।
तेषु तुष्टेषु जायेत यस्य यज्ञस्य यत्फलम् ।
तेन संयुज्यते देवि यजमानो न संशयः ॥
सपत्नीकः सपुत्रश्चि पित्रा च भ्रातृभिः सह ।
ये तत्र दीक्षिता देवि सर्वे स्वर्गं प्रयान्ति ते ॥
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।
भगवन्सर्वभूतेश शूलपाणे महाद्युते ।
श्रोतुमिच्छाम्यहं वृत्तं सर्वेषां गृहमेधिनाम् ॥
कीदृशं चरितं तेषां त्रिवर्गसहितं प्रभो ।
प्रत्यायतिः कथं तेषां जीवनार्थमुदाहृतम् ॥
वर्तमानाः कथं सर्वे प्राप्नुवन्त्युत्तमां गतिम् ।
एतत्सर्वं समासेन वक्तुमर्हसि मानदः ॥
महेश्वर उवाच ।
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि ।
प्रायशो लोकसद्वृत्तमिष्यते गृहवासिनाम् ॥
तेषां संरक्षणार्थाय राजानः संस्कृता भुवि ।
सर्वेषामथ मर्त्यानां वृत्तिं सामान्यतः शृणुः ॥
विद्या वार्ता च सेवा च कारुत्वं नाट्यता तथा ।
इत्यते जीवनार्थाय मर्त्यानां विहिताः प्रिये ॥
अपि जन्मफलं तावन्मानुषाणां विशेषतः ।
विहितं तत्स्ववृत्तेन तन्मे शृणु समाहिताः ॥
कर्मक्षेत्रं हि मानुष्यं सुखदुःखयुताः परे ।
सर्वेषां प्राणिनां तस्मान्मानुष्ये वृत्तिरिष्यते ॥
विद्यायोगस्तु सर्वेषां पूर्वमेव विधीयते ।
कार्याकार्यं विजानन्ति विद्यया देवि नान्यथा ॥
विद्यया स्फीयते ज्ञानं ज्ञानात्तत्वनिदर्शनम् ।
दृष्टतत्वो विनीतात्मा सर्वार्थस्य च भाजनम् ॥
शक्यं विद्याविनीतेन लोके संजीवनं शुभम् ॥
आत्मानं विद्यया तस्मात्पूर्वं वृत्वा तु भाजनम् । वश्येन्द्रियो जितक्रोधो भूतात्मानं तु भावयेत् ।
भावयित्वा तदाऽऽत्मानं पूजनीयः सतामपि ॥
कुलानुवृत्तं वृत्तं वा पूर्वमात्मा समाश्रयेत् ।
इत्येतत्कुलवासाय दानकर्म यथा पुरा ॥
यदि चेद्विद्यया चैव वृत्तिं काङ्क्षेदथात्मनः । राजविद्यानुवादेऽपि लोकविद्यामथापि वा ।
तीर्थतश्चापि गृह्णीयाच्छुश्रूषादिगुणैर्युतः ॥
ग्रन्थतश्चार्थतश्चैव दृढं कुर्यात्प्रयत्नतः । एवं विद्याफलं देवि प्राप्नुयान्नान्यथा नरः ।
न्यायाद्विद्याफलानीच्छेदधर्मं तत्र वर्जयेत् ॥
यदिच्छेद्वार्तया वृत्तिं काङ्क्षेत विधिपूर्वकम् ।
क्षेत्रे जलोपपन्ने च तद्योग्यां कृषिमाचरेत् ॥
वाणिज्यं वा यथाकालं कुर्यात्तद्देशयोगतः ।
मूल्यमर्थं प्रयासं च विचार्यैव व्ययोदयौ ॥
पशुसंजीवनं चैव दश गाः पोषयेद्ध्रुवम् ।
बहुप्रकारा बहवः पशवस्तस्य साधकाः ॥
यः कश्चित्सेवया वृत्तिं काङ्क्षेत मतिमान्नरः ।
यतात्मा श्रवणीयानां भवेद्वै सम्प्रयोजकः ॥
बुद्ध्या वा कर्मयोगाद्वा बोधनाद्वा समाश्रयेत् ।
मार्गतस्तु समाश्रित्य तदा तत्सम्प्रयोजयेत् ॥
यथायथा सु तुष्येत तथा संतोषयेत्तु तम् ।
अनुजीविगुणोपेतः कुर्यादात्मार्थमाश्रितम् ॥
विप्रियं नाचरेत्तस्य एषा सेवा समासतः ।
विप्रयोगात्पुरा तेन गतिमन्यां न लक्षयेत् ॥
कारुकर्म च नाट्यं च प्रायशो नीचयोनिषु ।
तयोरपि यथायोगं न्यायतः कर्मवेतनम् ॥
आजीवेभ्योऽपि सर्वभ्यः स्वार्जवाद्वेतनं हरेत् ।
अनार्जवादाहरतस्तत्तु पापाय कल्पते ॥
सर्वेषां पूर्वमारम्भांश्चिन्तयेन्नयपूर्वकम् । आत्मशक्तिमुपायांश्च देशकालौ च युक्तितः ।
कारणानि प्रयासं च प्रक्षेपं च फलोदयम् ॥
एवमादीनि सञ्चिन्त्य दृष्ट्वा दैवानुकूलताम् ।
अतः परं समारम्भेद्यत्रात्महितमाहितम् ॥
वृत्तिमेव समासाद्य तां सदा परिपालयेत् ।
देवमानुषविघ्नेभ्यो न पुनर्मन्यते यथा ॥
पालयन्वर्धयन्भुञ्जंस्तां प्राप्य न विनाशयेत् ।
क्षीयते गिरिसङ्काशमश्नतो ह्यनपेक्षया ॥
आजीवेभ्यो धनं प्राप्य चतुर्धा विभजेद्बुधः ।
धर्मायार्थाय कामाय आपत्प्रशमनाय च ॥
चतुर्ष्वपि विभागेषु विधानं शृणु शोभने ॥
यज्ञार्थं चान्नदानार्थं दीनानुग्रहकारणात् ।
देवब्राह्मणपूजार्थं पितृपूजार्थमेव च ॥
मूलार्थं सन्निवासार्थं क्रियानित्यैश्चि धार्मिकैः ।
एवमादिषु चान्येषु धर्मार्थं संत्यजेद्धनम् ॥
धर्मकार्ये धनं दद्यादनवेक्ष्य फलोदयम् ।
ऐश्वर्यस्थानलाभार्थं राजवाल्लभ्यकारणात् ॥
वार्तायां च समारम्भेऽमात्यमित्रपरिग्रहे ।
आवाहे च विवाहे च पुत्राणां वृत्तिकारणात् ॥
अर्थोदयसमावाप्तावनर्थस्य विघातने ।
एवमादिषु चान्येषु अर्थार्थं विसृजेद्धनम् ॥
अनुबन्धं हेतुयुक्तं दृष्ट्वा वित्तं परित्यजेत् ।
अनर्थं बाधते ह्यर्थो अर्तं चैव फलान्युत ॥
नाधनाः प्राप्नुन्त्यर्थं नरा यत्नशतैरपि ।
तस्माद्धनं रक्षितव्यं दातव्यं च विधानतः ॥
शरीरपोषणार्थाय आहारस्य विशोषणे ।
नट*****धर्वसंयोगे कामयात्राविहारयोः ॥
मनःप्रियाणां संयोगे प्रीतिदाने तथैव च ।
एवमादिषु चान्येषु कामार्तं विसृजेद्धनम् ॥
विचार्य गुणदोषांस्तु त्रयाणां तत्र संत्यजेत् ।
चतुर्थं सन्निदध्याच्च आपदर्थं शुचिस्मिते ॥
राज्यभ्रंशविनाशार्थं दुर्भिक्षार्थं च शोभने ।
महाव्याधिविमोक्षार्थं वार्धकस्यैव कारणात् ॥
शत्रूणां प्रतिकाराय साहसैश्चाप्यमर्षणात् । प्रस्थाने चान्यदेशार्थमापदां विप्रमोक्षणे ।
एवमादि समुद्दिश्य सन्निदध्यात्स्वकं धनम् ॥
सुखमर्थवतां लोके कृच्छ्राणां विप्रमोक्षणम् ।
यस्य नास्ति धनं किञ्चित्तस्य लोकद्वयं न च ॥
अशनादिन्द्रियाणीव सर्वमर्थात्प्रवर्तते । निधानमात्रं यस्तेषामन्यथा विलयं व्रजेत् ।
एवं देवि मनुष्याणां लोकानां जीवनं प्रति ॥
एवं लोकस्य वृत्तस्य लोकवृत्तं पुनः शृणु ।
धन्यं यशस्यमायुष्यं स्वर्ग्यं च परमं यशः ॥
त्रिवर्गो हि वशे युक्तः सर्वेषां संविधीयते ।
तथा संवर्तमानास्तु लोकयोर्हितमाप्नुयुः ॥
काल्योत्थानं च शौचं च देवब्राह्मणभक्तितः ।
गुरुणामेव शुश्रूषा ब्राह्मणेष्वभिवादनम् ॥
प्रत्युत्थानं च वृद्धानां देवस्थानप्रणामनम् ।
आभिमुख्यं पुरस्कृत्य अतिथीनां च पूजनम् ॥
वृद्धोपदेशकरणं श्रवणं हितपथ्ययोः ।
पोषणं भूत्यवर्गस्य सान्त्वदानपरिग्रहे ॥
न्यायतः कर्मकरणमन्यायाहितवर्जितम् ।
सम्यग्वृत्तं स्वदारेषु दोषाणां प्रतिषेधनम् ॥
पुत्राणां विनयं कुर्यात्तत्तत्कार्यनियोजनम् ।
वर्जनं चाशुभार्थानां शुभानां जोषणं तथा ॥
कुलोचितानां धर्माणां यतावत्परिपालनम् । कुलसन्धारणं चैव पौरुषेणैव सर्वशः ।
एवमादि शुभं सर्वं तस्य वृत्तमिति स्थितम् ॥
वृद्धसेवी भवेन्नित्यं हितार्थं ज्ञानकाङ्क्षया । परार्थं नाहरेद्द्रव्यमनामन्त्र्य तु सर्वथा ।
न याचेत परान्धीरः स्वबाहुबलमाश्रयेत् ॥
स्वशरीरं सदा रक्षेदाहाराचारयोरपि ।
हितं पथ्यं सदाहारं जीर्णं भुञ्जीत मात्रया ॥
देवतातिथिसत्कारं कृत्वा सर्वं यथाविधि ।
शेषं भुञ्जेच्छुचिर्भूत्वा न च भाषेत विप्रियम् ॥
प्रतिश्रयं च पानीयं बलिं भिक्षां च सर्वतः ।
गृहस्थवासी सततं तद्याद्गाश्चैव पोषयेत् ॥
बहिर्निष्क्रमणं चैव कुर्यात्कारणतोपि वा ।
मध्याह्ने वाऽर्धरात्रे वा गमनाय न रोचयेत् ॥
विषयान्नावगाहेत स्वशक्त्या तु समाचरेत् ।
यथाऽऽयव्ययता लोके गृहस्थानां प्रपूजितम् ॥
अयशस्करमर्थघ्नं कर्म यत्परपीडनम् ।
भयाद्वा यदि लोभाद्वा न कुर्वीत कदाचन ॥
बुद्धिपूर्वं समालोक्य दूरतो गुणदोषतः ।
आरभेत तदा कर्भ शुभं वा यदि वेतरत् ॥
आत्मसाक्षी भवेन्नित्यमात्मनस्तु शुभाशुभे ।
मनसा कर्मणा वाचा न च काङ्क्षेत पातकम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षोडशाधिकद्विशततमोऽध्यायः ॥ 216 ॥

श्रीः