अध्यायः 269

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेणि युधिष्ठिरंप्रत्यन्वयव्यतिरेकाभ्यां सुकृतदुष्कृतयोः सदृष्टान्तप्रदर्शनं सुखदुःखकारणत्वोपपादनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

नाभागधेयः प्राप्नोति धनं सुबलवानपि ।
भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति ॥
नालाभकाले लभते प्रयत्नेऽपि कृते सति ।
लाभकालेऽप्रयत्नेन लभते विपुलं धनम् ॥
कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः ।
अयत्नेनैधमानाश्च दृश्यन्ते बहवो जनाः ॥
यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुयात् ।
नालभ्यं चोपलभ्येत नृणां भरतसत्तम ॥
प्रयत्नं कृतवन्तोपि दृश्यन्ते ह्यफला नराः ।
मार्गत्यागशतैरर्थानमार्गश्चापरः सुखी ॥
अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः ।
धनयुक्ताः स्वकर्मस्था दृश्यन्ते चापरेऽधनाः ॥
अधीत्य नीतिशास्त्राणि नीतियुक्तो न दृश्यते ।
अनभिज्ञश्च साचिव्यं गमितः केन हेतुना ॥
विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्मतिस्तथा ।
यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात् ॥
न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत् ।
यथा पिपासां जयति पुरुषः प्राप्य वै जलम् ॥
इष्टार्थो विद्यया ह्येव न विद्यां प्रजहेन्नरः ॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥
भीष्म उवाच ।
ईहमानः समारम्भान्यदि नासादयेद्धनम् ।
उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति ॥
दानेन भोगी भवति मेधावी वृद्धसेवया ।
अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ॥
तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि ।
सुभाषी प्रियकृच्छान्तः सर्वसत्वाविहिंसकः ॥
यदा प्रमाणं प्रसवः स्वभावश्च सुखासुखे ।
दंशकीटपिपीलानां स्थिरो भव युधिष्ठिर ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनसप्तत्यधिकद्विशततमोऽध्यायः ॥ 269 ॥

7-269-3 कृतो यत्नोऽफलो येषां ते कृतयत्नाफलाः ॥ 7-269-4 भवेत्समर्थः स्यात् ॥ 7-269-5 आयशतैः उपायशतैः । सुखी धनेन ॥ 7-269-13 तपसेह भोगी भवतीति ट.थ.पाठः ॥ 7-269-15 प्रसवः प्रसवकारणं कर्मैव । दशादीनां सुखाद्याप्तौ प्रमाणं नियामकम् । एवं स्वस्यापि ज्ञात्वा स्थिरोऽचञ्चलो भव ॥

श्रीः