अध्यायः 003

अश्वमेधपर्व ॥ 1 ॥

व्यासेन युधिष्ठिरंप्रति पुरुषकर्मणामीश्वरप्रेरणायत्ततया दोषानापादकत्वकथनपूर्वकं तदभ्युपगमेनापि पापापनोदायाश्वमेधादिविधानम् ॥ 1 ॥ युधिष्ठिरेण स्वस्य तावद््द्रव्याभावनिवेदने व्यासेन तंप्रति हिमवति गिरौ विद्यमानमरुत्तयागावशिष्टद्रव्यानयनेनाश्वमेधकरणचोदना ॥ 2 ॥

व्यास उवाच ।

युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः ।
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाम् ॥
ईश्वरेण च युक्तोऽयं साध्वसाधु च मानवः ।
करोत्यसुकरं कर्म तत्रका परिदेवना ॥
आत्मानं मन्यसे चाथ पापकर्माणमन्ततः ।
शृणु तत्र यथा पापमपकृत्येत भारत ॥
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर ।
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते ॥
यज्ञेन तपसा चैव दानेन च नराधिप ।
पूयन्ते नरशार्दूल नरा दुष्कृतकारिणः ॥
असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् ।
प्रवर्तन्ते महात्मानस्तस्माद्यज्ञः परायणम् ॥
यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः ।
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन् ॥
राजसूयाश्वमेधौ च सर्वमेधं च भारत ।
नरमेधं च नृपते त्वमाहर युधिष्ठिर ॥
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ।
बहुकामान्नवित्तेन रामो दाशरथिर्यथा ॥
यथा च भरतो राजा दौष्यन्तिः पृथिवीपतिः ।
शाकुन्तलो महावीर्यस्तव पूर्वपितामहः ॥
युधिष्ठिर उवाच ।
असंशयं वाजिमेधः पारयेत्पृथिवीमपि ।
अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि ॥
इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम । `अहमाराधयिष्यामि कथं शोकपरायणः ।'
दानमल्पं न शक्नोमि दातुं वित्तं च नास्ति मे ॥
न तु बालानिमान्दीनानुत्सहे वसु याचितुम् ।
तथैवाद्रविणान्कृच्छ्रे वर्तमानान्नृपात्मजान् ॥
स्वयं विनाश्य पृथिवीं यज्ञार्थं द्विजसत्तम ।
करमाहारयिष्यामि कथं शोकपरायणः ॥
दुर्योधनापराधेनि वसुधायां नराधिपाः ।
प्रनष्टा योजयित्वाऽस्मानकीर्त्या मुनिसत्तम ॥
दुर्योधनेन पृथिवी क्षपिता जयकारणात् ।
कोशश्चापि विशीर्णोसौ धार्तराष्ट्रस्य दुर्मतेः ॥
पृथिवी दक्षिणा चात्र वाजिमेधे महाक्रतौ ।
विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः ॥
न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन ।
अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि ॥
एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा ।
मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत् ॥
कोशश्चापि विशीर्णोऽयं परिपूर्णो भविष्यति ।
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् ॥
उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपते ।
तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति ॥
युधिष्ठिर उवाच ।
कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् ।
कस्मिंश्च काले स नृपो बभूव ददतांवर ॥
व्यास उवाच ।
यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम् ।
यस्मिन्काले महावीर्यः स राजाऽऽसीन्महाधनः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

7-3-18 प्रतिनिधिमनुकल्पम् ॥

श्रीः