अध्यायः 100

कृष्णेन युधिष्ठिरंप्रति सुकृतिदुष्कृतिजनप्राप्यवैवस्वतपुरमार्गादिप्रतिपादनपूर्वकं तेषां तद्गमनप्रकारानुवर्णनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

देवदेवेश दैत्यघ्नि परं कौतूहलं हि मे । एतत्कथय सर्वज्ञ त्वद्भक्तस्य च केशव ।
मानुषस्य च लोकस्य धर्मलोकस्य चान्तरम् ॥
कीदृशं किंप्रमाणं वा किमधिष्ठानमेव च ।
तरन्ति मानुषा देव केनोपायेन माधव ॥
त्वगस्थिमांसनिर्मुक्ते पञ्चभूतविवर्जिते ।
कथयस्व महादेव सुखदुःखमशेषतः ॥
जीवस्य कर्मलोकेषु कर्मभिस्तु शुभाशुभैः ।
अनुबद्धस्य तैः पाशैर्नीयमानस्य दारुणैः ॥
मृत्युदूतैर्दुराधर्षैर्घोरैर्घोरपरक्रमैः ।
वध्यस्याक्षिप्यमाणस्य विद्रुतस्य यमाज्ञया ॥
पुण्यपापकृदातिष्ठेत्सुखदुःखमशेषतः । यमदूतैर्द्रुराधर्षैर्नीयते वा कथं पुनः ।
किं वा तत्र गता देव कर्म कुर्वन्ति मानवाः ॥
कथं धर्मपरा यान्ति देवताद्विजपूजकाः ।
कतं वा पापकर्माणो यान्ति प्रेतपुरं नराः ॥
किं रूपं किं प्रमाणं वा वर्णः को वाऽस्य केशव ।
जीवस्य गच्छतो नित्यं यमलोकं ब्रवीहि मे ॥
भगवानुवाच ।
शृणु राजन्यथावृतं यन्मां त्वं परिपृच्छसि ।
तत्तेऽहं कथयिष्यामि मद्भक्तस्य नरेश्वर ॥
षडशीतिसहस्राणि योजनानां युधिष्ठिर ।
मानुष्यस्य च लोकस्य यमलोकस्य चान्तरम् ॥
न तत्र वृक्षच्छाया वा न तटाकं सरोपि वा ।
न वाप्यो दीर्घिका वाऽपि न कूपो वा युधिष्ठिर ॥
न मण्टपं सभा वाऽपि न प्रपा न निकेतनम् ।
न पर्वतो नदी वाऽपि न भूमेर्विवरं क्वचित् ॥
न ग्रामो नाश्रमो वाऽपि नोद्यानं वा वनानि च ।
न किंचिदाश्रयस्थानं पथि तस्मिन्युधिष्ठिर ॥
जन्तोर्हि प्राप्तकालस्य वेदनार्तस्य वै भृशम् ।
कारणैस्त्यक्तदेहस्य प्राणैः कण्ठगतैः पुनः ॥
शरीराच्चाल्यते जीवो ह्यवशो मातरिश्वना ।
निर्गतो वायुभूतस्तु षट्कोशात्तु कलेवरात् ॥
शरीरमन्यत्तद्रूपं तद्वर्णं तत्प्रमाणतः ।
अदृश्यं तत्प्रविष्टस्तु सोप्यदृष्टोऽथ केनचित् ॥
सोन्तरात्मा देहवतामष्टाङ्गो यस्तु संचरेत् । छेदनाद्भेदनाद्दाहात्ताडनाद्वा न नश्यति ।
नाना रूपधरैर्घौरैः प्रचण्डेश्चण्डसाधनैः ।
नीयमानो दुराधर्षैर्यमदूतैर्यमाज्ञया ॥
पुत्रदारमयैः पाशैः संनिरूद्धोऽवशो बलात् ।
स्वकर्मभिश्चानुगतः कृतैः सुकृतदुष्कृतैः ॥
आक्रन्दमानः करुणं बन्धुभिर्दुःखपीडितैः ।
त्यक्त्वा बन्धुजनं सर्वं निरपेक्षस्तु गच्छति ॥
मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा ।
दारैः पुत्रैर्वयस्यैश्च रुदद्भिस्त्यज्यते पुनः ॥
अदृश्यमानस्तैर्दीनैरश्रुपूर्णमुखेक्षणैः ।
स्वशरीरं परित्यज्य वायुभूतस्तु गच्छति ॥
अन्धकारमपारं तं महाघेरं तमोवृतम् ।
दुःखान्तं दुष्प्रतारं च दुर्गमं पापकर्मणाम् ॥
दुःसहायं दुरन्तं च दुर्निरीक्षं दुरासदम् ।
दुरापमतिदुःखं च पापिष्ठानां नरोत्तम ॥
ऋषिभिः कथ्यमानं तत्पारंपर्येण पार्थिव ।
त्रासं जनचति प्रायः श्रूयमाणं कथास्वपि ॥
अवश्यं चैव गन्तव्यं तदध्वानं युधिष्ठिर ।
प्राप्तकालेन संत्यज्य बन्धून्भोगान्धनानि च ॥
जरायुजैरण्डजैश्च स्वेदजैरुद्भिदैस्तथा ।
जङ्गमैः स्थिरसंज्ञैश्च गन्तव्यं यमसादनम् ॥
देवासुरैर्मनुष्याद्यैर्वैवस्वतवशानुगैः ।
स्त्रीपुंनपुंसकैश्चापि पृथिव्यां जीवसंज्ञितैः ॥
मध्यमैर्युवभिर्वाऽपि बालैर्वृद्धैस्तथैव च ।
जातमात्रैश्च गर्भस्थैर्गन्तव्यः स महापथः ॥
पूर्वाह्णे वाऽपराह्णे वा सन्ध्याकालेऽथवा पुनः ।
प्रदोषे वाऽर्धरात्रे वा प्रत्युषे वाऽप्युपस्थिते ॥
प्रवासस्थैर्वनस्थैर्वा पर्वतस्थैर्जले स्थितैः ।
क्षेत्रस्थैर्वा नभःस्थेर्वा गृहमध्यगतैरपि ॥
भुञ्जद्भिर्वा पिबद्भिर्वा खादद्भिर्वा नरोत्तम । आसीनैर्वा स्थितैर्वापि शयनीयगतैरपि ।
जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः ॥
मृत्युदूतैर्दुराधर्षैः प्रचण्डैश्चण्डसासनैः ।
आक्षिप्यमाणा ह्यवशाः प्रयान्ति यमसादनम् ॥
क्वचिद्भीतैः क्वचिन्मत्तैः प्रस्खलद्भिः क्वचित्क्वचित् ।
क्रन्दद्भिर्वेदनार्तैस्तु गन्तव्यं यमसादनम् ॥
निर्भर्त्स्यमानैरुद्विग्रैर्विधूतैर्भयविह्वलैः ।
तुद्यमानशरीरैश्च गन्तव्यं तर्जितैस्तथा ॥
कण्टकाकीर्णमार्गेण तप्तवालुकपांसुना ।
दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः ॥
काष्ठोपलशिलाघातैर्दण्डोल्मुककशाङ्कुशैः ।
हन्यमानैर्यमपुरं गन्तव्यं धर्मवर्जितैः ॥
मेदःशोणितपूयाद्यैर्वक्त्रैर्गात्रैश्च सव्रणैः ।
दग्धक्षतजकीर्णैश्च गन्तव्यं जीवघातकैः ॥
वेदनार्तैस्च कूजद्भिर्विक्रोशद्भिश्च विस्वरम् ।
वेदनार्तैः पतद्भिश्च गन्तव्यं जीवघातकैः ॥
भग्रपादोरुहस्तङ्गैर्भग्रजङ्घाशिरोधरैः ।
छिन्नकर्णोष्ठनासैश्च गन्तव्यं जीवघातकैः ॥
शक्तिभिर्भिण्डिपालैश्च शङ्कुतोमरसायकैः ।
तुद्यमानैस्तु शूलाग्रैर्गन्तव्यं जीवघातकैः ॥
श्वभिर्व्याघ्रैर्वृकैः काकैर्भक्ष्यमाणाः समन्ततः ।
तुद्यमानाश्च गच्छन्ति राक्षसैर्मांसघातिभिः ॥
महिषैश्च मृगैश्चापि सूकरैः पृषतैस्तथा ।
भक्ष्यमाणैस्तदध्वानं गन्तव्यं मांसखादिभिः ॥
सूचीसुतीक्ष्णतुण्डाभिर्मक्षिकाभिः समन्ततः ।
तुद्यमानैश्च गन्तव्यं पापिष्ठैर्बालघातकैः ॥
विस्रब्धं स्वामिनं मित्रं स्त्रियं वा घ्रन्ति ये नराः ।
शस्त्रैर्निर्भिद्यमानैश्च गन्तव्यं यमसादनम् ॥
खादयन्ति च ये जीवान्दुःखमापादयन्ति च ।
राक्षसैश्च श्वभिश्चैव भक्ष्यमाणा व्रजन्ति च ॥
ये हरन्ति च वस्त्राणि शय्यां प्रावरणानि च ।
ते यान्ति विद्रुता नग्नाः पिशाचा इव तत्पथं ॥
गाश्च धान्यं हिरण्यं वा बलात्क्षेत्रं गृहं तथा ।
ये हरन्ति दुरात्मानः परस्वं पापकारिणः ॥
पाषाणैरुल्मुकैर्दण्डैः काष्ठघातैश्च चर्झरैः ।
हन्यमानैः क्षताकीर्णैर्नन्तव्यं तैर्यमालयम् ॥
ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः ।
आक्रोशन्तीह ये नित्यं प्रहरन्ति च ये द्विजान् ॥
शुष्ककण्ठा निबद्धास्ते छिन्नजिह्वाक्षिनासिकाः ।
पूयशोणितदुर्गन्धा भक्ष्यमाणाश्च जंबुकैः ॥
चण्डालैर्भीषणैश्चण्डैस्तुद्यमानाः समन्ततः ।
क्रोशन्तः करुणं घोरं गच्छन्ति यमासादनम् ॥
तत्र चापि गताः पापा विष्ठाकूपेष्वनेकशः ।
जीवन्तो वर्षकोटीस्तु क्लिश्यन्ते वेदनात्ततः ॥
ततश्च मुक्ताः कालेन लोके चास्मिन्नराधमाः ।
विष्ठाक्रिमित्वं गच्छन्ति जन्मकोटिशतं नृप ॥
विद्यमानधनैर्यैस्तु लोभडंभानृतान्वितैः ।
श्रोत्रियेभ्यो न दत्तानि दानानि कुरुपुङ्गव ॥
ग्रीवापाशनिबद्धास्ते हन्यमानाश्च राक्षसैः ।
क्षुत्पिपासाश्रमार्तास्तु यान्ति प्रेतपुरं नराः ॥
अदत्तदाना गच्छन्ति शुष्ककण्ठास्यतालुकाः ।
अन्नं पानीयसहितं प्रार्थयन्तः पुनःपुनः ॥
स्वामिन्बुभक्षातृष्णार्ता गन्तुं नैवाद्य शक्नुमः । ममान्नं दीयतां स्वामिन्पानीयं दीयतां मम ।
इति ब्रुवन्तस्तैर्दूतैः प्राप्यन्ते वै यमालयम् ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा वचनं विष्णोः पपात भुवि पाण्डवः ।
निस्संज्ञो भयसंत्रस्तो मूर्छया समभिप्लुतः ॥
ततो लब्ध्वा शनैः संज्ञां समाश्वस्तोच्युतेन सः ।
नेत्रे प्रक्षाल्य तोयेन भूयः केशवमब्रवीत् ॥
भीतोस्म्यहं महादेव श्रुत्वा मार्गस्य विस्तरम् ।
केनोपायेन तं मार्गं तरन्ति पुरुषाः सुखम् ॥
भगवानुवाच ।
इह ये धार्मिका लोके जीवगातविवर्जिताः ।
गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः ॥
अस्मान्मानुष्यलोकात्ते समार्याः सहबान्धवाः ।
यमध्वानं तु गच्छन्ति यथावत्तं निबोध मे ॥
ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पाण्डव ।
ये प्रयच्छन्ति विप्रेभ्यस्ते सुखं यान्ति तत्फलम् ॥
अन्नं ये च प्रयच्छन्ति ब्राह्मणेभ्यः सुसंस्कृतम् ।
क्षोत्रियेभ्यो विशेषेण प्रीत्या परमया युताः ॥
ते विमानैर्महात्मानो यान्ति चित्रैर्यमालयम् ।
सेव्यमाना वरस्त्रीभिरप्सरोभिर्महापथम् ॥
ये च नित्यं प्रभाषन्ते सत्यं निष्कल्मषं वचः ।
ते च यान्त्यमलाभ्राभैर्विमानैर्वृषयोजितैः ॥
कपिलाद्यानि पुण्यानि गोप्रदानानि ये नराः ।
ब्राह्मणेभ्यः प्रयच्छन्ति श्रोत्रियेभ्यो विशेषतः ॥
ते यान्त्यमलवर्णाभैर्विमानैर्वृषयोजितैः ।
वैवस्वतपुरं प्राप्य ह्यप्सरोभिर्निषेविताः ॥
उपानहौ च च्छत्रं च शयनान्यासनानि च ।
विप्रेभ्यो ये प्रयच्छन्ति वस्त्राण्याभरणानि च ॥
ते यान्त्यश्वैर्वृषैर्वाऽपि कुञ्जरैरप्यलङ्कृताः ।
धर्मराजपुरं रम्यं सौवर्णच्छत्रशोभिताः ॥
ये च भक्ष्याणि दास्यन्ति भोज्यं पेयं तथैव च ।
स्निग्धान्नान्यापि विप्रेभ्यः श्रद्धया परया युताः ॥
ते यान्ति काञ्चनार्यानैः सुखं वैवस्वतालयम् ।
वरस्त्रीभिर्यथाकामं सेव्यमानाः सहस्रशः ॥
ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु ।
ब्राह्मणेभ्यः प्रयत्नेन श्रद्दधानाः सुसंस्कृताः ॥
चक्रवाकप्रयुक्तैस्तु यानै रुक्ममयैः शुभैः ।
यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् ॥
ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च ।
हंसयुक्तैर्विमानैस्तु यान्ति धर्मपुरं नराः ॥
ये प्रयच्छन्ति विप्रेभ्यो विचित्रान्नं घृताप्लुतम् । ते व्रजनत्यमलाभ्राभैर्विमानैर्वायुवेगिभिः ।
पुरं तत्प्रेतनाथस्य नानाजनसमाकुलम् ।
पानीयं ये प्रयच्छन्ति सर्वभूतप्रजीवनम् ।
ते सुतृप्ताः सुखं यान्ति भवनैर्हंसचोदितैः ॥
ये तिलं तिलधेनुं वा धृतधेनुमथापि च ।
श्रोत्रियेभ्यः प्रयच्छन्ति सौम्यभावसमन्विताः ॥
सूर्यमण्डलसंकाशैर्यानैस्ते यान्ति निर्मलैः ।
गीयमानैस्तु गन्धर्वैर्वैवस्वतपुरं नृप ॥
येषां वाप्यश्च कूपाश्च तटाकानि सरांसि च ।
दीर्घिकाः पुष्करिण्यश्च सजलाश्च जलाशयाः ॥
यानैस्ते यान्ति चन्द्राभैर्दिव्यघण्टानिनादितैः । चामरैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः ।
नित्यतृप्ता महात्मानो गच्छन्ति यमसादनम् ॥
येषां देवगृहाणीह चित्राण्यायतनानि च ।
मनोहराणि कान्तानि दर्शनीयानि भान्ति च ॥
ते व्रजन्त्यमलाभ्राभैर्विमानैर्वायुवेगिभिः ।
पुरं तत्प्रेतनाथस्य नानाजनपदाकुलम् ॥
वैवस्वतं च पश्यन्ति सुखचित्तं सुखस्थितम् ।
यमेन पूजिता यान्ति देवसालोक्यतां ततः ॥
देवानुद्दिश्य लोकेषु प्रपासु करकोद्धृतम् । शीतलं सलिलं रम्यं तृषितेभ्यो दिशन्ति ये ।
ते तु तृप्ति परां यान्ति प्राप्य सौख्यं महापथम् ॥
काष्ठपादुकदा यान्ति तदध्वानं सुखं नराः ।
सौवर्णमणिपीठे तु पादं कृत्वा स्थोत्तमे ॥
आरामान्वृक्षषण्डांश्च रोपयन्ति च ये नराः ।
संवर्धयन्ति चाव्यग्रं फलपुष्पोपशोभितम् ॥
वृक्षच्छायासु रम्यासु शीतलासु स्वलङ्कृताः । यान्ति ते वाहनैर्दिव्यैः पूज्यमाना मुहुर्मुहुः ।
सेव्यमानाः सुरूपाभिरुत्तमाभिः प्रयत्नतः ।
स्त्रीभिः कनकवर्णाभिर्यथाकामं यथासुखम् ॥
अश्वयानं तु गोयानं हस्तियानमथापि च ।
ये प्रयच्छन्ति विप्रेभ्यो विमानैः कनकोपमैः ॥
सुवर्णं रजतं वाऽपि विद्रुमं मौक्तिकं तथा । ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः ।
ते व्रजन्ति वरस्त्रीभिः सेव्यमाना यथासुखम् ॥
भूमिदा यान्ति तं लोकं सर्वकामैः सुतर्पिताः ।
उदितादित्यसंकाशैर्विमानैर्वृषयोजितैः ॥
कन्यां ये च प्रयच्छन्ति विप्राय श्रोत्रियाय च ।
दिव्यकन्यावृता यान्ति विमानैस्ते यमालयम् ॥
सुगन्धान्गन्धसंयोगान्पुष्पाणि सुरभीणि च ।
प्रयच्छन्ति द्विजाग्रेभ्यो भक्तया परमया युताः ॥
सुगन्धाः धर्मपुरं यानैर्विचित्रैरप्यलङ्कृताः ॥
यान्ति धर्मपुरं यानैर्विचित्रैरप्यलङ्कृताः ॥
दीपया यान्ति यानैश्च द्योतयन्तो दिशो दश ।
आदित्यसदृशाकारैर्दीप्यमाना इवाग्नयः ॥
गृहावसथदातारो गृहैः काञ्चनवेदिकैः ।
व्रजन्ति बालसूर्याभैर्धर्मराजपुरं नराः ॥
जलभाजनदातारः कुण्डिकाकरकप्रदाः ।
पूज्यमाना वरस्त्रीभिर्यान्ति तृप्ता महागजैः ॥
पादाभ्यङ्गं शिरोभ्यह्गं पानं पादोदकं तथा ।
ये प्रयच्छन्ति विप्रेभ्यस्ते यान्त्यश्वैर्यमालयम् ॥
विश्रामायन्ति ये विप्राञ्श्रान्तानध्वनि कर्शितान् ।
चक्रवाकप्रयुक्तेन यान्ति यानेन तेऽपि च ॥
स्वागतेन च यो विप्रान्पूजयेदासनेन च ।
स गच्छति तदध्वानं सुखं परमनिर्वृतः ॥
नमो ब्रह्मण्यदेवेति यो मां दृष्ट्वाऽभिवादयेत् ।
व्रतीवं प्रयतो नित्यं स सुखं तत्पदं व्रजेत् ॥
नमः सर्वसहाभ्यश्चेत्यभिख्याय दिनेदिने ।
नमस्करोति नित्यं गां स सुखं याति तत्पथं ॥
नमोस्तु प्रियदत्तायेत्येवंवादी दिनेदिने ।
भूमिमाक्रमते प्रातः सयनादुत्थितश्च यः ॥
सर्वकामैः स तृप्तात्मा सर्वभूषणभूषितः ।
याति यानेन दिव्येन सुकं वैवस्वतालयम् ॥
अनत्तराशिनो ये तु डंभानृतविवर्जिताः ।
तेऽपि सारसयुक्तेन यान्ति यानेन वै सुखम् ॥
ये चाप्येकेन भुक्तेन डंभानृतविवर्जिताः ।
हंसयुक्तैर्विमानैस्तु सुखं यान्ति यमालयम् ॥
चतुर्थेन च भुक्तेन वर्तन्ते ये जितेन्द्रियाः ।
यान्ति ते धर्मनगरं यानैर्बर्हिणयोजितैः ॥
तृतीयदिवसेनेह भुञ्जते ये जितेन्द्रियाः ।
तेऽपि हस्तिरथं यान्ति तत्पथं कनकोज्ज्वलैः ॥
षष्ठान्नकालिको यस्तु वर्षमेकं तु वर्तते । कामक्रोधवनिर्मुक्तः शुचिर्नित्यं जितेन्द्रियः ।
स याति कुञ्जरस्थैस्तु जयशब्दरवैर्युतः ॥
पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः ।
धर्मराजपूरं रम्यं दिव्यस्त्रीगणसेवितम् ॥
ये च मासोपवासं वै कुर्वते संयतेन्द्रियाः ।
तेऽपि सूर्यादयप्रख्यैर्यान्ति यानैर्यमालयम् ॥
अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना ।
स यात्यग्निप्रकाशेन विमानेन यमालयम् ॥
गोकृते स्त्रीकृते चैव हत्वा विप्रकृतेऽपि च ।
ते यान्त्यमरकन्याभिः सेव्यमाना रविप्रभाः ॥
ये च कुर्वन्ति मद्भक्तास्तीर्थयात्रां जितेन्द्रियाः ।
ते पन्थानं महात्मानो यानैर्यान्ति सुनिर्वृताः ॥
ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर्भूरिदक्षिणैः ।
हंससारससंयुक्तैर्यानैस्ते यान्ति तत्पथम् ॥
परपीडामकृत्वैव भृत्यान्बिभ्रति ये नराः ।
तत्पथं ससुखं यान्ति विमानैः काञ्चनोज्ज्वलैः ॥
ये समाः सर्वभूतेषु जीवानामभयप्रदाः । क्रोधलोभविनिर्मुक्ता निगृहीतेन्द्रियास्तथा ।
पूर्णचन्द्रप्रतीकाशैर्विमानैस्ते महाप्रभाः ।
यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः ॥
ये मामेकान्तभावेन देवं त्र्यंबकमेव वा । पूजयन्ति नमस्यन्ति स्तुवन्ति च दिनेदिने ।
धर्मराजपुरं यान्ति यानैस्तेऽर्कसमप्रभैः ॥
पूजितास्तत्र धर्मेण स्वयं माल्यादिभिः शुभैः ।
यान्त्येव धर्मलोकं वा रुद्रलोकमथापि वा ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि शततमोऽध्यायः ॥ 100 ॥

श्रीः