अध्यायः 113

दीर्घतमसो ऋषेरुपाख्यानम् ॥ 1 ॥

भीष्म उवाच ।
जामदग्न्येन रामेण पितुर्वधममृष्यता ।
राजा परशुना पूर्वं हैहयाधिपतिर्हतः ॥
शतानि दशबाहूनां निकृत्तान्यर्जुनस्य वै ।
लोकस्याचरितो धर्मस्तेनाति किल दुश्चरः ॥
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता ।
निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ॥
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना ।
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥
एवं निःक्षत्रिये लोके कृते तेन महर्षिणा ।
ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः ॥
उत्पादितान्यपत्यानि ब्राह्मणैर्वेदपारगैः ।
पाणिग्राहस्य तनय इति वेदेषु निश्चितम् ॥
धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः ।
लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ॥
ततः पुनः समुदितं क्षत्रं समभवत्तदा ।
इमं चैवात्र वक्ष्येऽहमितिहासं पुरातनम् ॥
अथोचथ्य इति ख्यात आसीद्धीमानृषिः पुरा ।
ममता नाम तस्यासीद्भार्या परमसंमता ॥
उचथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् ।
बृहस्पतिर्बृहत्तेजा ममतामन्वपद्यत ॥
उवाच ममता तं तु देवरं वदतां वरम् ।
अन्तर्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यतामिति ॥
अयं च मे महाभाग कुक्षावेव बृहस्पते ।
औचथ्यो देवमत्रापि षडङ्गं प्रत्यधीयत ॥
अमोघरेतास्त्वं चापि द्वयोर्नास्त्यत्र संभवः ।
तस्मादेवं गते त्वद्य उपारमितुमर्हसि ॥
वैशंपायन उवाच ।
एवमुक्तस्तदा सम्यक् बृहस्पतिरुदारधीः ।
कामात्मानं तदात्मानं न शशाक नियच्छितुम् ॥
स बभूव ततः कामी तया सार्धमकामया ।
उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ॥
भोस्तात मा गमः कामं द्वयोर्नास्तीह संभवः ।
अल्पावकाशो भगवन्पूर्वं चाहमिहागतः ॥
अमोघरेताश्च भवान्न पीडां कर्तुमर्हति ।
अश्रुत्वैव तु तद्वाक्यं गर्भस्थस्य बृहस्पतिः ॥
जगाम मैथुनायैव ममतां चारुलोचनाम् ।
शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो मुनिः ॥
पद्भ्यामारोधयन्मार्गं शुक्रस्य च बृहस्पतेः ।
स्थानमप्राप्तमथ तच्छुक्रं प्रतिहतं तदा ॥
पपात सहसा भूमौ ततः क्रुद्धो बृहस्पतिः ।
तं दृष्ट्वा पतितं शुक्रं शशाप स रुषान्वितः ॥
उचथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ।
यन्मां त्वमीदृशे काले सर्वभूतेप्सिते सति ॥
एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ।
स वै दीर्घतमा नाम शापादृषिरजायत ॥
बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ।
जात्यन्धो वेदवित्प्राज्ञः पत्नीं लेभे स विद्यया ॥
तरुणीं रुपसंपन्नां प्रद्वेषीं नाम ब्राह्मणीम् ।
स पुत्राञ्जनयामास गौतमादीन्महायशाः ॥
ऋषेरुचथ्यस्य तदा सन्तानकुलवृद्धये ।
धर्मात्मा च महात्मा च वेदवेदाङ्गपारगः ॥
गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलं मुनिः ।
प्रावर्तत तदा कर्तुं श्रद्धावांस्तमशङ्कया ॥
ततो वितथमर्यादं तं दृष्ट्वा मुनिसत्तमाः ।
क्रुद्धा मोहाभिभूतास्ते सर्वे तत्राश्रमौकसः ॥
अहोऽयं भिन्नमर्यादो नाश्रमे वस्तुमर्हति ।
तस्मादेनं वयं सर्वे पापात्मानं त्यजामहे ॥
इत्यन्योन्यं समाभाष्य ते दीर्घतमसं मुनिम् ।
पुत्रलाभाच्च सा पत्नी न तुतोष पतिं तदा ॥
प्रद्विषन्तीं पतिर्भार्यां किं मां द्वेक्षीति चाब्रवीत् ।
प्रद्वेष्युवाच ।
भार्याया भरणाद्भर्ता पालनाच्च पतिः स्मृतः ॥
अहं त्वद्भरणाशक्ता जात्यन्धं ससुतं तदा ।
नित्यकालं श्रमेणार्ता न भरेयं महातपः ॥
भीष्म उवाच ।
तस्मास्तद्वचनं श्रुत्वा ऋषिः कोपसमन्वितः ।
प्रत्युवाच ततः पत्नीं प्रद्वेषीं ससुतां तदा ॥
नीयतां क्षत्रियकुले धनार्थश्च भविष्यति ।
प्रद्वेष्युवाच ।
त्वया दत्तं धनं विप्र नेच्छेयं दुःखकारणम् ॥
यथेष्टं कुरु विप्रेन्द्र न भेरयं पुरा यथा ।
दीर्घतमा उवाच ।
अद्यप्रभृति मर्यादा मया लोके प्रतिष्ठिता ॥
एक एव पतिर्नार्या यावज्जीवं परायणम् ।
मृते जीवति वा तस्मिन्नापरं प्राप्नुयान्नरम् ॥
अभिगम्य परं नारी पतिष्यति न संशयः ।
अपतीनां तु नारीणामद्यप्रभृति पातकम् ॥
यद्यस्ति चेद्धनं सर्वं वृथाभोगा भवन्तु ताः ।
अकीर्तिः परिवादाश्च नित्यं तासां भवन्तु वै ॥
इति तद्वचनं श्रुत्वा ब्राह्मणी भृशकोपिता ।
गङ्गायां नीयतामेष पुत्रा इत्येवमब्रवीत् ॥
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः ।
वद्ध्वोडुपे परिक्षिप्य गङ्गायां समवासृजन् ॥
कस्मादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते ।
चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ॥
सोऽनुस्रोतस्तदा विप्रः प्लवमानो यदृच्छया ।
जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ॥
तं तु राजा बलिर्नाम सर्वधर्मविदां वरः ।
अपश्यन्मज्जनगतः स्रोतसाऽभ्याशमागतम् ॥
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः ।
ज्ञात्वा चैवं स वव्रेऽथ पुत्रार्थे भरतर्षभ ॥
`तं पूजयित्वा राजर्षिर्विश्रान्तं मुनिमब्रवीत् ।' सन्तानार्थं महाभाग भार्यासु मम मानद ।
पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ॥
भीष्म उवाच ।
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः ।
तस्मैस राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ॥
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह ।
स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ॥
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिस्तदा ।
जनयामास धर्मात्मा पुत्रानेकादशैव तु ॥
काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः ।
उवाच तमृषिं राजा ममेम इति भारत ॥
नेत्युवाच महर्षिस्तं ममेम इति चाब्रवीत् ।
शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ॥
अन्धं वृद्धं च मां दृष्ट्वा सुदेष्णा महिषी तव ।
अवमन्य ददौ मूढा शूद्रां धात्रेयिकां मम ॥
भीष्म उवाच ।
ततः प्रसादयामास पुनस्तमृषिसत्तमम् ।
बलिः सुदेष्णां स्वां भार्यां तस्मै स प्राहिणोत्पुनः ॥
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् ।
भविष्यन्ति कुमारास्ते तेजसाऽऽदित्यवर्चसः ॥
अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः ।
तेषां देशाः समाख्याताः स्वनामकथिता भुवि ॥
अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य च स्मृतः ।
कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः ॥
पुण्ड्रस्य पुण्ड्राः प्रख्याताः सुह्माः सुह्मस्य च स्मृताः ।
एवं बलेः पुरा वंशः प्रख्यातो वै महर्षिजः ॥
एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि । जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः ।
एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रयोदशाधिकशततमोऽध्यायः ॥ 113 ॥

1-113-10 अन्वपद्यत उपगतवान् ॥ 1-113-11 आरम्यतामुपरम्यताम् ॥ 1-113-14 आत्मानं चित्तम् । नियच्छितुं नियन्तुम् ॥ 1-113-16 कामं मैथुनं मा गमः ॥ 1-113-20 तं शशापेति संबन्धः ॥ 1-113-22 दीर्घं तमः अन्धत्वम् ॥ 1-113-25 सम्यक् तानं विस्तारो यस्य तस्य कुलस्य वृद्धये विस्तीर्णस्यापि वृद्धये इत्यर्थः ॥ 1-113-26 गोधर्मं प्रकाशमैथुनम् । सौरभेयात् कामधेनुपुत्रादधीत्याधिगम्य ॥ 1-113-27 मोहाभिभूतत्वमपापे पापदर्शित्वात् ॥ 1-113-29 समाभा य क्रुद्धा इति पूर्वेणान्वयः ॥ 1-113-30 द्वेक्षि द्वेषं करोषि । पतिः पालनादुपसर्गेभ्यः । भरणादन्नादिना भर्ता च ॥ 1-113-31 अहं तु प्रत्युत त्वद्भरणाशक्ता सती न भरेयम् । तदा तदेव । लुप्तोपमा । पूर्ववदित्यर्थः ॥ 1-113-33 धनमर्थश्चोपभोगादिः ॥ 1-113-34 न भरेयं यथा पुरा भर्त्रन्तरं करिष्यामीत्याशयः ॥ 1-113-42 मज्जनगतः स्नानार्थं गतः । स्रोतसा प्रवाहेण । अभ्याशं समीपम् ॥ 1-113-46 धात्रेयिकां दासीम् ॥ 1-113-52 अङ्गेषु स्पृष्ट्वा स्वरूपज्ञानार्थमिति भावः । संधिरार्षः ॥ 1-113-56 यथेप्सितं ब्राह्मणेभ्यो वंशवृद्धिमित्यर्थः ॥ त्रयोदशाधिकशततमोऽध्यायः ॥ 113 ॥