अध्यायः 212

इन्द्रसेनापरनाम्न्या नालायन्या उपाख्यानारम्भः-नालायन्या स्थविरस्य पत्युर्मौद्गल्यस्य आराधनम् ॥ 1 ॥ तुष्टेन मौद्गल्येन नालायनीप्रार्थनयाऽऽत्मनः पञ्चरूपस्वीकारेण तस्यां रमणम् ॥ 2 ॥ तयोः स्वर्गादिलोकेषु नानारूपेण रमणम् ॥ 3 ॥ सैव नालायनी तव दुहिता जातेति द्रुपदं प्रति व्यासस्योक्तिः ॥ 4 ॥

व्यास उवाच ।
मा भूद्राजंस्तव तापो मनस्थः पञ्चानां भार्या दुहिता ममेति ।
मातुरेषा प्रार्थिता स्यात्तदानीं पञ्चानां भार्या दुहिता ममेति ॥
याजोपयाजौ धर्मरतौ तपोभ्यां तौ चक्रतुः पञ्चपतित्वमस्याः ।
तत्पञ्चभिः पाण्डुसुतैरवाप्ता भार्या कृष्णा मोदतां वै कुलं ते ॥
लोके नान्यो विद्यते त्वद्विशिष्टः
सर्वारीणामप्रधृष्योऽसि राजन् । भूयस्त्विदं शृणु मे त्वं विशोको यथाऽऽगतं पञ्चपत्नीत्वमस्याः ॥
एषा नालायनी पूर्वं मौद्गल्यं स्थविरं पतिम् ।
आराधयामास तदा कुष्ठिनं तमनिन्दिता ॥
त्वगस्थिभूतं कटुकं लोलमीर्ष्युं सुकोपनम् ।
सुगन्धेतरगन्धाढ्यं वलीपलितमूर्धजम् ॥
स्थविरं विकृताकारं शीर्यमाणनखत्वचम् ।
उच्छिष्टमुपभुञ्जाना पर्युपास्ते महामुनिम् ॥
ततः कदाचिदङ्गुष्ठो भुञ्जानस्य व्यशीर्यत ।
अन्नादुद्धृत्य तच्चान्नमुपभुङ्क्तेऽविशङ्किता ॥
तेन तस्याः प्रसन्नेन कामव्याहारिणा तदा ।
वरं वृणीष्वेत्यसकृदुक्ता वव्रे वरं तदा ॥
मौद्गल्य उवाच ।
नाहं वृद्धो न कटुको नेर्व्यावान्नैव कोपनः ।
न च दुर्गन्धवदनो न कृशो न च लोलुपः ॥
कथं त्वां रमयामीह कथं त्वां वासयाम्यहम् ।
वद कल्याणि भद्रं ते यथा त्वं मनसेच्छसि ॥
व्यास उवाच ।
सा तमक्लिष्टकर्माणं वरदं सर्वकामदम् ।
भर्तारमनवद्याङ्गी प्रसन्नं प्रत्युवाच ह ॥
नालायन्युवाच ।
पञ्चधा प्रविभक्तात्मा भगवांल्लोकविश्रुतः ।
रमय त्वमचिन्त्यात्मन्पुनश्चैकत्वमागतः ॥
तां तथेत्यब्रवीद्धीमान्महर्षिर्वै महातपाः ।
स पञ्चधा तु भूत्वा तां रमयामास सर्वतः ॥
नालायनीं सुकेशान्तां मौद्गल्यश्चारुहासिनीम् ।
आश्रमेष्वधिकं चापि पूज्यमानो महर्षिभिः ॥
स चचार यथाकामं कामरूपवपुः पुनः ।
यदा ययौ दिवं चापि तत्र देवर्षिभिः सह ॥
चचार सोऽमृताहारः सुरलोके चचार ह ।
पूज्यमानस्तथा शच्या शक्रस्य भवनेष्वपि ॥
महेन्द्रसेनया सार्धं पर्यधावद्रिरंसया ।
सूर्यस्य च रथं दिव्यमारुह्य भगवान्प्रभुः ॥
पर्युपेत्य पुनर्मेरु मेरौ वासमरोचयत् ।
आकाशगङ्गामाप्लुत्य तया सह तपोधनः ॥
रश्मिजालेषु चन्द्रस्य उवाच च यथाऽनिलः ।
गिरिरूपधरो योगी स महर्षिस्तदा पुनः ॥
तत्प्रभावेन सा तस्य मध्ये जज्ञे महानदी ।
यदा पुष्पाकुलः सालः संजज्ञे भगवानृषिः ॥
लतात्वमनुसंपेदे तमेवाभ्यनुवेष्टती ।
पुपोष च वपुर्यस्य तस्य तस्यानुगं पुनः ॥
सा पुपोष समं भर्त्रा स्कन्धेनापि चचार ह ।
ततस्तस्य च तस्याश्च तुल्या प्रीतिरवर्धत ॥
तथा सा भगवांस्तस्याः प्रसादादृषिसत्तमः ।
विरराम च सा चैव दैवयोगेन भामिनी ॥
स च तां तपसा देवीं रमयामास योगतः ।
एकपत्नी तथा भूत्वा सदैवाग्रे यशस्विनी ॥
अरुन्धतीव सीतेव बभूवातिपतिव्रता ।
दमयन्त्याश्च मातुः स विशेषमधिकं ययौ ॥
एतत्तथ्यं महाराज मा ते भूद्बुद्धिरन्यथा ।
सा वै नालायनी जज्ञे दैवयोगेन केनचित् ॥
राजंस्तवात्मजा कृष्णा वेद्यां तेजस्विनी शुभा ।
तस्मिंस्तस्या मनः सक्तं न चचाल कदाचन ॥
तथा प्रणिहितो ह्यात्मा तस्यास्तस्मिन्द्विजोत्तमे ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥

1-212-1 मातुः मात्रा । स्यात् अभूत् ॥ 1-212-10 कथं केन प्रकारेण ॥ 1-212-22 स्कन्धेन मानुषादिदेहेन ॥ द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥