654

कारिकार्थ–


ततः तस्याः समधिगतेः सकाशात् एकान्तवादी सुगतादिः सकलवित्
सर्वज्ञो नेति ज्ञायते इत्यध्याहारः । किं कुर्वन् ? अलक्षयन्,
अनिश्चिन्वन् । किम् इत्याह–तत्त्वं जीवादि । कथम्भूतम् ? इत्याह
अनेकान्तभाक् अनेकान्तात्मकम् । पुनरपि कथम्भूतम् ? इत्याह–शक्यपरी
क्षणम्,
अपिशब्दोऽत्र द्रष्टव्यः । शक्यं परीक्षणं संशयादिव्यवच्छे6984देन स्वरूप
विवेचनं यस्य तत् तथोक्तम् । तदपि पृथग्जनलक्ष्यमपि इत्यर्थः । पुनरपि कथम्भूतम् ?
प्रत्यक्षम्, प्रत्यक्षग्राह्यमपि, अत्रापि अपिशब्दो द्रष्टव्यः । किं कृत्वाऽलक्षयन् ? इत्याह
अभ्यस्य, किम् इत्याह–स्वमतम्, एकान्तम्, अथवा सुष्ठु अमतमज्ञानं क्षणिक
निरंशतत्त्वम् । अनेन जीवादितत्त्वालक्षणे कारणमुक्तम् । ननु तल्लक्षणे किं प्रयोजनम् ?
इति चेदत्राह–प्रेक्षावान् इत्यादि । अत्रापि ततः इत्येतदपेक्ष्य6985म्, त6986तोऽयमर्थः
सिद्धः–ततः6987 तज्ज्ञानात् प्रेक्षावान् परीक्षको6988 लोकः अकलङ्कः निर्दोषः अतत्त्वा
भ्यासरहितः । त्वामेव याति शरणम् । किंविशिष्टं त्वा6989म् ? वीरम्, वीरनामानम्
अन्ति6990म तीर्थकरदेवम् । यदि वा, विशिष्टाम् अन्यजनासाधारणाम् ईम् अन्तरङ्गबहि
रङ्गलक्षणां श्रिय रातीति वीरः तीर्थकरसमु6991दयः तम् । पुनरपि कथम्भूतम् ? जिनम्,
संसारसमुद्रावर्त्तपरिभ्रामककर्मचक्रोन्मूलकम् । न केवलं त्वामुक्तविशेषणं शरणमेव
यात्ययं प्रेक्षावान् जनः, किन्तु नमस्करोति च । केन विशेषणेन ? इत्याह–सर्वज्ञाय
सकलविदे । कथम्भूताय ? इत्याह–निरस्तबाधकधिये, निरस्ता बाधकानाम्
एकान्तवादिनां धीर्येन । यदि वा, निरस्तं बाधकं यस्याः सा तथाविधा धीर्यस्य
निरस्ता वा बाधिका धीर्यस्य तस्मै । पुनरपि कथम्भूताय ? स्याद्वादिने6992 ते
तुभ्यं नमः स्तात् नमस्कारोऽस्तु इति । अकलङ्काय वीराय जिनाय इति विभक्ति
परिणामेन उ6993त्तरं पदत्रय योज्यमिति ।


स्याद्वादोग्ररवेरशेषविषयप्रद्योतिनो देशतः,

तद्रूपप्रतिरूपणाय गदिताः सप्तैव ते सन्नयाः ।

किं भास्वान्निखिलप्रकाशनपटुर्बालाग्रमप्युच्चकैः,

शक्तो द्योतयितुं विनोन्नतकरैर्निर्मूल्य बाढ तमः ? ॥ छ ॥

6994इति प्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे लघीयस्त्रयालङ्कारे पञ्चमः परिच्छेदः6995 ॥ छ ॥

एवं 6996प्रक्रान्तप्रकान्तप्रत्यक्षादिपरिच्छेदपञ्चमो नयप्रवेशो द्वितीयपरिच्छेदः समाप्तः ।

  1. –च्छेदे स्व– आ॰

  2. –पेक्षम् आ॰

  3. ततोप्यर्थः आ॰

  4. तत ज्ञानात् आ॰

  5. –कोऽकल–
    श्र॰

  6. त्वा वीरनामानं आ॰

  7. –मतीर्थ– श्र॰, ब॰

  8. –मुदायः श्र॰

  9. –दिने तुभ्य आ॰

  10. उत्तरपदत्रय आ॰

  11. इति श्रीमत्प्रभाचन्द्रदेववि– ब॰

  12. –दः समाप्तः ब॰

  13. एकान्त– ब॰